43110: पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः =========================================== **Padacheda:** पाराशर्य-शिलालिभ्याम् | S | 5 | 2 | भिक्षु-नटसूत्रयोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The affix णिनि comes in the sense of 'enounced by him' after the words 1. पाराशर्य and 2. शिलालिन् , the works enounced being भिक्षु-sūtra and नट-sūtra respectively. Vasu English Translation ------------------------ The affix णिनि comes in the sense of 'enounced by him' after the words 1. पाराशर्य and 2. शिलालिन् , the works enounced being भिक्षु-sūtra and नट-sūtra respectively. The affix णिनि is to be read into the *sutra* and not ढिनुक् ॥ The भिक्षुसूत्र and नटसूत्र are works treating of the duties of भिक्षुक 'religious mendicants' and नट 'jugglers, dancers'. Thus पाराशर्य + णिनि = पाराशर + णिनि (6.4.152) = पाराशरिन्, 'the treatise of *Parasarya* on the duties of *Bhikshus*'. Similarly शैलालिन् ॥ These words, of course, have the additional sense of 'he who studies the works so enounced by *Parasarya* and *Sailalin*'. See (4.2.66). As पाराशरिणो भिक्षवः, शैलालिनो नटाः ॥ According to some, it always expresses this relation (तद्विषयता (4.2.66)) and never a प्रोक्त alone. These are treated metaphorically as *Chhandas*. Why do we say 'denoting *Bhikshu* and *Nata* *Sutras*'? Observe पाराशरम्, शैलालम् ॥ Kashika ------- णिनिरिहानुवर्तते, न ढिनुक्। पाराशर्यशिलालिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये । भिक्षुनटसूत्रयोरिति यथासंख्यं प्रत्ययार्थविशेषणम्। सूत्रशब्दः प्रत्येकमभिसंबध्यते। तद्विषयता चात्रेष्यते, तदर्थं छन्दोग्रहणमनुवर्त्यम्, गुणकल्पनया च भिक्षुनटसूत्रयोश्छन्दस्त्वम्। पाराशर्येण प्रोक्तमधीयते पाराशरिणो भिक्षवः। शैलालिनो नटाः। भिक्षुनटसूत्रयोरिति किम् ? पाराशरम्। शैलालम्॥ Siddhanta Kaumudi ----------------- पाराशर्येंण प्रोक्त भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ॥ Balamanorama ------------ **पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः** - पाराशर्येणेति । पराशरशब्दाद्गर्गादित्वाद्गोत्रे यञि-॒पाराशर्यः॑ व्यासः । इह त्वनन्तरापत्ये गोत्रत्वारोपाद्यञ् । तेन प्रोक्ते भिक्षुसूत्रे णिनिः, ततोऽध्येतृप्रत्ययस्य छस्य लुक् । पाराशरिण इति । जसि रूपम् । शैलालिन इति । शिलालिन्शब्दान्नटसूत्रे प्रोक्ते णिनौ टिलोपे शैलालिन्शब्दादध्येतृप्रत्ययस्याऽणो लुकि 'शैलालिन' इति जसि रूपमिति भावः । Tattvabodhini ------------- **पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः** - पराशर्य । मण्डूकप्लुयाणिनिरिह सम्बध्यत इत्याह -णिनिः स्यादिति । तद्विषयताऽत्रेष्यते, तदर्थं छन्दोग्रहणमनुवर्त्त्यम् । सूत्रयोश्छन्दस्त्वं तु गौण्या वृत्त्या बोध्यम् । भिक्षुसूत्रमिति । चतुर्लक्षणीरूपम् । पाराशरिण इति । पाराशर्यो -व्यासः । अनन्तरापत्येऽपि गोत्रत्वेनोपचारात्गर्गादिभ्यः॑इति यञ् ।आपत्यस्य चे॑ति यलोपः । अध्येत्रणस्तुप्रोक्ता॑दिति लुक् । भिक्षुनटसूत्रयोः किम् । पराशरम् । शैलालम् । Padamanjari ----------- तदर्थं च्छन्दोग्रहणमनुवर्त्यमिति । ननु तदनुवृतावपि कथं भिक्षुनटसूत्रयोश्च्छन्दस्त्वम् ? तत्राह - गुणकल्पनय चेति । उपचारस्य निमितभूतो धर्मो गुणो गुरुशुश्रूपणादिः, तन्निमिता कल्पना गुणकल्पना । पाराशरिण इति । पूर्ववद्यलोपः । शैलालिन इति । शिलामलते इति शिलाली, ठलं भूपणपर्याप्तिवारणेषुऽ इत्येतस्मात्'सुप्यजातो' इति णिनिः, ततोऽस्मिन् णिनौ टिलोपः । पाराशरमिति । कण्वाद्यण् । शैलालमिति । औत्सर्गिकेऽणि'नान्तस्य टिलोपे सब्रह्मचारि' इत्यादिना टिलोपः ॥ Nyaas ----- `यथासंख्यम्` इत्यादि। पाराशर्याद्भिक्षुसूत्रे प्रत्ययः शिलालिनो नटसूत्रे। `तद्विषयता चात्रेष्यते` इति। कथं पुनरिष्यमाणापि सा लभ्यते? इत्याह - `तदर्थम्` #इत्यादि। ननु चानुवर्तमानच्छन्दोहणेनैव तद्विषयता प्राप्नोति? न; भिक्षुवनटसूत्िरयोरच्छन्दसत्वादित्याह - `गुणकल्पनया च` इत्यादि। छन्दसस्तूपचारनिमित्तं यो धर्मः स इह गुणोऽभिप्रेतः, तद्धेतुका कल्पना। यथा छन्दो यदर्थमधीयते तथा सूत्रमपि तद्धेतुं सम्पादयति। भिक्षुनटयोरित्येवमादिकया गुणकल्पनया भिक्षुनटसूत्रयोश्छन्दस्त्वमौपचारिकम्। `पाराशरिणः` इति। पाराशर्यशबिदो गर्गादिषु वञन्तः, **आपत्यस्य च तद्धितेऽनाति** (6.4.151) इति यलोपः। `शैलालिनः` इति। **नस्तद्धिते** (6.4.144) इति टिलोपः।`पाराशरम्` इति। **कण्वादिभ्यो गोत्रे** (4.2.111) इत्यण्। `शैलालम्` इति। औत्सर्गिकोऽण्, `नान्तस्य टिलोपे सबह्यहृचारिपीठ` (वा।798) इत्यादिना टिलोपः॥ Prakriyasarvasvam ----------------- आभ्यां क्रमात् तत्प्रोक्ते भिक्षुसूत्रे नटसूत्रे च वाच्ये णिनिः । पाराशर्येण प्रोक्तं वेदान्तसूत्रमधीयानाः पाराशरिणः । अत्रापत्ययलोपः । शिलालिना प्रोक्तं नटसूत्रमधीयानाः शैलालिनो नटाः ॥