43109: छगलिनो ढिनुक् ==================== **Padacheda:** छगलिनः | S | 5 | 3 | ढिनुक् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ढिनुक् comes in the sense of 'enounced by him' after the word छगलिन। Vasu English Translation ------------------------ The affix ढिनुक् comes in the sense of 'enounced by him' after the word छगलिन। The word छगलिन् being a word denoting the pupil of कलापी would have taken णिनि (4.3.104). This debars that. Thus छागलेयिनः 'who study the *Chhandas* enounced by *Chhagali*'. Kashika ------- छगलिन्शब्दाद् ढिनुक् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। कलाप्यन्तेवासित्वाद् णिनेरपवादः। छगलिना प्रोक्तमधीयते छागलेयिनः॥ Siddhanta Kaumudi ----------------- छगलिना प्रोक्तमधीयते छागलेयिनः ॥ Balamanorama ------------ **छगलिनो ढिनुक्** - छगलिनो । छगलिन्शब्दाक्तविषये ढिनुक्प्रत्ययः स्यादित्यर्थः । कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादः । छागलेयिन इति । ककार इत् । उकार उच्चारणार्थः । 'ढिन्' शिष्यते । ढस्य एय् । टिलोपः । ततोऽध्येतृप्रत्ययस्य लुगिति भावः । पाराशर्य णिनिः स्यादिति । 'उक्तविषये' इति शेषः । मण्डूकप्लुत्या णिनिरेवानुवर्तते इति भावः । पाराशर्येण प्रोक्तं भिक्षुसूत्रमित्यर्थे, शिलालिना प्रोक्तं नटसूत्रमित्यर्थे च तृतीयटान्ताण्णिनिः स्यादिति यावत् । भिक्षवः=संन्यासिनः, तदधिकारिकं सूत्रं भिक्षुसूत्रं=व्यासुप्रणीतं प्रसिद्धम् । Nyaas ----- `छागलेयिनः` इति। इहापि पूर्ववदेवाध्येतर्युत्पन्नस्याणो लुक् च तद्विषयता। एवमुत्तरयोर्योगयोर्वेदितव्यः॥ Prakriyasarvasvam ----------------- ढमात्रस्य एय् । छगलिन् एयिन्, 'नस्तद्धिते' (६-४-१४४) । छगलिना प्रोक्तमधीयानाः, छागलेयिनः ॥