43108: कलापिनोऽण्¶
Padacheda: कलापिनः | S | 5 | 1 |
अण् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अण् comes in the sense of ‘enounced by him’ after the word कलापि।
Vasu English Translation¶
The affix अण् comes in the sense of ‘enounced by him’ after the word कलापि। This debars णिनि of (4.3.104). Thus कलापाः ‘who study the work enounced by Kalapi’.
The word कलापाः is thus formed:- कलापिन् + अण् ॥ Here comes in force Sutra (6.4.144) which declares that इन् of कलापिन् should be elided before the taddhita affix. This elision is, however, debarred by sutra (6.4.164) which declares that words ending in the affix इन् retain their form when अण् not denoting a progeny follows. Therefore कलापिन् would have retained its इन् but for this Vartika.
Vaart:- The टि portion of the following words is elided when a Taddhita follows:- सब्रह्मचारिन्, पीठसर्पिन्, कलापिन्, कुथुमिन्, तैतिलिन्, जाजलिन्, जाङ्गलिन्, लाङ्गलिन्, शिलालिन्, शिखण्डिन्, सूकरसद्मन्, सुपर्वण् ॥ Thus ईन् being elided, we have कलापाः ॥
Kashika¶
कलापिशब्दादण् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। वैशंपायनान्तेवासित्वाद् णिनेरपवादः। कलापिना प्रोक्तमधीयते कालापाः। इनण्यनपत्ये (६.४.१६४) इति प्रकृतिभावे प्राप्ते, नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतलिजाजलिजाङ्गलि — लाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम् (वा० ६.४.१४४) इति टिलोपः। अथाण्ग्रहणं किम्, यथाप्राप्तमित्येव सिद्धम्? अधिकविधानार्थम्, तेन माथुरी वृत्तिः, सौलभानि ब्राह्मणानीत्येवमादि सिद्धम् ॥
Siddhanta Kaumudi¶
कलापिना प्रोक्तमधीयते कालापाः ।<!नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम् इत्युपसंख्यानाट्टिलोपः !> (वार्तिकम्) ॥
Balamanorama¶
कलापिनोऽण् - कलापिनोऽण् ।तेन प्रोक्त॑मित्येव वैशम्पायनशिष्यत्वात् प्राप्तस्य णिनेरपवादः । कालापा इति । कलापिन्शब्दादणि टिलोपे कालापशब्दादध्येतृप्रत्ययस्य छस्य लुगिति भावः ।॒इनण्यनपत्ये॑ इति प्रकृतिभावमाशङ्क्याह — नान्तस्येति ।
Tattvabodhini¶
कलापिनोऽण् - कलापिनोऽण् । वैशंपायनान्तेवासित्वात्प्राप्तस्य णिनेरपवादः ।इनण्यनपत्ये॑इति प्रकृतिभावे प्राप्ते आह — ।नान्तस्य टिलोपे सब्राहृचारिपीठसर्पिकलापिकौथमितैतिलिजाजलिलाङ्गलिशिलालिलशिखाण्डिसूकरसद्मसुपर्वणामुपसङ्ख्यानम् । नान्तस्य टिलोप इति । माथुरी वृत्तिः, मौदाःल पैप्पलादाः शाकला इति सिद्धम् । मुद पिप्पलाद शाकल -एभ्यःपुरामप्रोक्तेषु॑इति णिनेरपवादोऽण् । छगलिनो ढिनुक् । कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादोऽयम् ।
Padamanjari¶
यथाविहितमेवोच्येतेति । तत्र वचनसामर्थ्याद्यो विहितो न च प्राप्नोति स एवाण् भविष्यतीति भावः । एवमादीनीति । आदिशब्देन मौदाः, पैप्पलादाः, शाकला इत्येतेषां ग्रहणम्। अत्र मुद-पिप्पलादःशाकल्य - इत्येतेभ्यः’पुराणप्रोक्तेषु’ इति णिनेरपवादोऽण्भवति ॥
Nyaas¶
कालापाः`इति। पूर्ववत् प्रोक्तप्रत्ययान्तादध्येतर्युत्पन्नस्याणो लुक्, तद्विषयता च। `अथ इत्यादि। ननु चासत्यण्ग्रहणे यथा प्राप्ते विधीयमाने णिनेरेवापवादः स्यात्? नैतदस्ति; एवं हि वचनमनर्थकं स्यात्। तस्माद्यो विहितो न च प्राप्नोत्यनेन कबाधितत्वात् स एव भविष्यति, स चाणेव। एवमादि इति। आदिशब्देन मौदाः,पैप्पलादाः, शाकलाः, जाजलाः - इत्येतेषां ग्रहणम्। असत, त्वच्ग्रहणे सर्वमेव न सिध्येत्; वृद्धाच्छः (4.2.114) इति छेनाण औत्सर्गिकस्य बाधितत्वात्॥
Prakriyasarvasvam¶
अस्माद् वैशम्पायनशिष्यादण् । कलापिना प्रोक्तमधीयानाः कालापाः । सब्रह्मचार्यादित्वाट्टिलोपः । माथुरादेश्छबाधार्थमणिष्टः । माथुरेण प्रोक्ता माथुरी वृत्तिः ॥