43105: पुराणप्रोक्तेषु ब्राह्मणकल्पेषु¶
Padacheda: पुराण-प्रोक्तेषु | S | 7 | 3 |
ब्राह्मण-कल्पेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
The affix णिनि comes in the sense of ‘enounced by him’ after a word in the Instrumental -3rd case in construction when it denotes a ब्राह्मण or a कल्प-work enounced by ancient sages.
Vasu English Translation¶
The affix णिनि comes in the sense of ‘enounced by him’ after a word in the Instrumental -3rd case in construction when it denotes a ब्राह्मण or a कल्प-work enounced by ancient sages. This sutra further gives the sense of the affix. पुराण means ‘Ancient Sages.’ equivalent to पुरातण. Of Brahmana literature, the examples are, शाट्यायनिनः, एतेरायणः ॥ Kalpa work : as पैङ्गीकल्पः, आरुणपराजी ॥
Why do we say पुराणप्रोक्तेषु ‘announced by ancient sages.’? Observe याज्ञवल्कानि ब्राह्मणानि, आश्मरथः कल्पः ॥ (6.4.151) Yajnavalkya &c being sages of modern times. The तद् विषय affix (4.2.66) will not also apply to these, because the word ब्राह्मण in (4.2.66) is restricted to पुराणप्रोक्त of the present sutra.
Bhashya¶
पुराणप्रोक्तेषु ब्राह्मणकल्पेषु (1675) (5505 प्रतिषेधवार्तिकम् ॥ 1 ॥) - पुराणप्रोक्तेषु ब्राह्मणकल्पेषु याज्ञवल्क्यादिभ्यः प्रतिषेधस्तुल्यकालत्वात् - (भाष्यम्) पुराणप्रोक्तेष्वित्यत्र याज्ञवल्क्यादिभ्यः प्रतिषेधो वक्तव्यः। याज्ञवल्कानि ब्राह्मणानि, सौलभानि इति। किं कारणम्? तुल्यकालत्वात्। एतान्यपि तुल्यकालानीति॥
Kashika¶
प्रत्ययार्थविशेषणमेतत्। तृतीयासमर्थात् प्रोक्ते णिनिः प्रत्ययो भवति यत् प्रोक्तं पुराणप्रोक्ताश्चेद् ब्राह्मणकल्पास्ते भवन्ति। पुराणेन चिरन्तनेन मुनिना प्रोक्ताः। ब्राह्मणेषु तावत् — भाल्लविनः। शाट्यायनिनः। ऐतरेयिणः। कल्पेषु — पैङ्गी कल्पः। आरुणपराजी। पुराणप्रोक्तेष्विति किम् ? याज्ञवल्कानि ब्राह्मणानि। आश्मरथः कल्पः। याज्ञवल्क्यादयोऽचिरकाला इत्याख्यानेषु वार्ता। तया व्यवहरति सूत्रकारः। तद्विषयता कस्माद् न भवति? प्रतिपदं ब्राह्मणेषु यः प्रत्ययः, तस्य तद्विषयता विधीयते णिनेः। अयं तु याज्ञवल्क्यशब्दस्य कण्वादिषु (४.२.१११) पाठादण्। न चायं योगश्छन्दोऽधिकारमनुवर्तयति, तेन कल्पेष्वपि न भवति। पुराण इति निपातनात् तुडभावः। न चात्यन्तबाधैव, तेन पुरातनमित्यपि भवति॥
Siddhanta Kaumudi¶
तृतीयान्तात्प्रोक्तार्थे णिनिः स्यात् यत्प्रोक्तं पुराणप्रोक्ताश्चेद्ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन, शाट्यायनिनः । कल्पे, पिङ्गेन प्रोक्तः पैङ्गी कल्पः । पुराणेति किम् । याज्ञवल्क्यानि ब्राह्मणानि, आश्मरथः कल्पः । अणि आपत्यस्य -(SK1082) इति यलोपः ॥
Balamanorama¶
पुराणप्रोक्तेषु ब्राह्मणकल्पेषु - पुराणप्रोक्तेषु ।तेन प्रोक्त॑मिति,णिनि॑रिति चानुवर्तते । मन्त्रव्यतिरिक्तवेदभागा ब्राआहृणानि । बोधायनादिकल्पसूत्राणिकल्पाः । तथाभूतेषु पुरातनमुनिप्रोक्तेषु ग्रन्थेषु वाच्येषु तृतीयान्ताण्णिनिः स्यादित्यर्थः । तदाह — तृतीयान्तादिति । यत्प्रोक्तमिति । सामान्याभिप्रायमेकवचनम् । प्रत्ययाभिधेयं यत्प्रोक्तं तत्पुरातनमुनिप्रोक्तब्राआहृणकल्पात्मकं चेदिति यावत् ।पुराणप्रोक्त॑मित्येतद्व्याचष्टे — पुराणेनेति । ब्राआहृणे उदाहरति — भल्लु-भाल्लविन इति । भल्लु इति प्रकृतिनिर्देशः । भल्लुना पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थो प्रोक्तार्थणिनिः । भाल्लविन्शब्दादध्येत्रणो लुकि ‘भाल्लविन’ इति रूपमिति भावः । ब्राआहृणे उदाहरणान्तरमाह — शाठआयन शाठआयनिन इति । शाठआयनेति प्रकृतिनिर्देशः । शाठआयनेन पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थे प्रोक्तार्थणिनि प्रत्यये शाठआयनिन्शब्दाध्येत्रणो लुकि ‘शाठआयनिन’ इति रूपमित्यर्थः । कल्पे इति । ‘उदाह्यियते’ इति शेषः । पिङ्ग-पैह्गी कल्प इति । पिङ्गेति प्रकृतिनिर्देशः । पिङ्गेन पुरातनमुनिना प्रोक्त इत्यर्थे णिनौ रूपम् ।
Padamanjari¶
भाल्लविन इत्यादि । भल्लु, शाट।लयन, ऐतरेय, पिङ्ग, अरुण, पराजि इत्येतेभ्यो णिनिः । यज्ञवल्काश्मरथशब्दौ कण्वादी, ताभ्यां यञन्ताभ्यामपि ठापत्यस्यऽ इति यलोपः । ननु च याज्ञवल्कादीन्यपि पुराणप्रोक्तान्येव, शाट।लयनकादिभिर्ब्राह्मणान्तरैस्तुल्यकालत्वात् ? इत्यत आह - याज्ञवल्क्यादयो हीति । आख्यानानिउभारतादीनि । तया व्यवहरतीति । अर्थस्तु तथा वा भवत्वन्यथा वेति भावः । तद्विषयता कस्मान्न भवतीति । याज्ञवल्कादिविषयः प्रश्नः,’च्छन्दोब्राह्मणानि च’ इत्यत्र पुराणप्रोक्तत्वविशेषस्यानाश्रयणात्प्राप्नोतीति भावः । प्रातपदमिति । एतल्लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । एतदर्थमेव च तत्र ब्राह्मणग्रहम्; च्छन्दस्त्वादेव सिद्धेः । कल्पेषु तर्हि कस्मान्न भवति यथा - काश्यपिनः, कौशिकिन इत्यत्र ? इत्यत आह - न वायमिति । युक्तं तत्र च्छन्दोऽधिकारे तस्य योगस्यानुवृतेः, अयं तु न तथेति कल्पेष्वपि तद्विषयता न भवतीत्यर्थः । न चात्यन्तबाधैवेति ।’सिद्धशुष्कपक्वबन्धैश्च’ इति निपातनादेव सिद्धे,’शुषः कः’ ‘पचो वः’ इति लिङ्गम् -‘बाधकान्यपि निपातनानि भवन्ति’ इति । यथा तु सर्वादिसूत्रे’भाष्यम्, तथा ठन्यपराण्यपि निपातनानि बाधकान्येव’ इति स्थितम् ॥
Nyaas¶
भाल्लविनः`इति। भाल्लवः, शाटआयनः,ऐतरेय - इत्येतेभ्यः प्रोक्तार्थे णिनिः। तदन्तात् `तदधीते (4.2.58) इत्युत्पन्नस्य प्रोक्ताल्लुक् (4.2.64) छन्दोब्राह्मणानि च तद्विषयाणि (4.2.66) इत्यादिना तद्विषयता। पैङ्गी इति। आरुणपराजी इति। पिङ्गारुणपराजशब्दाभ्यां णिनिः। याज्ञवल्कानि इति। आश्मरथः इति। याज्ञवल्क्यआरव्यशब्दाभ्यां गर्गादियञन्ताभ्यां कण्वादिभ्यो गोत्रे (4.2.111) इत्युत्पन्नस्य, आपत्यस्य (6.4.151) इत्यादिना यलोपः। ननु याज्ञवल्कादीन्यपि पुराणप्रोक्तान्येव ब्राआहृणानि, ब्राआहृणान्तरैः पुराणप्रोक्तेस्तुल्यत्वात्? इत्याह - याज्ञवल्क्य इत्यादि। आख्यानेषु ह्रेषा वार्ता - याज्ञवल्क्यादयोऽपरकालाः प्रवक्तारोऽन्येभ्यः प्रवक्तृभ्यः। तथा च वस्तुत्वमनपेक्ष्य व्यवहरति सूत्रकार इत्यदोषः। तद्विषयता कस्मान्न भवति (इति)। छन्दोब्राह्मणानि च तद्विषयाणि (4.2.66) इत्यादिनेति भावः। प्रतिपदम् इत्यादि। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) हि प्रतिपदं विशेषणम्। ब्राआहृणमुच्चार्य ब्राआहृणेषु यः प्रत्ययो विहितस्तस्य तद्विषयता विधीयते। तस्मात् तद्विषयतास्य न भवति। कल्पेषु तर्हि कस्मान्न भवति; यथा - काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिन इत्यत्र? न चायम् इत्यादि। छन्दोऽधिकारे ये योगस्तद्विहितस्य प्रत्ययस्य तद्विषयता भवति, न चायं योगश्छन्दोऽधिकारमनुवर्तते;तेनैतद्विहितस्य प्रत्ययस्याध्येतृवेदितृविषयता कल्पेषु न भवति - पैङ्गी कल्पः, आरुणपराजी कल्द इति।पुराण इति कोऽयं शब्दः, यावता सांयचिरम् (4.3.23) इत्यादिना टउटउलोः सन्नियोगेन तुटि कृते पुरातनमिति भवितव्यम्? इत्यत आह - पुराण इति निपातनात् तुडभावः (इति)। यद्येवम्, न भवति पुरातनम्? इत्याह - `{न वा काशिका}न च इत्यादि। ननु बाधकान्यपि निपातनानि (वी।प।वृ।109) इत्यतो भवितव्यमेव वाचकेनेति? अवाचकान्यपि (नी।प।वृ।110)। अबाधकान्यपि भवन्ति, एतच्च शदेरगतौ तः (7.3.42) इत्यत्र प्रतिपादितम्॥
Prakriyasarvasvam¶
पुरातनैर्मुनिभिः प्रोक्तेषु ब्राह्मणेषु कल्पेषु च वाच्येषु णिनिः । ऐतरेयेण प्रोक्तं ब्राह्मणमधीयानाः ऐतरेयिणः । पैङ्ग्येन प्रोक्तः कल्पः पैङ्गी । अत्र ‘आपत्यस्य—’ (६-४-१५१) इति यलोपः । तद्विषयता चास्य नेष्टा । अचिरकालेषु तु न । याज्ञवल्क्येन प्रोक्तानि याज्ञवल्कानि ब्राह्मणानि । अत्र ‘कण्वादिभ्यो गोत्रे’ (२-४-१११) इति शैषिकोऽण् ॥ प्रतिपदविहितानां छणादीनामेव तद्विषयतेत्यणस्तद्विषयता न ॥