43106: शौनकादिभ्यश्छन्दसि

Padacheda: शौनक-आदिभ्यः | S | 5 | 3 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix णिनि comes in the sense of ‘enounced by him’ after the words शौनक etc. in denoting छन्दस् (Vedas).

Vasu English Translation

The affix णिनि comes in the sense of ‘enounced by him’ after the words शौनक etc. in denoting छन्दस् (Vedas). This debars छ and अण् ॥ Thus शौनकेन प्रोक्तंमधीयते = शौनकिनः ‘who study (4.2.64) the Chhandas enounced by Saunaka.’ वाजसनेयिनः &c.

Why do we say ‘in denoting Chhandas’? Observe शौनकीया शिक्षा ‘the orthography of Saunaka.’

The word कठशाठ occurs in this list. This must always be taken as a compound for affixing this affix. After the single word कठ the affix is elided (4.3.107). Thus कठशाठाभ्यां प्रोक्तामधीयते = काठशाठिनः ॥

1 शौनक, 2 वाजसनेय, 3 शार्ङ्गरव, 4 शापेय (सांपेय), 5 शाष्पेय (शाखेय) 6 खाडायन, 7 स्तम्भ (स्कम्भ), 8 स्कन्ध, 9 देवदर्शन, 10 रज्जुभार, 11 रज्जुकण्ठ, 12 कठशाठ, 13 कषाय (कशाय) 14 तल, 15 दण्ड, 16 पुरुषांसक (पुरुषासक), 17 अश्वपेज (अश्वपेठा), 18 साङ्गरव, 19 स्कन्द, 20 देवदत्तशठ, 21 तलवकार.

Kashika

शौनक इत्येवमादिभ्यो णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये छन्दस्यभिधेये। छाणोरपवादः। शौनकेन प्रोक्तमधीयते शौनकिनः (कौ०सू० ८५.८)। वाजसनेयिनः (आप०श्रौ० १.८.१२)। छन्दसीति किम्? शौनकीया शिक्षा। कठशाठ इत्यत्र पठ्यते। तत् संघातार्थम् केवलाद्धि लुकं वक्ष्यति (४.३.१०७)। कठशाठाभ्यां प्रोक्तमधीयते काठशाठिनः॥ शौनक। वाजसनेय। साङ्गरव। शार्ङ्गरव। सांपेय। शाखेय। खाडायन। स्कन्ध। स्कन्द। देवदत्तशठ। रज्जुकण्ठ। रज्जुभार। कठशाठ। कशाय। तलवकार। पुरुषांसक। अश्वपेय। शौनकादिः॥

Siddhanta Kaumudi

छन्दस्यभिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौनकिनः ॥

Balamanorama

शौनकादिभ्यश्छन्दसि - ॒छन्दोब्राआहृणानि च तद्विषयाणी॑त्यध्येतृप्रत्ययान्तत्वनियमस्तु कल्पेषु न सर्वत्र प्रवर्तत इतिछन्दोब्राआहृणानी॑ति सूत्रेभाष्ये स्पष्टम् । याज्ञवल्कानीति । याज्ञवल्क्येन प्रोक्तानीत्यर्थः । आश्मरथ इति । आश्मरथ्येन प्रोक्त इत्यर्थः । यलोप इति । यज्ञवल्काआरथशब्दौ कण्वादी । ताभ्यां यञन्ताभ्यामणिआपत्यस्य चे॑ति यलोप इत्यर्थः । याज्ञवल्क्याऽऽश्मरथ्यावाधुनिकावित्यभिमानः । भाष्ये तु शाठआयनादितुल्यकालत्वाद्याज्ञवल्क्यादिभ्यो णिनिप्रतिषेध इति तद्विषयता च नेति वचनद्वयमारब्धमित्यास्तां तावत् ।

Nyaas

छाणोरपवादः इति। ये वृद्धास्तेभ्यश्छस्यापवादः, शेषेभ्यस्त्वणः। शौनकिनः। वाजसनेयिनः इति। शौनकेन प्रोक्तं वाजसनेयेन प्रोक्तमिति णिनिः। तदन्तात् (4.2.58) इत्यण्, तस्य प्रोक्ताल्लुक् (4.2.64) , पूर्ववत् तद्विषयता।केवलाद्धि इत्यादि। तत् संहतार्थमित्यत्रायं हेतुः। यस्मात् केवलात् कठाल्लकं वक्ष्यति, तस्मात् कठशाठ इति यदत्र पठते तत्संहतार्थम्॥

Prakriyasarvasvam

एभ्यः प्रोक्ते वेदे वाच्ये णिनिः । शौनकेन प्रोक्तं छन्दोऽधीयानाः, शौनकिनः । वाजसनेयिनः । शार्ङ्गरविणः । छन्दसोऽन्यत्र शौनकीया शिक्षा ॥