43104: कलापिवैशम्पायनान्तेवासिभ्यश्च¶
Padacheda: कलापि-वैशम्पायन-अन्तेवासिभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
After the words denoting the pupils of कलापि and वैशम्पायन , the affix णिनि is used in the sense of ‘enounced by him’.
Vasu English Translation¶
After the words denoting the pupils of कलापि and वैशम्पायन , the affix णिनि is used in the sense of ‘enounced by him’. Karika
हरिद्रुरेषां प्रथमस्ततश्छगलितुम्बुरू । उलपेन चतुर्थेन कालापकमिहोच्यते ॥ आलम्बिश्चरकः प्राचां पलङ्गकमलावुभौ । ऋचाभारुणिताण्ड्याश्च मद्ध्यमीयास्त्रयो ऽपरे ॥ श्यामायन उदीच्येषु उक्तः कठकलापिनोः ।
This debars अण् and छ ॥ There are four words which express pupils of Kalapa: as, हरिद्रु, छगली, तुम्बुरुः, उलपः ॥ There are nine words expressing pupils of Vaisampayana: as, आलम्बि, पलङ्ग, कमल, ॠचाभ, आरुणि; ताण्ड्य, श्यामायन, कठ, कलापी ॥
Thus हारिद्रविणः ‘those who study (4.2.64) the works enounced by Haridru.’ तम्बुरविणः, औलपिनः and छगली takes dhinuk (4.3.109)॥ आलम्बिनः, पालङ्गिनः, आरुणिनः, आर्च्चाभिनः, कामलिनः, ताण्डिनः, श्यामायनिनः ॥ The affix is elided after कठ (4.3.107), and is replaced by अण् (4.3.108) after कलापी ॥
The pupils must be direct ones, and not pupil of pupils. For had that been the meaning, Kalapi being a pupil of Vaisampayana, the words ‘pupils of Vaisampayana’ would have included the ‘pupils of Kalapi.’ But that is not so, the word Kalapi being separately mentioned in the sutra. So also Katha is a pupil of Vaisampayana, and Khadayana is a pupil of Katha and had the sutra applied to pupil’s pupil also, then the affix णिनि would have applied to खाण्डायन also. But that is not the case, Khadayana being mentioned in Saunakadi class. (4.3.106).
The word चरकः means वैशम्पायनः, hence चरकाः means pupils of वैशम्पायनः ॥
Bhashya¶
कलापिवैशम्पायनान्तेवासिभ्यश्च (1674) (णिनिप्रत्ययाधिकरणम्) (5502 पूर्वपक्षवार्तिकम्॥ 1 ॥) - प्रत्यक्षकारिग्रहणम् - (भाष्यम्) प्रत्यक्षकारिग्रहणं कर्तव्यम्, अन्तेवास्यन्तेवासिभ्यो मा भूदिति। तत्तर्हि वक्तव्यम्? न वक्तव्यम्॥ (5503 पूर्वपक्षनिराकरणे वार्तिकम्॥ 2 ॥) - कलापिखाडायनग्रहणं ज्ञापकं वैशम्पायनान्तेवासिषु प्रत्यक्षकारिग्रहणस्य - (भाष्यम्) यदयं कलापिखाडायनग्रहणं करोति तज्ज्ञापयत्याचार्यो नान्तेवास्यन्तेवासिभ्यो भवतीति। कथं कृत्वा ज्ञापकम्? वैशम्पायनान्तेवासी कठः, कठान्तेवासी खाडायनः। वैशम्पायनान्तेवासी कलापी। यदि चान्तेवास्यन्तेवासिभ्योऽपि स्यात्कलापिखाडायनग्रहणमनर्थकं स्यात्। पश्यति त्वाचार्यो नान्तेवास्यन्तेवासिभ्यो भवतीति, ततः कलापिखाडायनग्रहणं करोति॥ (5504 सिद्धान्तवार्तिकम्॥ 3 ॥) - छन्दोग्रहणं चेतरथा ह्यतिप्रसङ्गः - (भाष्यम्) छन्दोग्रहणं च कर्तव्यम्। इतरथा ह्यतिप्रसङ्गः। इतरथा ह्यतिप्रसङ्गः स्यात्। इहापि प्रसज्येत -तित्तिरिणा प्रोक्ताः श्लोका इति॥
Kashika¶
कलाप्यन्तेवासिनां वैशंपायनान्तेवासिनां च ये वाचकाः शब्दास्तेभ्यो णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। अणोऽपवादः। छं तु परत्वाद् बाधते। तत्र कलाप्यन्तेवासिनश्चत्वारः — हरिद्रुः, छगली, तुम्बुरुः, उलप इति। वैशम्पायनान्तेवासिनो नव — आलम्बिः, पलङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति। प्रत्यक्षकारिणो गृह्यन्ते, न तु व्यवहिताः शिष्यशिष्याः। कुतः? कलापिखाडायनग्रहणात्। तथाहि, वैशंपायनान्तेवासी कलापी, तदन्तेवासिनो वैशंपायनान्तेवासिन एव भवन्ति, किं कलापिग्रहणेन ? तथा वैशंपायनान्तेवासी कठः, तदन्तेवासी खाडायनः, तस्य किं शौनकादिषु पाठेन? तदेतत् प्रत्यक्षकारिग्रहणस्य लिङ्गम्। कलाप्यन्तेवासिभ्यस्तावत् — हरिद्रुणा प्रोक्तमधीयते हारिद्रविणः। तौम्बुरविणः। औलपिनः। छगलिनो ढिनुकं (४.३.१०९) वक्ष्यति। वैशम्पायनान्तेवासिभ्यः — आलम्बिनः। पालङ्गिनः। कामलिनः। आर्चाभिनः। आरुणिनः। ताण्डिनः। श्यामायनिनः। कठाल् लुकं वक्ष्यति (४.३.१०७), कलापिनश्चाणम् (४.३.१०८)।
हरिद्रुरेषां प्रथमस्ततश्छगलितुम्बुरु।
उलपेन चतुर्थेन कालापकमिहोच्यते॥
आलम्बिश्चरकः प्राचां पलङ्गकमलावुभौ।
ऋचाभारुणिताण्ड्याश्च मध्यमीयास्त्रयोऽपरे॥
श्यामायन उदीच्येषु उक्त ः कठकलापिनोः।
चरक इति वैशंपायनस्याख्या, तत्संबन्धेन सर्वे तदन्तेवासिनश्चरका इत्युच्यन्ते॥
Siddhanta Kaumudi¶
कलाप्यन्तेवासिभ्यः, हरिद्गुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पायनान्तेवानिभ्यः, आलम्बिनः ॥
Balamanorama¶
कलापिवैशम्पायनान्तेवासिभ्यश्च - कलापि ।तेन प्राक्त॑मित्येव । कलापिशिष्यवाचिभ्यो, वैशम्पायनशिष्यवाचिभ्यश्च णिनिः स्यादित्यर्थः । कलाप्यन्तेवासिभ्य इति । ‘उदाह्यियते’ इति शेषः । हारिद्रविण इति । हरिद्रुर्नाम कलापिनः शिष्यः । ततः प्रोक्ते णिनिः ।ओर्गुणः॑ । आदिवृद्धिः । हरिद्रविन्शब्दादध्येत्रणःप्रोक्ताल्लु॑हिति लुगिति भावः । हरिद्रुः, छगली, तुम्बुरुः, उलप इति चत्वारः कलापिशिष्याः । तुम्बुरुणा प्रोक्तमधीयते तौम्बुरविणः । छगलिनस्तु ढिनुग्वक्ष्यते । औलपिनः । वैशम्पायनान्तेवासिभ्य इति । ‘उदाह्यियते’ इति शेषः । आलम्बिन इति । आलम्बिः, कलिङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्डः, श्यामायनः, कठः, कलापी इति नव वैशम्पायशिष्याः । तत्र आलम्बिशब्दादध्येत्रणः प्रोक्ते णिनि । आलम्बिन्शब्दादध्येत्रणःप्रोक्ताल्लु॑गिति लुक् । आलम्बिनः, कालिङ्गिनः, कामलिनः, आर्चाभिनः, आरुणिनः, ताण्डिनः । अत्रआपत्यस्ये॑ति यलोपः । श्यामायनिनः । कठात्तु लुग्वक्ष्यते । कलापिनस्त्वण्वक्ष्यते । वैशम्पायनशिष्यः कलापी । तता च कलाप्यन्तेवासिनां वैशम्पायनशिष्यत्वादेव सिद्धे पृथग्ग्रहणात्तच्छिष्यशिष्याणां न ग्रहणमिति भाष्ये स्पष्टम् ।
Tattvabodhini¶
कलापिवैशम्पायनान्तेवासिभ्यश्च - कलापिवेशंपायना । अणोऽपवादः छं तु परत्वाद्बाधते । कलाप्यन्तेवासिनश्चत्वारः । हरिद्रुः छगली तुम्बुरुः उलप इति । वैशंपायनान्तेवासिनस्तु नव आलम्बिः कलिङ्गः कमलः ऋचाभः आरुणिः ताण्डः श्यामायनः कठः कलापी-इति । हारिद्रविण इति । एवं तौम्बुरविणः, औलपिनः छगलिनस्तु ढिनुकं वक्ष्यति । आलम्बिन इति । एवं कालिङ्गिनः कामलिनः आर्चाभिनः आरुणिनः ताण्डिनः श्यामायनिनः । कठाल्लुकं वक्ष्यति, कलापिनश्चाणम् । याज्ञवस्क्याश्मरथ्यशब्दौ कण्वादी, तेन ताभ्यां यञन्ताभ्यां वृद्धाच्छो न भवतीत्यशयेनाह अणि आपत्यस्येतीति ।यज्ञवस्क्यादयो ह्रचिरकालाः॑ इति भारतादिषु व्यवहारः, स एवानुमृत सूत्रकृत ।
Padamanjari¶
कलाप्यन्तेवासिनामित्यादि । सूत्रे त्वभेदोपचाराश्रयो निर्देशः । कलाप्यन्तेवासिनश्चत्वार इत्यादि । ननु च शिष्यशिष्येष्वपि शिष्यव्यवहारो लोके दृश्यते, तत्कथमियन्त एवेति नियमः ? तत्राहप्रत्यक्षकारिण इति । क्रियासामान्यवचनः करोतिः प्रकरणाअदिहाध्ययने वर्तते । कलापिखाण्डायनग्रहणादिति । एतदेव विवृणोति - तथा हीति । वैशम्पायनस्यान्तेवासी कलापी, यदि चान्तेवास्यन्तेवासिनोऽपि गृह्यएरन्, कलापिग्रहणमनर्थकम्,’वैशम्पायनान्तेवासिभ्यः’ इत्येव सिद्धम् ; कलाप्यन्तेवासिनामपि वैशम्पायनान्तेवासित्वात् । तथा वैशम्पायनान्तेवासी कठः, कठान्तेवासी खाण्डायनः, तत्र व्यवहितानामपि ग्रहणे वैशम्पायनान्तेवासित्वादनेनैव सिद्धे शौनकादिषु खाण्डायनशब्दस्य पाठो निष्फलः स्यात् । उदाहरणेषु च्छन्दोब्राह्मणानीति तद्विषयता, अध्येतृप्रत्ययस्य’प्रोक्ताल्लुक्’ इति लुक् । उलपेन चतुर्थेनेति । सहयोगे तृतीया । कलापिन इदं कालापकम्,’गोत्रचरणाद् वुञ्’ । तत्र’धर्माम्नाययोः’ इति पठ।ल्ते, तस्मादिहोपमानाच्छिष्यसमूहे प्रयोगः । आलम्बिश्चरकः प्राचामिति । आलम्बिर्नाम प्राचां देश उत्पन्नश्चरकस्य शिष्यः । एवं फलिङ्गकमलावुभौ प्राचामेव त्रय एते प्राच्या उक्ताः । कठकला पिनोरिति ।’कठचरकाल्लुक्’ इति कठाल्लुगुक्तः । कलापिशब्दादपि’कलापिनो’ ण्ऽ त्यणुक्तः ॥
Nyaas¶
अभिधानेऽभियोपचारात् कलापिवैशम्पायनान्तेवास्यभिधायिनः शब्दा इह कलापिवैशम्पायनान्तेवासिशब्देन निर्दिष्टाः। अत एवाह - कलाप्यन्तेवासिनाम् इति।ननु च ये व्यवहिताः शिष्यशिष्याः, ते कलापिवैशम्पायनान्तेवासिन एव भवन्ति, तदयुक्तमुक्तम् - कलाप्यन्तेवासिनश्चत्वारः,वैशम्पायनान्तेवासिनो नव? इत्याह - प्रत्यक्षकारिणःर इत्यादि। करोतिरत्राध्ययने वर्तते। यैः साक्षादधीतं ते प्रत्यक्षकारिणः। इहान्तेवासिनो गृह्यन्ते चैतावन्त एवेति। किमत्रायुक्तम्? कुत इह साक्षात्कारिणो गृह्यन्ते, न हि व्यवहिता इत्यत्र हेतुं पृच्छति। कलापिखाण्डायनग्रहणात् इति। हेतुनिर्देशः। {तथा हि -काशिका}तथा च इत्यादि। अस्यैव विवरणम्। वैशम्पायनसय् कलाप्यन्तेवासी, तस्य येऽन्तेवासिनस्ते वैशम्पायनान्तेवासिनो भवन्त्येव। यदि तत्र ये व्यवहितास्तेऽप्यन्तेवासिनो गृह्रेरन् कलापिग्रहणमनर्थकं स्यात्, वैशम्पायनान्तेवासिभ्यः इत्येवं ब्राऊयात्। तथा वैशम्पायनान्तेवासी खाण्डायनः;तत्र यदि व्यवहिता अपिगृह्रेरन्, ततो वैशम्पायनान्तेवासित्वादनेनैव सूत्रेण सिद्धे शौनकादिषु खाण्डायनशब्दस्य पाठो निष्फल एव स्यात्। तस्मादिहापि कलापिग्रहणं शौनकादिषु खाण्डायनशब्दस्य पाठ एतदुभयमपि साक्षात्कारिग्रहणस्य लिङ्गं ज्ञापकम्। हारिद्रविणः इत्यादि। हरिद्रुप्रभृतिभ्यः प्रोक्तार्थे णिनिः,तदन्तात् तदधीते तद्वेद (4.2.59) इत्यण्, तस्य प्रोक्ताल्लुक् उलपेन चतुर्थेन इति। सहार्थे तृतीया। कालापकम् इति। कलापिन इदं कालापकम्, गोत्रचरणाद् वुञ् (4.3.126) । ननु च धर्माम्नाययोर्वुञ् (वा।476), न चेमे शिव्या धर्माम्नायाः,तत्कथं वुञ्? एवं तर्ह्रुपमानाद्भविष्यतीति। कालापकमिव धर्मवच्छिष्या उच्यन्ते। यथा धर्मः कलापिसम्बन्धी, तथा शिष्या इत्युच्यत उपमानार्थः। आलम्बिर्नाम प्राचां देशः, तत्रोत्पन्नः `चरकः। एवं पलङ्गकमलावुभौ। प्राचामेवत्रयः। एते प्राच्याः वैशम्पायनशिष्याः ऋचाभारुणिताण्डआश्च मध्यमीयास्त्रयोऽपेर चरकाः। मध्यदेशे भवा मध्यमीयाः। गहादिषु मध्यमध्यमञ्चाण् चरणे (ग।सू।99) इति पठते। तस्यायमर्थः - मध्यशब्दो मध्यमभावमापद्यते, छप्रत्ययश्च ततो भवति, चरणे तु प्रत्ययार्थेऽण् च भवतीति। तत्र यदा ऋचाभादीनां चरणत्वं न विवक्ष्यते,तदा छे कृते मध्यमीया इति भवति। चरणविवक्षायां त्वणि कृते माध्यमा इति भवति। उदक्षु भवा उदीच्याः, द्युप्रागपागुदक्प्रतीचो यत् (4.2.101) इत्यादिना यत्। उदीच्येषु मध्ये श्यामायनिश्चरकः।कठकलापिनावप्युदीच्येषु चरकौ, अपरस्याप्युक्तम् - कलापिनोऽण् (4.3.108) इति। ननु च वैशम्पायनान्तेवासिनां कठेनैव चरक इत्येषाख्या, तत्कथं चरक इत्युच्यत? इत्याह - चरक इति वैशम्पायनस्य इत्यादि। यद्यपि तेषां चरक इत्याख्यानं न भवति, तद्गुरोस्तु वैशम्पायनस्य भवति, तत्सम्बन्धेन तच्छिष्या अपि तथोच्यन्ते॥
Prakriyasarvasvam¶
णिनिः स्यात् । कलापिशिष्येण तुम्बुरुणा प्रोक्तमधीयानाः तौम्बुरविणः । वैशम्पायनशिष्येण कमलेन प्रोक्तमधीयानाः, कामलिनः ॥