43105: पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ====================================== **Padacheda:** पुराण-प्रोक्तेषु | S | 7 | 3 | ब्राह्मण-कल्पेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The affix णिनि comes in the sense of 'enounced by him' after a word in the Instrumental -3rd case in construction when it denotes a ब्राह्मण or a कल्प-work enounced by ancient sages. Vasu English Translation ------------------------ The affix णिनि comes in the sense of 'enounced by him' after a word in the Instrumental -3rd case in construction when it denotes a ब्राह्मण or a कल्प-work enounced by ancient sages. This *sutra* further gives the sense of the affix. पुराण means 'Ancient Sages.' equivalent to पुरातण. Of *Brahmana* literature, the examples are, शाट्यायनिनः, एतेरायणः ॥ *Kalpa* work : as पैङ्गीकल्पः, आरुणपराजी ॥ Why do we say पुराणप्रोक्तेषु 'announced by ancient sages.'? Observe याज्ञवल्कानि ब्राह्मणानि, आश्मरथः कल्पः ॥ (6.4.151) *Yajnavalkya* &c being sages of modern times. The तद् विषय affix (4.2.66) will not also apply to these, because the word ब्राह्मण in (4.2.66) is restricted to पुराणप्रोक्त of the present *sutra*. Bhashya ------- पुराणप्रोक्तेषु ब्राह्मणकल्पेषु (1675) (5505 प्रतिषेधवार्तिकम् ॥ 1 ॥) - पुराणप्रोक्तेषु ब्राह्मणकल्पेषु याज्ञवल्क्यादिभ्यः प्रतिषेधस्तुल्यकालत्वात् - (भाष्यम्) पुराणप्रोक्तेष्वित्यत्र याज्ञवल्क्यादिभ्यः प्रतिषेधो वक्तव्यः। याज्ञवल्कानि ब्राह्मणानि, सौलभानि इति। किं कारणम्? तुल्यकालत्वात्। एतान्यपि तुल्यकालानीति॥ Kashika ------- प्रत्ययार्थविशेषणमेतत्। तृतीयासमर्थात् प्रोक्ते णिनिः प्रत्ययो भवति यत् प्रोक्तं पुराणप्रोक्ताश्चेद् ब्राह्मणकल्पास्ते भवन्ति। पुराणेन चिरन्तनेन मुनिना प्रोक्ताः। ब्राह्मणेषु तावत् — भाल्लविनः। शाट्यायनिनः। ऐतरेयिणः। कल्पेषु — पैङ्गी कल्पः। आरुणपराजी। पुराणप्रोक्तेष्विति किम् ? याज्ञवल्कानि ब्राह्मणानि। आश्मरथः कल्पः। याज्ञवल्क्यादयोऽचिरकाला इत्याख्यानेषु वार्ता। तया व्यवहरति सूत्रकारः। तद्विषयता कस्माद् न भवति? प्रतिपदं ब्राह्मणेषु यः प्रत्ययः, तस्य तद्विषयता विधीयते णिनेः। अयं तु याज्ञवल्क्यशब्दस्य कण्वादिषु (४.२.१११) पाठादण्। न चायं योगश्छन्दोऽधिकारमनुवर्तयति, तेन कल्पेष्वपि न भवति। पुराण इति निपातनात् तुडभावः। न चात्यन्तबाधैव, तेन पुरातनमित्यपि भवति॥ Siddhanta Kaumudi ----------------- तृतीयान्तात्प्रोक्तार्थे णिनिः स्यात् यत्प्रोक्तं पुराणप्रोक्ताश्चेद्ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन, शाट्यायनिनः । कल्पे, पिङ्गेन प्रोक्तः पैङ्गी कल्पः । पुराणेति किम् । याज्ञवल्क्यानि ब्राह्मणानि, आश्मरथः कल्पः । अणि आपत्यस्य -(SK1082) इति यलोपः ॥ Balamanorama ------------ **पुराणप्रोक्तेषु ब्राह्मणकल्पेषु** - पुराणप्रोक्तेषु ।तेन प्रोक्त॑मिति,णिनि॑रिति चानुवर्तते । मन्त्रव्यतिरिक्तवेदभागा ब्राआहृणानि । बोधायनादिकल्पसूत्राणिकल्पाः । तथाभूतेषु पुरातनमुनिप्रोक्तेषु ग्रन्थेषु वाच्येषु तृतीयान्ताण्णिनिः स्यादित्यर्थः । तदाह — तृतीयान्तादिति । यत्प्रोक्तमिति । सामान्याभिप्रायमेकवचनम् । प्रत्ययाभिधेयं यत्प्रोक्तं तत्पुरातनमुनिप्रोक्तब्राआहृणकल्पात्मकं चेदिति यावत् ।पुराणप्रोक्त॑मित्येतद्व्याचष्टे — पुराणेनेति । ब्राआहृणे उदाहरति — भल्लु-भाल्लविन इति । भल्लु इति प्रकृतिनिर्देशः । भल्लुना पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थो प्रोक्तार्थणिनिः । भाल्लविन्शब्दादध्येत्रणो लुकि 'भाल्लविन' इति रूपमिति भावः । ब्राआहृणे उदाहरणान्तरमाह — शाठआयन शाठआयनिन इति । शाठआयनेति प्रकृतिनिर्देशः । शाठआयनेन पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थे प्रोक्तार्थणिनि प्रत्यये शाठआयनिन्शब्दाध्येत्रणो लुकि 'शाठआयनिन' इति रूपमित्यर्थः । कल्पे इति । 'उदाह्यियते' इति शेषः । पिङ्ग-पैह्गी कल्प इति । पिङ्गेति प्रकृतिनिर्देशः । पिङ्गेन पुरातनमुनिना प्रोक्त इत्यर्थे णिनौ रूपम् । Padamanjari ----------- भाल्लविन इत्यादि । भल्लु, शाट।लयन, ऐतरेय, पिङ्ग, अरुण, पराजि इत्येतेभ्यो णिनिः । यज्ञवल्काश्मरथशब्दौ कण्वादी, ताभ्यां यञन्ताभ्यामपि ठापत्यस्यऽ इति यलोपः । ननु च याज्ञवल्कादीन्यपि पुराणप्रोक्तान्येव, शाट।लयनकादिभिर्ब्राह्मणान्तरैस्तुल्यकालत्वात् ? इत्यत आह - याज्ञवल्क्यादयो हीति । आख्यानानिउभारतादीनि । तया व्यवहरतीति । अर्थस्तु तथा वा भवत्वन्यथा वेति भावः । तद्विषयता कस्मान्न भवतीति । याज्ञवल्कादिविषयः प्रश्नः,'च्छन्दोब्राह्मणानि च' इत्यत्र पुराणप्रोक्तत्वविशेषस्यानाश्रयणात्प्राप्नोतीति भावः । प्रातपदमिति । एतल्लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । एतदर्थमेव च तत्र ब्राह्मणग्रहम्; च्छन्दस्त्वादेव सिद्धेः । कल्पेषु तर्हि कस्मान्न भवति यथा - काश्यपिनः, कौशिकिन इत्यत्र ? इत्यत आह - न वायमिति । युक्तं तत्र च्छन्दोऽधिकारे तस्य योगस्यानुवृतेः, अयं तु न तथेति कल्पेष्वपि तद्विषयता न भवतीत्यर्थः । न चात्यन्तबाधैवेति ।'सिद्धशुष्कपक्वबन्धैश्च' इति निपातनादेव सिद्धे,'शुषः कः' 'पचो वः' इति लिङ्गम् -'बाधकान्यपि निपातनानि भवन्ति' इति । यथा तु सर्वादिसूत्रे'भाष्यम्, तथा ठन्यपराण्यपि निपातनानि बाधकान्येव' इति स्थितम् ॥ Nyaas ----- `भाल्लविनः`इति। भाल्लवः, शाटआयनः,ऐतरेय - इत्येतेभ्यः प्रोक्तार्थे णिनिः। तदन्तात् `तदधीते` (4.2.58) इत्युत्पन्नस्य **प्रोक्ताल्लुक्** (4.2.64) **छन्दोब्राह्मणानि च तद्विषयाणि** (4.2.66) इत्यादिना तद्विषयता। `पैङ्गी` इति। `आरुणपराजी` इति। पिङ्गारुणपराजशब्दाभ्यां णिनिः। `याज्ञवल्कानि` इति। `आश्मरथः` इति। याज्ञवल्क्यआरव्यशब्दाभ्यां गर्गादियञन्ताभ्यां **कण्वादिभ्यो गोत्रे** (4.2.111) इत्युत्पन्नस्य, `आपत्यस्य` (6.4.151) इत्यादिना यलोपः। ननु याज्ञवल्कादीन्यपि पुराणप्रोक्तान्येव ब्राआहृणानि, ब्राआहृणान्तरैः पुराणप्रोक्तेस्तुल्यत्वात्? इत्याह - `याज्ञवल्क्य` इत्यादि। आख्यानेषु ह्रेषा वार्ता - याज्ञवल्क्यादयोऽपरकालाः प्रवक्तारोऽन्येभ्यः प्रवक्तृभ्यः। तथा च वस्तुत्वमनपेक्ष्य व्यवहरति सूत्रकार इत्यदोषः। `तद्विषयता कस्मान्न भवति` (इति)। **छन्दोब्राह्मणानि च तद्विषयाणि** (4.2.66) इत्यादिनेति भावः। `प्रतिपदम्` इत्यादि। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) हि प्रतिपदं विशेषणम्। ब्राआहृणमुच्चार्य ब्राआहृणेषु यः प्रत्ययो विहितस्तस्य तद्विषयता विधीयते। तस्मात् तद्विषयतास्य न भवति। कल्पेषु तर्हि कस्मान्न भवति; यथा - काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिन इत्यत्र? `न चायम्` इत्यादि। छन्दोऽधिकारे ये योगस्तद्विहितस्य प्रत्ययस्य तद्विषयता भवति, न चायं योगश्छन्दोऽधिकारमनुवर्तते;तेनैतद्विहितस्य प्रत्ययस्याध्येतृवेदितृविषयता कल्पेषु न भवति - पैङ्गी कल्पः, आरुणपराजी कल्द इति।पुराण इति कोऽयं शब्दः, यावता `सांयचिरम्` (4.3.23) इत्यादिना टउटउलोः सन्नियोगेन तुटि कृते पुरातनमिति भवितव्यम्? इत्यत आह - `पुराण इति निपातनात् तुडभावः (इति)। यद्येवम्, न भवति पुरातनम्? इत्याह - `{न वा काशिका}न च` इत्यादि। ननु `बाधकान्यपि निपातनानि` (वी।प।वृ।109) इत्यतो भवितव्यमेव वाचकेनेति? अवाचकान्यपि (नी।प।वृ।110)। अबाधकान्यपि भवन्ति, एतच्च **शदेरगतौ तः** (7.3.42) इत्यत्र प्रतिपादितम्॥ Prakriyasarvasvam ----------------- पुरातनैर्मुनिभिः प्रोक्तेषु ब्राह्मणेषु कल्पेषु च वाच्येषु णिनिः । ऐतरेयेण प्रोक्तं ब्राह्मणमधीयानाः ऐतरेयिणः । पैङ्ग्येन प्रोक्तः कल्पः पैङ्गी । अत्र 'आपत्यस्य—' (६-४-१५१) इति यलोपः । तद्विषयता चास्य नेष्टा । अचिरकालेषु तु न । याज्ञवल्क्येन प्रोक्तानि याज्ञवल्कानि ब्राह्मणानि । अत्र 'कण्वादिभ्यो गोत्रे' (२-४-१११) इति शैषिकोऽण् ॥ प्रतिपदविहितानां छणादीनामेव तद्विषयतेत्यणस्तद्विषयता न ॥