43104: कलापिवैशम्पायनान्तेवासिभ्यश्च ==================================== **Padacheda:** कलापि-वैशम्पायन-अन्तेवासिभ्यः | S | 5 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- After the words denoting the pupils of कलापि and वैशम्पायन , the affix णिनि is used in the sense of 'enounced by him'. Vasu English Translation ------------------------ After the words denoting the pupils of कलापि and वैशम्पायन , the affix णिनि is used in the sense of 'enounced by him'. *Karika* हरिद्रुरेषां प्रथमस्ततश्छगलितुम्बुरू । उलपेन चतुर्थेन कालापकमिहोच्यते ॥ आलम्बिश्चरकः प्राचां पलङ्गकमलावुभौ । ऋचाभारुणिताण्ड्याश्च मद्ध्यमीयास्त्रयो ऽपरे ॥ श्यामायन उदीच्येषु उक्तः कठकलापिनोः । This debars अण् and छ ॥ There are four words which express pupils of *Kalapa*: as, हरिद्रु, छगली, तुम्बुरुः, उलपः ॥ There are nine words expressing pupils of *Vaisampayana*: as, आलम्बि, पलङ्ग, कमल, ॠचाभ, आरुणि; ताण्ड्य, श्यामायन, कठ, कलापी ॥ Thus हारिद्रविणः 'those who study (4.2.64) the works enounced by *Haridru*.' तम्बुरविणः, औलपिनः and छगली takes *dhinuk* (4.3.109)॥ आलम्बिनः, पालङ्गिनः, आरुणिनः, आर्च्चाभिनः, कामलिनः, ताण्डिनः, श्यामायनिनः ॥ The affix is elided after कठ (4.3.107), and is replaced by अण् (4.3.108) after कलापी ॥ The pupils must be direct ones, and not pupil of pupils. For had that been the meaning, *Kalapi* being a pupil of *Vaisampayana*, the words 'pupils of *Vaisampayana*' would have included the 'pupils of *Kalapi*.' But that is not so, the word *Kalapi* being separately mentioned in the *sutra*. So also *Katha* is a pupil of *Vaisampayana*, and *Khadayana* is a pupil of *Katha* and had the *sutra* applied to pupil's pupil also, then the affix णिनि would have applied to खाण्डायन also. But that is not the case, *Khadayana* being mentioned in *Saunakadi* class. (4.3.106). The word चरकः means वैशम्पायनः, hence चरकाः means pupils of वैशम्पायनः ॥ Bhashya ------- कलापिवैशम्पायनान्तेवासिभ्यश्च (1674) (णिनिप्रत्ययाधिकरणम्) (5502 पूर्वपक्षवार्तिकम्॥ 1 ॥) - प्रत्यक्षकारिग्रहणम् - (भाष्यम्) प्रत्यक्षकारिग्रहणं कर्तव्यम्, अन्तेवास्यन्तेवासिभ्यो मा भूदिति। तत्तर्हि वक्तव्यम्? न वक्तव्यम्॥ (5503 पूर्वपक्षनिराकरणे वार्तिकम्॥ 2 ॥) - कलापिखाडायनग्रहणं ज्ञापकं वैशम्पायनान्तेवासिषु प्रत्यक्षकारिग्रहणस्य - (भाष्यम्) यदयं कलापिखाडायनग्रहणं करोति तज्ज्ञापयत्याचार्यो नान्तेवास्यन्तेवासिभ्यो भवतीति। कथं कृत्वा ज्ञापकम्? वैशम्पायनान्तेवासी कठः, कठान्तेवासी खाडायनः। वैशम्पायनान्तेवासी कलापी। यदि चान्तेवास्यन्तेवासिभ्योऽपि स्यात्कलापिखाडायनग्रहणमनर्थकं स्यात्। पश्यति त्वाचार्यो नान्तेवास्यन्तेवासिभ्यो भवतीति, ततः कलापिखाडायनग्रहणं करोति॥ (5504 सिद्धान्तवार्तिकम्॥ 3 ॥) - छन्दोग्रहणं चेतरथा ह्यतिप्रसङ्गः - (भाष्यम्) छन्दोग्रहणं च कर्तव्यम्। इतरथा ह्यतिप्रसङ्गः। इतरथा ह्यतिप्रसङ्गः स्यात्। इहापि प्रसज्येत -तित्तिरिणा प्रोक्ताः श्लोका इति॥ Kashika ------- कलाप्यन्तेवासिनां वैशंपायनान्तेवासिनां च ये वाचकाः शब्दास्तेभ्यो णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। अणोऽपवादः। छं तु परत्वाद् बाधते। तत्र कलाप्यन्तेवासिनश्चत्वारः — हरिद्रुः, छगली, तुम्बुरुः, उलप इति। वैशम्पायनान्तेवासिनो नव — आलम्बिः, पलङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति। प्रत्यक्षकारिणो गृह्यन्ते, न तु व्यवहिताः शिष्यशिष्याः। कुतः? कलापिखाडायनग्रहणात्। तथाहि, वैशंपायनान्तेवासी कलापी, तदन्तेवासिनो वैशंपायनान्तेवासिन एव भवन्ति, किं कलापिग्रहणेन ? तथा वैशंपायनान्तेवासी कठः, तदन्तेवासी खाडायनः, तस्य किं शौनकादिषु पाठेन? तदेतत् प्रत्यक्षकारिग्रहणस्य लिङ्गम्। कलाप्यन्तेवासिभ्यस्तावत् — हरिद्रुणा प्रोक्तमधीयते हारिद्रविणः। तौम्बुरविणः। औलपिनः। छगलिनो ढिनुकं (४.३.१०९) वक्ष्यति। वैशम्पायनान्तेवासिभ्यः — आलम्बिनः। पालङ्गिनः। कामलिनः। आर्चाभिनः। आरुणिनः। ताण्डिनः। श्यामायनिनः। कठाल् लुकं वक्ष्यति (४.३.१०७), कलापिनश्चाणम् (४.३.१०८)। हरिद्रुरेषां प्रथमस्ततश्छगलितुम्बुरु। उलपेन चतुर्थेन कालापकमिहोच्यते॥ आलम्बिश्चरकः प्राचां पलङ्गकमलावुभौ। ऋचाभारुणिताण्ड्याश्च मध्यमीयास्त्रयोऽपरे॥ श्यामायन उदीच्येषु उक्त ः कठकलापिनोः। चरक इति वैशंपायनस्याख्या, तत्संबन्धेन सर्वे तदन्तेवासिनश्चरका इत्युच्यन्ते॥ Siddhanta Kaumudi ----------------- कलाप्यन्तेवासिभ्यः, हरिद्गुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पायनान्तेवानिभ्यः, आलम्बिनः ॥ Balamanorama ------------ **कलापिवैशम्पायनान्तेवासिभ्यश्च** - कलापि ।तेन प्राक्त॑मित्येव । कलापिशिष्यवाचिभ्यो, वैशम्पायनशिष्यवाचिभ्यश्च णिनिः स्यादित्यर्थः । कलाप्यन्तेवासिभ्य इति । 'उदाह्यियते' इति शेषः । हारिद्रविण इति । हरिद्रुर्नाम कलापिनः शिष्यः । ततः प्रोक्ते णिनिः ।ओर्गुणः॑ । आदिवृद्धिः । हरिद्रविन्शब्दादध्येत्रणःप्रोक्ताल्लु॑हिति लुगिति भावः । हरिद्रुः, छगली, तुम्बुरुः, उलप इति चत्वारः कलापिशिष्याः । तुम्बुरुणा प्रोक्तमधीयते तौम्बुरविणः । छगलिनस्तु ढिनुग्वक्ष्यते । औलपिनः । वैशम्पायनान्तेवासिभ्य इति । 'उदाह्यियते' इति शेषः । आलम्बिन इति । आलम्बिः, कलिङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्डः, श्यामायनः, कठः, कलापी इति नव वैशम्पायशिष्याः । तत्र आलम्बिशब्दादध्येत्रणः प्रोक्ते णिनि । आलम्बिन्शब्दादध्येत्रणःप्रोक्ताल्लु॑गिति लुक् । आलम्बिनः, कालिङ्गिनः, कामलिनः, आर्चाभिनः, आरुणिनः, ताण्डिनः । अत्रआपत्यस्ये॑ति यलोपः । श्यामायनिनः । कठात्तु लुग्वक्ष्यते । कलापिनस्त्वण्वक्ष्यते । वैशम्पायनशिष्यः कलापी । तता च कलाप्यन्तेवासिनां वैशम्पायनशिष्यत्वादेव सिद्धे पृथग्ग्रहणात्तच्छिष्यशिष्याणां न ग्रहणमिति भाष्ये स्पष्टम् । Tattvabodhini ------------- **कलापिवैशम्पायनान्तेवासिभ्यश्च** - कलापिवेशंपायना । अणोऽपवादः छं तु परत्वाद्बाधते । कलाप्यन्तेवासिनश्चत्वारः । हरिद्रुः छगली तुम्बुरुः उलप इति । वैशंपायनान्तेवासिनस्तु नव आलम्बिः कलिङ्गः कमलः ऋचाभः आरुणिः ताण्डः श्यामायनः कठः कलापी-इति । हारिद्रविण इति । एवं तौम्बुरविणः, औलपिनः छगलिनस्तु ढिनुकं वक्ष्यति । आलम्बिन इति । एवं कालिङ्गिनः कामलिनः आर्चाभिनः आरुणिनः ताण्डिनः श्यामायनिनः । कठाल्लुकं वक्ष्यति, कलापिनश्चाणम् । याज्ञवस्क्याश्मरथ्यशब्दौ कण्वादी, तेन ताभ्यां यञन्ताभ्यां वृद्धाच्छो न भवतीत्यशयेनाह अणि आपत्यस्येतीति ।यज्ञवस्क्यादयो ह्रचिरकालाः॑ इति भारतादिषु व्यवहारः, स एवानुमृत सूत्रकृत । Padamanjari ----------- कलाप्यन्तेवासिनामित्यादि । सूत्रे त्वभेदोपचाराश्रयो निर्देशः । कलाप्यन्तेवासिनश्चत्वार इत्यादि । ननु च शिष्यशिष्येष्वपि शिष्यव्यवहारो लोके दृश्यते, तत्कथमियन्त एवेति नियमः ? तत्राहप्रत्यक्षकारिण इति । क्रियासामान्यवचनः करोतिः प्रकरणाअदिहाध्ययने वर्तते । कलापिखाण्डायनग्रहणादिति । एतदेव विवृणोति - तथा हीति । वैशम्पायनस्यान्तेवासी कलापी, यदि चान्तेवास्यन्तेवासिनोऽपि गृह्यएरन्, कलापिग्रहणमनर्थकम्,'वैशम्पायनान्तेवासिभ्यः' इत्येव सिद्धम् ; कलाप्यन्तेवासिनामपि वैशम्पायनान्तेवासित्वात् । तथा वैशम्पायनान्तेवासी कठः, कठान्तेवासी खाण्डायनः, तत्र व्यवहितानामपि ग्रहणे वैशम्पायनान्तेवासित्वादनेनैव सिद्धे शौनकादिषु खाण्डायनशब्दस्य पाठो निष्फलः स्यात् । उदाहरणेषु च्छन्दोब्राह्मणानीति तद्विषयता, अध्येतृप्रत्ययस्य'प्रोक्ताल्लुक्' इति लुक् । उलपेन चतुर्थेनेति । सहयोगे तृतीया । कलापिन इदं कालापकम्,'गोत्रचरणाद् वुञ्' । तत्र'धर्माम्नाययोः' इति पठ।ल्ते, तस्मादिहोपमानाच्छिष्यसमूहे प्रयोगः । आलम्बिश्चरकः प्राचामिति । आलम्बिर्नाम प्राचां देश उत्पन्नश्चरकस्य शिष्यः । एवं फलिङ्गकमलावुभौ प्राचामेव त्रय एते प्राच्या उक्ताः । कठकला पिनोरिति ।'कठचरकाल्लुक्' इति कठाल्लुगुक्तः । कलापिशब्दादपि'कलापिनो' ण्ऽ त्यणुक्तः ॥ Nyaas ----- अभिधानेऽभियोपचारात् कलापिवैशम्पायनान्तेवास्यभिधायिनः शब्दा इह कलापिवैशम्पायनान्तेवासिशब्देन निर्दिष्टाः। अत एवाह - `कलाप्यन्तेवासिनाम्` इति।ननु च ये व्यवहिताः शिष्यशिष्याः, ते कलापिवैशम्पायनान्तेवासिन एव भवन्ति, तदयुक्तमुक्तम् - कलाप्यन्तेवासिनश्चत्वारः,वैशम्पायनान्तेवासिनो नव? इत्याह - `प्रत्यक्षकारिणःर` इत्यादि। करोतिरत्राध्ययने वर्तते। यैः साक्षादधीतं ते प्रत्यक्षकारिणः। इहान्तेवासिनो गृह्यन्ते चैतावन्त एवेति। किमत्रायुक्तम्? कुत इह साक्षात्कारिणो गृह्यन्ते, न हि व्यवहिता इत्यत्र हेतुं पृच्छति। `कलापिखाण्डायनग्रहणात्` इति। हेतुनिर्देशः। `{तथा हि -काशिका}तथा च` इत्यादि। अस्यैव विवरणम्। वैशम्पायनसय् कलाप्यन्तेवासी, तस्य येऽन्तेवासिनस्ते वैशम्पायनान्तेवासिनो भवन्त्येव। यदि तत्र ये व्यवहितास्तेऽप्यन्तेवासिनो गृह्रेरन् कलापिग्रहणमनर्थकं स्यात्, `वैशम्पायनान्तेवासिभ्यः` इत्येवं ब्राऊयात्। तथा वैशम्पायनान्तेवासी खाण्डायनः;तत्र यदि व्यवहिता अपिगृह्रेरन्, ततो वैशम्पायनान्तेवासित्वादनेनैव सूत्रेण सिद्धे शौनकादिषु खाण्डायनशब्दस्य पाठो निष्फल एव स्यात्। तस्मादिहापि कलापिग्रहणं शौनकादिषु खाण्डायनशब्दस्य पाठ एतदुभयमपि साक्षात्कारिग्रहणस्य लिङ्गं ज्ञापकम्। `हारिद्रविणः` इत्यादि। हरिद्रुप्रभृतिभ्यः प्रोक्तार्थे णिनिः,तदन्तात् **तदधीते तद्वेद** (4.2.59) इत्यण्, तस्य `प्रोक्ताल्लुक्` `उलपेन चतुर्थेन` इति। सहार्थे तृतीया। `कालापकम्` इति। कलापिन इदं कालापकम्, `गोत्रचरणाद् वुञ्` (4.3.126) । ननु च `धर्माम्नाययोर्वुञ्` (वा।476), न चेमे शिव्या धर्माम्नायाः,तत्कथं वुञ्? एवं तर्ह्रुपमानाद्भविष्यतीति। कालापकमिव धर्मवच्छिष्या उच्यन्ते। यथा धर्मः कलापिसम्बन्धी, तथा शिष्या इत्युच्यत उपमानार्थः। `आलम्बिर्नाम प्राचां देशः, तत्रोत्पन्नः `चरकः`। एवं `पलङ्गकमलावुभौ`। प्राचामेवत्रयः। एते प्राच्याः वैशम्पायनशिष्याः `ऋचाभारुणिताण्डआश्च मध्यमीयास्त्रयोऽपेर` चरकाः। मध्यदेशे भवा मध्यमीयाः। गहादिषु `मध्यमध्यमञ्चाण् चरणे` (ग।सू।99) इति पठते। तस्यायमर्थः - मध्यशब्दो मध्यमभावमापद्यते, छप्रत्ययश्च ततो भवति, चरणे तु प्रत्ययार्थेऽण् च भवतीति। तत्र यदा ऋचाभादीनां चरणत्वं न विवक्ष्यते,तदा छे कृते मध्यमीया इति भवति। चरणविवक्षायां त्वणि कृते माध्यमा इति भवति। उदक्षु भवा उदीच्याः, **द्युप्रागपागुदक्प्रतीचो यत्** (4.2.101) इत्यादिना यत्। उदीच्येषु मध्ये श्यामायनिश्चरकः।कठकलापिनावप्युदीच्येषु चरकौ, अपरस्याप्युक्तम् - **कलापिनोऽण्** (4.3.108) इति। ननु च वैशम्पायनान्तेवासिनां कठेनैव चरक इत्येषाख्या, तत्कथं चरक इत्युच्यत? इत्याह - `चरक इति वैशम्पायनस्य` इत्यादि। यद्यपि तेषां चरक इत्याख्यानं न भवति, तद्गुरोस्तु वैशम्पायनस्य भवति, तत्सम्बन्धेन तच्छिष्या अपि तथोच्यन्ते॥ Prakriyasarvasvam ----------------- णिनिः स्यात् । कलापिशिष्येण तुम्बुरुणा प्रोक्तमधीयानाः तौम्बुरविणः । वैशम्पायनशिष्येण कमलेन प्रोक्तमधीयानाः, कामलिनः ॥