43103: काश्यपकौशिकाभ्यामृषिभ्यां णिनिः¶
Padacheda: काश्यप-कौशिकाभ्याम् | S | 5 | 2 |
ऋषिभ्याम् | S | 5 | 2 |
णिनिः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix णिनि comes in the sense of ‘enounced by him’ after the words 1. काश्यप and 2. कौशिक denoting ऋषि-s (Vedic Seers).
Vasu English Translation¶
The affix णिनि comes in the sense of ‘enounced by him’ after the words 1. काश्यप and 2. कौशिक denoting ऋषि-s (Vedic Seers). This debars छ. The ण of णिनि is for the sake of Vriddhi (useful in the subsequent sutra). This is confined, like the last, to the Vedic works. Thus काश्यपिनः ‘those who study (4.2.64) the Kalpa enounced by Kasyapa’, कौशिकिनः ॥ Why do we say “Vedic Sages”? Observe इदानीन्तनेन गोत्रकाश्यपेन प्रोक्त = काश्यपीयम् “a work enounced by a modern Kasyapa,–one belonging to the Gotra Kasyapa: not a Rishi’.
Kashika¶
काश्यपकौशिकशब्दाभ्यामृषिवाचिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। छस्यापवादः। णकार उत्तरत्र वृद्ध्यर्थः। कल्पस्ताभ्यां प्रोक्त इति स्मर्यते। तस्यापि च तद्विषयता भवत्येव,**शौनकादिभ्यश्छन्दसि** (४.३.१०६) इत्यत्रानुवृत्तेः, छन्दोऽधिकारविहितानां च तत्र तद्विषयतेष्यते। काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिनः। कौशिकिनः। ऋषिभ्यामिति किम् ? इदानींतनेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम्॥
Siddhanta Kaumudi¶
काश्यपेन प्रोक्तमधीयते काश्यपिनः ॥
Balamanorama¶
काश्यपकौशिकाभ्यामृषिभ्यां णिनिः - काश्यपिन इति । काश्यपशब्दाण्णिनिः । णकार इत् । नकारादिकार उच्चारणार्थः । काश्यपिन्शब्दात्प्रोक्ताल्लु॑गित्यध्येतृप्रत्ययस्याऽणो लुगिति भावः । एवं कोशिकिनः । ऋषिभ्यां किम् । इदानींतनेन काश्यपेन प्रोक्तं काश्यपीयम् ।
Tattvabodhini¶
काश्यपकौशिकाभ्यामृषिभ्यां णिनिः - काश्यप । छस्यापवादः । णकार उत्तरत्र वृद्द्यर्थः । ननुवृद्धिनिमित्तस्ये॑ति पुंवद्भावनिषेधोऽत्र फलमस्तीति चेत् । अत्राहुः -णिन्यन्तस्याध्येतृवेदितृविषयत्वेन स्त्रियामप्रवृत्तेः । प्रवृत्तावपिजातेस्चे॑ति सिद्धत्वात्, चरणत्वेन जातित्वादिति । ऋषिभ्यामिति किम् । इदानींतमेन गोत्रकाश्यपेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम् ।
Padamanjari¶
णकार उतरत्र वृद्ध्यर्थ इति । इह तु पूर्वमेव वृद्धे सिद्धत्वात् । योऽपि’वृद्धिनिमितस्य’ इति पुंवद्भावप्रतिषेधः, सोऽपि न प्रयोजनम्, णिन्यन्तस्याध्येतृवेदितृविषयत्वेन स्त्रियामवृतेः । वृतावपि’जातेश्च’ इति सिद्धत्वात्, चरणत्वेन जातित्वात् । तस्यापि चेति । कथं च्छन्दोब्राह्मणानामुच्यमाना तद्विषयता कल्पस्य भवति ? तत्राह - शौनकादिभ्य इति । ननु च तत्रानुवृतौ सत्यामप्यस्य योगस्य न कल्पः च्छन्दो भवति, नापि ब्राह्मणम् ? अत आह - च्छन्दोऽधिकारविहितानां चेति ।’च्छन्दोब्राह्मणानि’ इत्यत्र च्छन्दोग्रहणं स्वर्यते, तत्र स्वरितेनाधिकारावगतिर्भवतीति च्छन्दः प्रकरणमध्यपातिनोऽस्यापि णिनेस्तद्विषयता भवतीत्यर्थः । यतु’च्छन्दोब्राह्मणानि’ इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कल्पादेस्तद्विषयत्वप्रतिपादनम्, तत्प्रकारान्तरं द्रष्टव्यम् । इदानीन्तनेन गोत्रकाश्यपेनेति । न ह्यसावृषिः; अमन्त्रदर्शित्वात् ॥
Nyaas¶
णकार उत्तरत्र वृद्ध्यर्थः इति। उत्तरेषु योगेषु वृद्धिर्यथा स्यात्। इह हि णकारस्य प्रयोजनं नास्ति, तस्य हि वृद्धिरेव प्रयोजनम्। काश्यपकौशिकशब्दौ वृद्धिमन्तौ। तस्यापि च इत्यादि। ननु च च्छन्दोब्राआहृणादीनां तद्विषयता युक्ता, तत्कथं कल्पस्यापि सा भवति? इत्याह - शौनकादिभ्यः इत्यादि। स्यादेतत् - यद्यपीदं न सिद्ध्यत्येव। न हि शौनकादिभ्यश्छन्दसि` (4.3.106) इत्यत्रानुवर्तते, तथापि छन्दोब्राआहृणादीनां तद्विषयतोच्यमाना कल्पस्य न सिध्यत्येव। नहि शौनकादिसूत्रा (4.3.106) नुवृत्तौ सत्यामस्य योगसय् कल्पश्छन्दोभावं ब्राआहृणभावमापद्यत इत्याह - छन्दोऽधिकारविहितानञ्च इत्यादि। कथं पुनरिष्यमाणाऽपि छन्दोऽधिकारविहितानां स्वर्यते। तेन शौनकादिभ्यश्छन्दसि (4.3.106) इतीदम्प्रकृतयो विहिताः प्रोक्तप्रत्ययाः, तेषां सर्वेषामेव कल्पादावपि तद्विषयता भवति। अथ गुणकल्पनया कल्पादीनामपि छन्दस्त्वं विवक्ष्यते। ननुच छन्दोब्राह्मणानि च तद्विषयाणि (4.2.66) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् तेनैव प्रागेव कल्पादेस्तद्विषयता प्रतिपादिता, तत्किमर्थं पुनरनेन प्रकारेण प्रतिपाद्यते। तत्र वा कल्पादेस्तद्विषयताप्रतिपादनार्थश्चकारः कर्तव्यः, अयं वा प्रकार आश्रयितव्य इति विकल्पप्रदर्शनार्थम्।इदानीन्तनेन इत्यादि। इदानीन्तनो यः काश्यपः स काश्यपगोत्रप्रभवत्वात् काश्यप इत्युच्यते, तथेदानीन्तनो यः कौशिकः स कौशिकगोत्रप्रभवत्वात् कौशिक इत्युच्यते; तत्र यदि ऋषिग्रहणं ऋषिशब्दादेव, तथा हि प्रवराध्याये ये पठन्ते त ऋषय इति, इमावपि तत्र पठएते एव? नैष दोषः; विशेषणोपादानसामर्थ्यादयमृषिशब्दः क्रियाशब्दो विज्ञायते - ऋषिर्दर्शनादिति। तेन यावनन्यपुरुषसाधारणेनौपदेशिकेन दर्शनेन तद्व्नतौ काश्यपकौशिकशब्दौ तत इदं प्रत्ययविधानम्; न चेदानीन्तनौ काश्यपकौशिकशब्दावेवंविधौ, ताभ्यां छ एव भवति॥
Prakriyasarvasvam¶
आभ्यामृषिनामभ्यां प्रोक्ते णिनिः । काश्यपेन प्रोक्तं कल्पमधीयानाः, काश्यपिनः । कौशिकिनः ॥