43103: काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ====================================== **Padacheda:** काश्यप-कौशिकाभ्याम् | S | 5 | 2 | ऋषिभ्याम् | S | 5 | 2 | णिनिः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix णिनि comes in the sense of 'enounced by him' after the words 1. काश्यप and 2. कौशिक denoting ऋषि-s (Vedic Seers). Vasu English Translation ------------------------ The affix णिनि comes in the sense of 'enounced by him' after the words 1. काश्यप and 2. कौशिक denoting ऋषि-s (Vedic Seers). This debars छ. The ण of णिनि is for the sake of *Vriddhi* (useful in the subsequent *sutra*). This is confined, like the last, to the Vedic works. Thus काश्यपिनः 'those who study (4.2.64) the *Kalpa* enounced by *Kasyapa*', कौशिकिनः ॥ Why do we say "Vedic Sages"? Observe इदानीन्तनेन गोत्रकाश्यपेन प्रोक्त = काश्यपीयम् "a work enounced by a modern *Kasyapa*,--one belonging to the *Gotra* *Kasyapa*: not a *Rishi*'. Kashika ------- काश्यपकौशिकशब्दाभ्यामृषिवाचिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। छस्यापवादः। णकार उत्तरत्र वृद्ध्यर्थः। कल्पस्ताभ्यां प्रोक्त इति स्मर्यते। तस्यापि च तद्विषयता भवत्येव,**शौनकादिभ्यश्छन्दसि** (४.३.१०६) इत्यत्रानुवृत्तेः, छन्दोऽधिकारविहितानां च तत्र तद्विषयतेष्यते। काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिनः। कौशिकिनः। ऋषिभ्यामिति किम् ? इदानींतनेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम्॥ Siddhanta Kaumudi ----------------- काश्यपेन प्रोक्तमधीयते काश्यपिनः ॥ Balamanorama ------------ **काश्यपकौशिकाभ्यामृषिभ्यां णिनिः** - काश्यपिन इति । काश्यपशब्दाण्णिनिः । णकार इत् । नकारादिकार उच्चारणार्थः । काश्यपिन्शब्दात्प्रोक्ताल्लु॑गित्यध्येतृप्रत्ययस्याऽणो लुगिति भावः । एवं कोशिकिनः । ऋषिभ्यां किम् । इदानींतनेन काश्यपेन प्रोक्तं काश्यपीयम् । Tattvabodhini ------------- **काश्यपकौशिकाभ्यामृषिभ्यां णिनिः** - काश्यप । छस्यापवादः । णकार उत्तरत्र वृद्द्यर्थः । ननुवृद्धिनिमित्तस्ये॑ति पुंवद्भावनिषेधोऽत्र फलमस्तीति चेत् । अत्राहुः -णिन्यन्तस्याध्येतृवेदितृविषयत्वेन स्त्रियामप्रवृत्तेः । प्रवृत्तावपिजातेस्चे॑ति सिद्धत्वात्, चरणत्वेन जातित्वादिति । ऋषिभ्यामिति किम् । इदानींतमेन गोत्रकाश्यपेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम् । Padamanjari ----------- णकार उतरत्र वृद्ध्यर्थ इति । इह तु पूर्वमेव वृद्धे सिद्धत्वात् । योऽपि'वृद्धिनिमितस्य' इति पुंवद्भावप्रतिषेधः, सोऽपि न प्रयोजनम्, णिन्यन्तस्याध्येतृवेदितृविषयत्वेन स्त्रियामवृतेः । वृतावपि'जातेश्च' इति सिद्धत्वात्, चरणत्वेन जातित्वात् । तस्यापि चेति । कथं च्छन्दोब्राह्मणानामुच्यमाना तद्विषयता कल्पस्य भवति ? तत्राह - शौनकादिभ्य इति । ननु च तत्रानुवृतौ सत्यामप्यस्य योगस्य न कल्पः च्छन्दो भवति, नापि ब्राह्मणम् ? अत आह - च्छन्दोऽधिकारविहितानां चेति ।'च्छन्दोब्राह्मणानि' इत्यत्र च्छन्दोग्रहणं स्वर्यते, तत्र स्वरितेनाधिकारावगतिर्भवतीति च्छन्दः प्रकरणमध्यपातिनोऽस्यापि णिनेस्तद्विषयता भवतीत्यर्थः । यतु'च्छन्दोब्राह्मणानि' इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कल्पादेस्तद्विषयत्वप्रतिपादनम्, तत्प्रकारान्तरं द्रष्टव्यम् । इदानीन्तनेन गोत्रकाश्यपेनेति । न ह्यसावृषिः; अमन्त्रदर्शित्वात् ॥ Nyaas ----- `णकार उत्तरत्र वृद्ध्यर्थः` इति। उत्तरेषु योगेषु वृद्धिर्यथा स्यात्। इह हि णकारस्य प्रयोजनं नास्ति, तस्य हि वृद्धिरेव प्रयोजनम्। काश्यपकौशिकशब्दौ वृद्धिमन्तौ। `तस्यापि च` इत्यादि। ननु च च्छन्दोब्राआहृणादीनां तद्विषयता युक्ता, तत्कथं कल्पस्यापि सा भवति? इत्याह - `शौनकादिभ्यः` इत्यादि। स्यादेतत् - यद्यपीदं न सिद्ध्यत्येव। न हि शौनकादिभ्यश्छन्दसि` (4.3.106) इत्यत्रानुवर्तते, तथापि छन्दोब्राआहृणादीनां तद्विषयतोच्यमाना कल्पस्य न सिध्यत्येव। नहि शौनकादिसूत्रा (4.3.106) नुवृत्तौ सत्यामस्य योगसय् कल्पश्छन्दोभावं ब्राआहृणभावमापद्यत इत्याह - `छन्दोऽधिकारविहितानञ्च` इत्यादि। कथं पुनरिष्यमाणाऽपि छन्दोऽधिकारविहितानां स्वर्यते। तेन **शौनकादिभ्यश्छन्दसि** (4.3.106) इतीदम्प्रकृतयो विहिताः प्रोक्तप्रत्ययाः, तेषां सर्वेषामेव कल्पादावपि तद्विषयता भवति। अथ गुणकल्पनया कल्पादीनामपि छन्दस्त्वं विवक्ष्यते। ननुच **छन्दोब्राह्मणानि च तद्विषयाणि** (4.2.66) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् तेनैव प्रागेव कल्पादेस्तद्विषयता प्रतिपादिता, तत्किमर्थं पुनरनेन प्रकारेण प्रतिपाद्यते। तत्र वा कल्पादेस्तद्विषयताप्रतिपादनार्थश्चकारः कर्तव्यः, अयं वा प्रकार आश्रयितव्य इति विकल्पप्रदर्शनार्थम्।`इदानीन्तनेन` इत्यादि। इदानीन्तनो यः काश्यपः स काश्यपगोत्रप्रभवत्वात् काश्यप इत्युच्यते, तथेदानीन्तनो यः कौशिकः स कौशिकगोत्रप्रभवत्वात् कौशिक इत्युच्यते; तत्र यदि ऋषिग्रहणं ऋषिशब्दादेव, तथा हि प्रवराध्याये ये पठन्ते त ऋषय इति, इमावपि तत्र पठएते एव? नैष दोषः; विशेषणोपादानसामर्थ्यादयमृषिशब्दः क्रियाशब्दो विज्ञायते - ऋषिर्दर्शनादिति। तेन यावनन्यपुरुषसाधारणेनौपदेशिकेन दर्शनेन तद्व्नतौ काश्यपकौशिकशब्दौ तत इदं प्रत्ययविधानम्; न चेदानीन्तनौ काश्यपकौशिकशब्दावेवंविधौ, ताभ्यां छ एव भवति॥ Prakriyasarvasvam ----------------- आभ्यामृषिनामभ्यां प्रोक्ते णिनिः । काश्यपेन प्रोक्तं कल्पमधीयानाः, काश्यपिनः । कौशिकिनः ॥