43102: तित्तिरिवरतन्तुखण्डिकोखाच्छण्

Padacheda: तित्तिरि-वरतन्तु-खण्डिका-उखात् | S | 5 | 1 |

छण् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix छण् comes in the sense of ‘enounced by him’ after the words 1. तित्तिरि 2. वरतन्तु 3. खण्डिक and 4. उख।

Vasu English Translation

The affix छण् comes in the sense of ‘enounced by him’ after the words 1. तित्तिरि 2. वरतन्तु 3. खण्डिक and 4. उख। Thus तैत्तिरीयाः ‘those who learn (4.2.64) the Veda enounced by * Tittiri*’. वारतन्तवीयाः, खाण्डिकीयाः, औखीयाः ॥

According to Kasika this is confined to the Chhandas only. Therefore it will not apply to secular Slokas, as तित्तिरिणा प्रोक्तं श्लोकः ॥ The word Chhandas is drawn from sutra (4.3.106) and from तद्विषयता from (4.2.66).

Kashika

तित्तिर्यादिभ्यः शब्देभ्यश्छण् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। अणोऽपवादः। तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः। वारतन्तवीयाः। खाण्डिकीयाः। औखीयाः। छन्दसि चायमिष्यते, तित्तिरिणा प्रोक्तः श्लोक इत्यत्र न भवति, शौनकादिभ्यश्छन्दसि (४.३.१०६) इत्यत्रास्यानुवृत्तेः। छन्दोऽधिकारविहितानां च तद्विषयतेष्यते॥

Siddhanta Kaumudi

छन्दोब्राह्मणानि -(SK1278) इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः ॥

Balamanorama

तित्तिरिवरतन्तुखण्डिकोखाच्छण् - तित्तिरिवरतन्तु । तेन प्रोक्त॑मित्येव । तित्तिरि, वरतन्तु, खण्डिक, उख-एभ्य उक्तविषये छण्स्यादित्यर्थः । इत आरभ्यतेनैकदि॑गितिपर्यन्तं प्रोक्ते वेदे भवन्ति,शौनकादिभ्यः छन्दसी॑ति छन्दोग्रहणस्य ततः पूर्व ततद उत्तरं चापकर्षानुवृत्त्योरभ्युपगमात् । अत्र छणादिप्रत्ययान्तानामेषां केवलानां न प्रयोगः, किंत्वध्येतृवेदितृप्र्तययशिरस्काणामेवेत्याह — छन्दोब्राआहृणानीति । तद्विषयतेति । अध्येतृवेदितृप्रत्ययशिरस्कत्वनियम इत्यर्थः । तैत्तिरीया इति । प्रोक्ते वेदे छण् । ईयः । तैत्तिरीयः=शाखाभेदः, तमधीयते विदन्ति वेत्यर्थे अण् ।प्रोक्ताल्लु॑गिति तस्य लुगिति भावः । वारतन्तवीयाः । खाण्डिकीयाः । औखीयाः । तित्तिरिणा प्रोक्तः श्लोक॑ इत्यत्र तु न, छन्दसीत्यनुवृत्तेः । छन्दःशब्देन च कल्पसूत्राणामपि ग्रहणं, तेषां सर्वशाखागतविधिवाक्यसङ्ग्रहात्मकत्वात् । काश्यप ।तेन प्रोक्त॑मित्येव । छस्यापवादः ।

Tattvabodhini

तित्तिरिवरतन्तुखण्डिकोखाच्छण् - तित्तिरिवर । अणोऽपवादः । तद्विषयतेति ।शौनकादिभ्यश्छन्दसी॑त्यत्रास्यानुवृत्तिस्तित्तिरिणा प्रोक्तः श्र्लोक इत्यत्र न भवतीति भावः । तैत्तिरीयै इति ।प्रोक्ताल्लु॑गित्यध्येतृप्रत्ययस्य लुक्॥ एवमग्रेऽपि ।

Nyaas

तैत्तिरीयाः इति। छण्प्रत्ययः, तेभ्यः तदधीते (4.2.58) इत्यण्, तस्य प्रोक्ताल्लुक् (4.2.64) इति लुक्। छन्दोब्राआहृणानि च तद्विषयाणि (4.2.67 इति तद्विषयता।छन्दसि इत्यादि। कथं पुनश्चछन्दसि लभ्यते? न हि च्छन्दोग्रहणमस्तीत्याह - शौनकादिभ्यः इत्यादि॥

Prakriyasarvasvam

एभ्यः प्रोक्ते छण् । ‘छन्दोब्राह्मणानि च तद्विषयाणि’ (४-२-६६) इत्यध्येतृवेदित्रर्थयुक्तस्यैव प्रयोगः । तित्तिरिणा प्रोक्तमधीयानास्तैत्तिरीयाः । वारतन्तवीयाः । खाण्डिकीयाः । औखीयाः । ‘छन्दोब्राह्मणानि च—’ (४-२-६६) इति चकारादितः परं छन्दोब्राह्मणेभ्योऽन्यत्राप्यध्येतृवेदितृनियम इष्यते ॥