43101: तेन प्रोक्तम्¶
Padacheda: तेन | S | 3 | 1 |
प्रोक्तम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
After a word in the Instrumental -3rd case in construction, an affix – प्राग्दीव्यतोऽण् (4.1.83) etc., comes in the sense of ‘enounced by him’.
Vasu English Translation¶
After a word in the Instrumental -3rd case in construction, an affix – प्राग्दीव्यतोऽण् (4.1.83) etc., comes in the sense of ‘enounced by him’. The word प्रोक्तं means प्रकर्षेणोक्तं ‘preeminently spoken’. It should be distinguished from the word कृत meaning ‘done or made’. For the sense of कृतं has been already taught in the sutra कृते ग्रन्थे (4.3.16). Thus अन्येन कृता माथुरेण प्रोक्ता = माथुरी वृत्तिः ॥ पाणिनीयम् ‘the system of grammar enounced by Panini’ आपिशलम्, काशकृत्स्नम् ॥
Works like Chhandas which were made (कृतं) by nobody, but which were promulgated (प्रोक्तं) from time of time by inspired commentators, may be quoted as examples of the application of this * sutra*. Or it may apply to the case of a book whose author is another, but whose promulgator or expounder is another. In short, speaking roughly, प्रोक्त is a ‘revelation’, and कृतः is a ‘composition’, once a revealer or prophet, the other an author.
According to some, this sutra is almost a superfluity. They argue thus: The word प्रोक्त is formed by adding प्र to वच and means ‘to lecture’ ‘he teach’, and also the ‘means of such teaching &c’. In the first sense of ‘lecturing or teaching’, the affix is not found. For in every village there are persons who teach or lecture upon Katha, Kalapa &c. For example सुशर्मन् may be such a lecturer, but we do not say सुशर्मणा प्रोक्तं काठकं = सौशर्मणम् ॥ Moreover, where we find this affix employed, it is with regard to Books, for which the rule कृते ग्रन्थे is sufficient. If it be said that it should be taught for the Chhandas: that is also unnecessary, as the Vedas are not कृत but eternal, the agent only remembers them. If it be said, it refers to the sense of the Vedas, the same objection applies as to the first. But the letter of the Veda is not eternal, it is the sense that is eternal. Therefore the Rishis who revealed, for the first time, at the beginning of a Kalpa, the sense of the Veda, in appropriate language will be called its promulgators, and the works so revealed will be named after such Rishis, as काठकम्, कालापकम् and मौदकम् ॥ This sutra, however, is confined to those cases where the author of the book is one person and its promulgator is another : as माथुरी वृत्तिः ॥
Bhashya¶
तेन प्रोक्तम् (1671) (प्रोक्तार्थाधिकरणम्) (5499 प्रोक्तग्रहणाक्षेपे वार्तिकम्॥ 1 ॥) - प्रोक्तग्रहणमनर्थकं तत्रादर्शनात् - (भाष्यम्) प्रोक्तग्रहणमनर्थकम्। किं कारणम्? तत्रादर्शनात्। ग्रामे ग्रामे कालापकं काठकं च प्रोच्यते। तत्रादर्शनात्, न च तत्र प्रत्ययो दृश्यते॥ (5500 आक्षेपसाधकवार्तिकम्॥ 2 ॥) ग्रन्थे च दर्शनात्॥ (भाष्यम्) यत्र च दृश्यते ग्रन्थः सः, तत्र कृते ग्रन्थे (4.3.116) इत्येव सिद्धम्॥ (आक्षेपनिवारकभाष्यम्) छन्दोऽर्थं तर्हीदं वक्तव्यम्। न हि छन्दांसि क्रियन्ते, नित्यानि च्छन्दांसि॥ (5501 प्रत्याक्षेपे वार्तिकम्॥ 3 ॥) - छन्दोऽर्थमिति चेत्तुल्यम् - (भाष्यम्) छन्दोऽर्थमिति चेत्तुल्यमेतद्भवति। ग्रामे ग्रामे काठकं कालापकं च प्रोच्यते तत्रादर्शनात्। न च तत्र प्रत्ययो दृश्यते। ग्रन्थे च दर्शनात्। यत्र दृश्यते ग्रन्थः सः, तत्र कृते ग्रन्थ इत्येव सिद्धम्। ननु चोक्तम् -न हि च्छन्दांसि क्रियन्ते नित्यानि च्छन्दांसीति। यद्यप्यर्थो नित्यः, या त्वसौ वर्णानुपूर्वी साऽनित्या। तद्भेदाच्चैतद्भवति -काठकम्, कालापकम्, मौदकम्, पैप्पलादकमिति॥ (सिद्धान्तभाष्यम्) न तर्हीदानीमिदं वक्तव्यम्। वक्तव्यं च। किं प्रयोजनम्? यत्तेन प्रोक्तं न च तेन कृतम्। माधुरी वृत्तिः। यदि तर्हि अस्य निबन्धनमस्ति, इदमेव वक्तव्यम्, तन्न वक्तव्यम्। तदप्यवश्यं वक्तव्यम्। यत्तेन कृतं न च तेन प्रोक्तम् -वाररुचं काव्यम्, जालूकाः श्लोकाः॥
Kashika¶
तेनेति तृतीयासमर्थात् प्रोक्तमित्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। प्रकर्षेणोक्तं प्रोक्तमित्युच्यते, न तु कृतम्, कृते ग्रन्थे (४.३.११६) इत्यनेन गतार्थत्वात्। अन्येन कृता, माथुरेण प्रोक्ता माथुरी वृत्तिः। पाणिनीयम्। आपिशलम्। काशकृत्स्नम्॥
Siddhanta Kaumudi¶
पाणिनिना प्रोक्तं पाणिनीयम् ॥
Laghu Siddhanta Kaumudi¶
पाणिनिना प्रोक्तं पाणिनीयम्॥
Balamanorama¶
तेन प्रोक्तम् - तेन प्रोक्तम् । अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । पाणिनीयमिति ।व्याकरण॑मिति शेषः । वृद्धाच्छः । प्रथमं प्रकाशितं — प्रोक्तम् । नेह — ॒देवदत्तेनाद्यापितम् ।
Tattvabodhini¶
तेन प्रोक्तम् - तोन प्रोक्तम् । प्रकर्षेणोक्तं प्रोक्तमित्युच्यते, न तु कृतं,कृते ग्रन्थे॑इत्यनेन गतार्थत्वात् । पाणिनिना प्रोक्तमिति । स्वयमन्येवा वा कृतं व्याकरणमध्यापनेनार्थव्याख्यानेन वा प्रकाशितमित्यर्थः । प्रेति किम् । देवदत्तेनाध्यपितं । प्रख्यातस्यैव ग्रन्थस्याध्यापनमिति नानेन प्रत्ययः ।
Padamanjari¶
प्रकर्षेणोक्तमिति । अध्यापनेनार्थव्याख्यानेन वा प्रकर्षेणाप्रकाशितमित्यर्थः । प्रकर्षेणेति वचनाद् ग्रामे ग्रामे यद्यपि काठकादिकं देवदतादिभिः प्रोच्यते, तथापि तेभ्यः प्रत्ययो न भवति । न तु कृतमिति । प्रपूर्वो वचिः करणेऽपि वर्तते इति भावः । मधुरायां भवो माधुरः, ततो वृद्धाच्छे प्राप्ते’कलापिनो’ ण्ऽ इत्यण्ग्रहणादधिकविधानार्थादण्प्रत्ययः । पाणिनीयमिति । स्वयमन्येन वा कृतं यत्पाणिनिना प्रोक्तं तदुच्यते ॥
Nyaas¶
प्रकर्षेणोक्तम् इति। प्रकर्षः = अतिशयः,तेन व्याख्यातं तदध्यापितं वा प्रोक्तम् इत्युच्यते। न तु कृतम् इति। न तु कृतमुत्पादितं प्रोषतमित्युच्यते। कस्मादित्याह - कृते ग्रन्थे (4.3.116) इति गतार्थत्वात्। कथं माथुरीत्यण्, यावता वृधाच्छेनैव भवितव्यम्? नैष दोषः; कलापिनोऽण् (4.3.108) इत्यत्राण्ग्रहणस्यान्येभ्यो भवतीत्येतत् प्रयोजनं वक्ष्यति, तेन माथुरशब्दादप्यण्भवति। पाणिनीयम् इति। पाणिशब्दात् वृद्धाच्छः (4.2.114) इति च्छः। आपिशलम्,कालकृत्स्नम् इति। आपिशलिकाशकृत्स्निशब्दाभ्यां इञश्च (4.2.111) इत्यण्॥
Prakriyasarvasvam¶
अस्मिन्नर्थेऽणादिः । पाणिनीयं शास्त्रम् । शौनकीया शिक्षा । अस्मिन्नर्थेऽणादिः । पाणिनीयं शास्त्रम् । शौनकीया शिक्षा । <karika>प्रकर्षेणोक्तमेवात्र प्रोक्तं न कृतमेव तत् । शास्त्रं च सविशेषोक्तं पाणिन्याद्यैर्न तत् कृतम् ॥ २५८ ॥</karika> भोज आह—‘अथर्वणोऽण् वेदे’ (४-३-२३९) । अथर्वणा प्रोक्तो वेद आथर्वणः । ‘लुक् च वा’ (४-३-२४०) । अथर्वा वेदः । ‘वसिष्ठादिभ्योऽनुवाकादिषु’ (४-३-२४१) । एभ्योऽनुवाकादिषु वाच्येषु प्रोक्तप्रत्ययस्य वा लुक् । वसिष्ठेन प्रोक्तोऽनुवाकोऽध्यायो वा वसिष्ठः । वासिष्ठः । विश्वामित्रः । वैश्वामित्रः । इति ॥
Sutra Prayogas¶
पाणिनीयम् (शिशुपालवधम्): तेन प्रोक्तम् इति छप्रत्ययः।