43102: तित्तिरिवरतन्तुखण्डिकोखाच्छण् ==================================== **Padacheda:** तित्तिरि-वरतन्तु-खण्डिका-उखात् | S | 5 | 1 | छण् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix छण् comes in the sense of 'enounced by him' after the words 1. तित्तिरि 2. वरतन्तु 3. खण्डिक and 4. उख। Vasu English Translation ------------------------ The affix छण् comes in the sense of 'enounced by him' after the words 1. तित्तिरि 2. वरतन्तु 3. खण्डिक and 4. उख। Thus तैत्तिरीयाः 'those who learn (4.2.64) the *Veda* enounced by * Tittiri*'. वारतन्तवीयाः, खाण्डिकीयाः, औखीयाः ॥ According to *Kasika* this is confined to the *Chhandas* only. Therefore it will not apply to secular *Slokas*, as तित्तिरिणा प्रोक्तं श्लोकः ॥ The word *Chhandas* is drawn from *sutra* (4.3.106) and from तद्विषयता from (4.2.66). Kashika ------- तित्तिर्यादिभ्यः शब्देभ्यश्छण् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। अणोऽपवादः। तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः। वारतन्तवीयाः। खाण्डिकीयाः। औखीयाः। छन्दसि चायमिष्यते, तित्तिरिणा प्रोक्तः श्लोक इत्यत्र न भवति, **शौनकादिभ्यश्छन्दसि** (४.३.१०६) इत्यत्रास्यानुवृत्तेः। छन्दोऽधिकारविहितानां च तद्विषयतेष्यते॥ Siddhanta Kaumudi ----------------- छन्दोब्राह्मणानि -(SK1278) इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः ॥ Balamanorama ------------ **तित्तिरिवरतन्तुखण्डिकोखाच्छण्** - तित्तिरिवरतन्तु । तेन प्रोक्त॑मित्येव । तित्तिरि, वरतन्तु, खण्डिक, उख-एभ्य उक्तविषये छण्स्यादित्यर्थः । इत आरभ्यतेनैकदि॑गितिपर्यन्तं प्रोक्ते वेदे भवन्ति,शौनकादिभ्यः छन्दसी॑ति छन्दोग्रहणस्य ततः पूर्व ततद उत्तरं चापकर्षानुवृत्त्योरभ्युपगमात् । अत्र छणादिप्रत्ययान्तानामेषां केवलानां न प्रयोगः, किंत्वध्येतृवेदितृप्र्तययशिरस्काणामेवेत्याह — छन्दोब्राआहृणानीति । तद्विषयतेति । अध्येतृवेदितृप्रत्ययशिरस्कत्वनियम इत्यर्थः । तैत्तिरीया इति । प्रोक्ते वेदे छण् । ईयः । तैत्तिरीयः=शाखाभेदः, तमधीयते विदन्ति वेत्यर्थे अण् ।प्रोक्ताल्लु॑गिति तस्य लुगिति भावः । वारतन्तवीयाः । खाण्डिकीयाः । औखीयाः । तित्तिरिणा प्रोक्तः श्लोक॑ इत्यत्र तु न, छन्दसीत्यनुवृत्तेः । छन्दःशब्देन च कल्पसूत्राणामपि ग्रहणं, तेषां सर्वशाखागतविधिवाक्यसङ्ग्रहात्मकत्वात् । काश्यप ।तेन प्रोक्त॑मित्येव । छस्यापवादः । Tattvabodhini ------------- **तित्तिरिवरतन्तुखण्डिकोखाच्छण्** - तित्तिरिवर । अणोऽपवादः । तद्विषयतेति ।शौनकादिभ्यश्छन्दसी॑त्यत्रास्यानुवृत्तिस्तित्तिरिणा प्रोक्तः श्र्लोक इत्यत्र न भवतीति भावः । तैत्तिरीयै इति ।प्रोक्ताल्लु॑गित्यध्येतृप्रत्ययस्य लुक्॥ एवमग्रेऽपि । Nyaas ----- `तैत्तिरीयाः` इति। छण्प्रत्ययः, तेभ्यः `तदधीते` (4.2.58) इत्यण्, तस्य **प्रोक्ताल्लुक्** (4.2.64) इति लुक्। `छन्दोब्राआहृणानि च तद्विषयाणि` (4.2.67 इति तद्विषयता।`छन्दसि` इत्यादि। कथं पुनश्चछन्दसि लभ्यते? न हि च्छन्दोग्रहणमस्तीत्याह - `शौनकादिभ्यः` इत्यादि॥ Prakriyasarvasvam ----------------- एभ्यः प्रोक्ते छण् । ‘छन्दोब्राह्मणानि च तद्विषयाणि’ (४-२-६६) इत्यध्येतृवेदित्रर्थयुक्तस्यैव प्रयोगः । तित्तिरिणा प्रोक्तमधीयानास्तैत्तिरीयाः । वारतन्तवीयाः । खाण्डिकीयाः । औखीयाः । 'छन्दोब्राह्मणानि च—' (४-२-६६) इति चकारादितः परं छन्दोब्राह्मणेभ्योऽन्यत्राप्यध्येतृवेदितृनियम इष्यते ॥