43089: सोऽस्य निवासः¶
Padacheda: सः | S | 1 | 1 |
अस्य | S | 6 | 1 |
निवासः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
After a word in the Nominative 1st-Case in construction, an affix comes in the sense of ‘this is his dwelling place’.
Vasu English Translation¶
After a word in the Nominative 1st-Case in construction, an affix comes in the sense of ‘this is his dwelling place’. The word स shows that the word to which the affix is to be added is in the nominative case. अस्य ‘his’ shows that the meaning of the affix is that of a genitive case. निवासः, shows that the first word in construction must signify a dwelling place. निवास means “a country i. e. where a person lives (nivasanti asmin)”.
स्रुघ्नो निवासोऽस्य = स्रौघ्नः ‘a present dweller of Srughna’, माथुरः, राष्ट्रियः &c.
Bhashya¶
सोऽस्य निवासः (1659)
Kashika¶
स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं निवासश्चेत् स भवति। निवसन्त्यस्मिन्निवासो देश उच्यते। स्रुघ्नो निवासोऽस्य स्रौघ्नः। माथुरः। राष्ट्रियः॥
Siddhanta Kaumudi¶
स्रुघ्नो निवासोऽस्य स्रौघ्नः ॥
Laghu Siddhanta Kaumudi¶
स्रुग्घ्नो निवासोऽस्य स्रौग्घ्नः॥
Balamanorama¶
सोऽस्य निवासः - सोऽस्य निवासः । अस्मिन्नर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः ।यत्र संप्रत्युष्यते स निवास॑ इति भाष्यम् ।
Tattvabodhini¶
सोऽस्य निवासः - सोऽस्य निवासः ।स॑इति प्रथमान्तादस्येति षष्ठर्थे यथा विहितः प्रत्ययः स्याद्यः प्रथमान्तर्थः स निवासश्चेत् । रुआउग्घ्नो निवास इति.निवासाधिकरणमित्यर्थः । नन्वस्येति कृद्योगे कर्तरि षष्ठी । तथा च विशेषणविशेष्यभावव्यत्यासात्रुआउघ्नाधिकरणवासकर्तेह वृत्त्यर्थः, तथा चतत्र भवः॑इत्येव सिद्धं किमनेनेति चेत् । अत्राहुः — — बासस्य चेतनमात्रकर्तृकतया प्रसिद्धत्वात्प्रकारकृतो भेदोऽस्तीति नास्ति वैयथ्र्यं ।वसन्ति हि प्रेम्णि गुणा न वस्तुनी॑त्यादौ तूपचारो बोध्य इति ।
Padamanjari¶
इह यस्य स्रुघ्नो निवासः स्रुघ्नेऽसौ भवति, ततः’तत्र भवः’ इत्येव सिद्धम्, शब्दार्थभेदातु पृथगुपादानम् ॥
Prakriyasarvasvam¶
<karika>मधुरा निवासोऽस्य माथुरः । पृथिवीमध्यादण् स्यान्मध्यमभावश्च तस्य चरणेऽर्थे । पृथिवीमध्यनिवासाश्चरणाः केचिद्धि माध्यमा नाम ॥ २५६ ॥</karika>