43088: शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः¶
Padacheda: शिशुक्रन्द-यमसभ-द्वन्द्व-इन्द्रजनन-आदिभ्यः | S | 5 | 3 |
छः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix छ comes in the sense of ‘a book made relating to a subject’ after the following words in the Accusative -2nd case in construction viz. 1. शिशुक्रन्द 2. यमसभ , the द्वन्द समास and the words इन्द्रजनन etc.
Vasu English Translation¶
The affix छ comes in the sense of ‘a book made relating to a subject’ after the following words in the Accusative -2nd case in construction viz. 1. शिशुक्रन्द 2. यमसभ , the द्वन्द समास and the words इन्द्रजनन etc. The word तद् (4.3.85) and अधिकृत्य कृते ग्रन्थे should be read into the sutra. This debars अण् ॥ Thus शिशुक्रन्दीयः ‘a book treating of the crying of infants.’ यमसभः ‘a book relating to the court of Yama’. A Dvandva-Compound: as, अग्निकाश्यपीयः, श्येनकपोतीयः, शब्दार्थसंबन्धीयम् प्रकरणं, वाक्यपदीयम् ॥
There is no list of इन्द्रजननादि words. They are akritigana, and must be determined by usage. Thus इन्द्रजननीयम्, प्रद्युम्नागमनीयम् &c.
Vart:- Prohibition should be stated in the case of the Dvanda-Compounds देवासुर &c. As दैवासुरम् ‘the book of the wars of the Gods and Demons.’ राक्षोसुरम् गौणमुख्यम् ॥
The words शिशुक्रान्त and यमसभ might have been included in the inchoate class इन्द्रजननादि ॥ The separate enumeration of these words in the sutra, is merely for the sake of amplification.
Bhashya¶
शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः (1658) (5496 द्वन्द्वे विशेषबोधकवार्तिकम्॥ 1 ॥) - द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः - (भाष्यम्) द्वन्द्वे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः। दैवासुरम्, राक्षोऽसुरम्। दैवासुरी, राक्षोऽसुरी॥
Kashika¶
तदित्येव। अधिकृत्य कृते ग्रन्थ इति च। शिशुक्रन्दादिभ्यो द्वितीयासमर्थेभ्यश्छः प्रत्ययो भवत्यधिकृत्य कृते ग्रन्थे। अणोऽपवादः। शिशूनां क्रन्दनं शिशुक्रन्दः। तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः। यमस्य सभा यमसभम् यमसभीयः। द्वन्द्वात् — अग्निकाश्यपीयः। श्येनकपोतीयः। शब्दार्थसंबन्धीयं प्रकरणम्। वाक्यपदीयम्। इन्द्रजननादिभ्यः — इन्द्र — जननीयम्। प्रद्युम्नागमनीयम्। इन्द्रजननादिराकृतिगणः प्रयोगतोऽनुसर्तव्यः, प्रातिपदिकेषु न पठ्यते॥ द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः॥ दैवासुरम् । राक्षोऽसुरम्। गौणमुख्यम्। इन्द्रजननादेराकृतिगणत्वात् शिशुक्रन्दादयोऽपि तत्रैव द्रष्टव्याः। प्रपञ्चार्थमेषां ग्रहणम्। एवं सति देवासुरादिप्रतिषेधोऽपि न वक्तव्यः, ततश्छप्रत्ययस्यादर्शनात्॥
Siddhanta Kaumudi¶
शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । क्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् ॥
Balamanorama¶
शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः - शिशुक्रन्द । शिशुक्रन्द, यमसभ, द्वन्द्व, इन्द्रजननादि एभ्यश्छः स्यादधिकृत्य कृते ग्रन्थे इत्यर्थे । निपातनादिति ।सभा राजे॑ति तु नपुंसकत्वं न भवति, तत्रअमनुष्यशब्दो रूढआ रक्षःपिशाचादीनाहे॑त्युक्तेरिति भावः ।
Tattvabodhini¶
शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः - शिशुक्रन्द । अत्र वार्तिकं — ॒द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः॑ । दैवासुरम् । राक्षोसुरम् । निपातनादिति ।सभा राजे॑ति सूत्रेअमनुष्यशब्दो रुढआ रक्षःपिशाचादीनाहे॑त्युक्तत्वात्तेन सूत्रेण क्लीबत्वं न सिध्यतीति भावः ।
Padamanjari¶
इन्द्रजननादिराकृतिगण इति । तेन’विरुद्धभोजनीयमध्यायं व्याख्यास्यामः’ इति सिद्धं भवति ॥
Nyaas¶
यमसभम् इति। सभाराजा (2.4.23) इत्यादिना नुपंसकलिङ्गता। यदीन्द्रजननादावेव शिशुक्रन्दादयो द्रष्टव्याः,तत्किमर्थं पृथग्ग्रहणम्? इत्यत आह - प्रपञ्चार्थम् इत्यादि। एवञ्च सति इत्यादि। चशब्दो हेतौ। यस्मादिन्द्रजननादेराकृतिगणस्य तदन्तर्भूतानामेव शिशुक्रन्दादीनां प्रपञ्चार्थं ग्रहणम्; तस्मादेवमर्थऽस्मिन् स्थिते देवासुरादीनां प्रतिषेधो न वक्तव्यः, प्राप्त्यभावात्। येभ्य एव च्छप्रत्ययोऽयं दृश्यते, त एवेन्द्रजननादयः, न च देवासुरादिभ्यो दृश्यते॥
Prakriyasarvasvam¶
शिशुक्रन्दयमसभशब्दाभ्यां द्वन्द्वसमासादिन्द्रजननादेश्चोक्तेऽर्थे छः स्यात् । शिशूनां क्रन्दनविषयो ग्रन्थः शिशुक्रन्दीयः । यमसभीयः । द्वन्द्वात्—किरातार्जुनीयम् । दैवासुरं राक्षोसुरमित्यादौ छो नेष्टः । इन्द्रजननीयम् । सीतान्वेषणीयम् । प्रद्युम्नागमनीयम् इत्याद्याकृतिगणः ॥
Vartika¶
द्वन्द्वे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः ।