43090: अभिजनश्च

Padacheda: अभिजनः | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

After a word in the Nominative 1st-Case in construction, an affix comes in the sense of ‘this is his mother-land’.

Vasu English Translation

After a word in the Nominative 1st-Case in construction, an affix comes in the sense of ‘this is his mother-land’. The difference between निवासः and अभिजनः is this. Where a person lives himself for the present, that is his निवास or dwelling-place. Where his ancestors (अभिजनाः) have lived, that is his अभिजन ‘native country, home or ancestral abode’. Thus स्रौघ्नः ‘a person whose ancestral home is in Srughna’. माथुरः, राष्ट्रियः ॥ The separation of this sutra from the last is for the sake of the subsequent sutra, in which the anuvritti of abhijana’ only runs.

Bhashya

अभिजनश्च (1660) (अर्थाधिकरणम्) (निवासाभिजनविशेषे भाष्यम्) निवासाभिजनयोः को विशेषः? निवासो नाम यत्र संप्रत्युष्यते। अभिजनो नाम यत्र पूर्वैरुषितम्॥

Kashika

सोऽस्येत्येव। स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थमभिजनश्चेत् स भवति। अभिजनः पूर्वबान्धवः। तत्संबन्धाद् देशोऽप्यभिजन इत्युच्यते — यस्मिन् पूर्वबान्धवैरुषितम्। तस्मादिह देशवाचिनः प्रत्ययः, न बन्धुभ्यः, निवासप्रत्यासत्तेः। स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः। माथुरः। राष्ट्रियः। निवासाभिजनयोः को विशेषः? यत्र संप्रत्युष्यते स निवासः, यत्र पूर्वैरुषितं सोऽभिजनः। योगविभाग उत्तरार्थः॥

Siddhanta Kaumudi

स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः । यत्र स्वयं वसति स निवासः । यत्र पूर्वैरुषितं सोऽभिजन इति विवेकः ॥

Balamanorama

अभिजनश्च - अभिजनश्च । स इत्यनुवर्तते । पूर्ववद्व्याख्येयम् ।यत्र पूर्वैरुषितं सोऽभिजन॑ इति भाष्यम् । यत्र स्वयमिति । उदाहृतभाष्यस्यायमर्थ इति भावः ।

Tattvabodhini

अभिजनश्च - अभिजनश्च । योगविभाग उत्तरार्थः ।अभिजनाः पूर्वबान्धवाः॑इति वृत्तिः । अभिजायते येभ्य इति व्युत्पत्तेरिति भावः । पूर्वाबान्धवाः पित्रादयः । बन्धुशब्दः प्रज्ञादिः । पूर्वसूत्रादिहनिवासः॑इत्यनुवृत्तम् । तत्सामानादिकरण्यादभिजनशब्दस्यतत्संबन्धिनि लक्षणा । एवं स्थिते फलितमाह -यत्र पूर्वैरिति ।

Nyaas

तत्सम्बन्धाद्देशोऽप्यभिजन उच्यते इति। यथा यष्टीः प्रवेदशयेति यष्टिसम्बन्धाद्यष्टिशब्दः पुरुषे वर्तते, तथाऽभिजनशब्दो देशे वर्तते। कः पुनरसौ योऽभिजनसम्बन्धादभिजन उच्यते? इत्यत आह - यस्मिन् इत्यादि। इह देशवाचिनः इत्यादि। कथं पुनर्मुख्येऽभिजने गौणात् प्रत्ययो भवति? इत्याह - निवासप्रत्यासत्तेः इति। निवासो (4.3.89) ऽनुकृष्यते तेनाभिजनो विशेष्यते निवासो योऽभिजन इति। तस्माद्देशवाचिन एव प्रत्ययो भवति, न बन्धुभ्यः ; तेषामनिवसत्वात्।निवासाभिजनयोः को विशेषः? नास्त्येव कश्चिद्विशेषः, अभिजनस्य निवासभूतत्वादिति मन्यते। यत्र इत्यादि। विशेषं दर्शयति।योगविभाग उत्तरार्थः इति। उत्तरेषु योगेष्वभिजनप्रत्यया यथा स्युः, निवासे मा भूवन्निति॥

Prakriyasarvasvam

<karika>सोऽस्याभिजन इत्यर्थेऽण् माथुरोऽयमिह स्थितः । प्राग्वासभूरभिजनो निवासस्त्वद्य वासभूः ॥ २५७ ॥</karika>