43089: सोऽस्य निवासः ==================== **Padacheda:** सः | S | 1 | 1 | अस्य | S | 6 | 1 | निवासः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After a word in the Nominative 1st-Case in construction, an affix comes in the sense of 'this is his dwelling place'. Vasu English Translation ------------------------ After a word in the Nominative 1st-Case in construction, an affix comes in the sense of 'this is his dwelling place'. The word स shows that the word to which the affix is to be added is in the nominative case. अस्य 'his' shows that the meaning of the affix is that of a genitive case. निवासः, shows that the first word in construction must signify a dwelling place. निवास means "a country i. e. where a person lives (*nivasanti* *asmin*)". स्रुघ्नो निवासोऽस्य = स्रौघ्नः 'a present dweller of *Srughna*', माथुरः, राष्ट्रियः &c. Bhashya ------- सोऽस्य निवासः (1659) Kashika ------- स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं निवासश्चेत् स भवति। निवसन्त्यस्मिन्निवासो देश उच्यते। स्रुघ्नो निवासोऽस्य स्रौघ्नः। माथुरः। राष्ट्रियः॥ Siddhanta Kaumudi ----------------- स्रुघ्नो निवासोऽस्य स्रौघ्नः ॥ Laghu Siddhanta Kaumudi ----------------------- स्रुग्घ्नो निवासोऽस्य स्रौग्घ्नः॥ Balamanorama ------------ **सोऽस्य निवासः** - सोऽस्य निवासः । अस्मिन्नर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः ।यत्र संप्रत्युष्यते स निवास॑ इति भाष्यम् । Tattvabodhini ------------- **सोऽस्य निवासः** - सोऽस्य निवासः ।स॑इति प्रथमान्तादस्येति षष्ठर्थे यथा विहितः प्रत्ययः स्याद्यः प्रथमान्तर्थः स निवासश्चेत् । रुआउग्घ्नो निवास इति.निवासाधिकरणमित्यर्थः । नन्वस्येति कृद्योगे कर्तरि षष्ठी । तथा च विशेषणविशेष्यभावव्यत्यासात्रुआउघ्नाधिकरणवासकर्तेह वृत्त्यर्थः, तथा चतत्र भवः॑इत्येव सिद्धं किमनेनेति चेत् । अत्राहुः — — बासस्य चेतनमात्रकर्तृकतया प्रसिद्धत्वात्प्रकारकृतो भेदोऽस्तीति नास्ति वैयथ्र्यं ।वसन्ति हि प्रेम्णि गुणा न वस्तुनी॑त्यादौ तूपचारो बोध्य इति । Padamanjari ----------- इह यस्य स्रुघ्नो निवासः स्रुघ्नेऽसौ भवति, ततः'तत्र भवः' इत्येव सिद्धम्, शब्दार्थभेदातु पृथगुपादानम् ॥ Prakriyasarvasvam ----------------- मधुरा निवासोऽस्य माथुरः । पृथिवीमध्यादण् स्यान्मध्यमभावश्च तस्य चरणेऽर्थे । पृथिवीमध्यनिवासाश्चरणाः केचिद्धि माध्यमा नाम ॥ २५६ ॥