43071: छन्दसो यदणौ¶
Padacheda: छन्दसः | S | 5 | 1 |
यद्-अणौ | S | 1 | 2 |
Sutrartha¶
Vasu English Summary¶
The affixes यत् and अण् comes in the sense of ‘occurring therein’ or ‘commentary thereon’ after the word छन्दस्।
Vasu English Translation¶
The affixes यत् and अण् comes in the sense of ‘occurring therein’ or ‘commentary thereon’ after the word छन्दस्। This debars ठक् of the following sutra. As छन्दस्यः or छान्दसः ॥
Kashika¶
छन्दःशब्दाद् भवव्याख्यानयोरर्थयोर्यदणौ प्रत्ययौ भवतः। द्व्यच इति ठकि प्राप्ते वचनम्। छ॑न्द॒स्यः॑ (तै०सं० १.६.११.४)। छान्दसः (कौ०गृ० १४१.३४)॥
Siddhanta Kaumudi¶
छन्दस्यः । छान्दसः ॥
Balamanorama¶
छन्दसो यदणौ - छान्दसो यदणौ ।तस्य व्याख्याने, तत्राभवे चे॑ति शेषः । छन्दस्य छान्दस इति । छन्दसां व्याख्यानः, तत्र भवो वेत्यर्थः । द्व्यज्लक्षणस्य वक्ष्यमाणस्य ठकोऽपवादः ।
Tattvabodhini¶
छन्दसो यदणौ - छन्दसो । छन्दः — शब्दाद्भवव्याख्यानयोरर्थयोर्यदणौ स्तः । व्द्यज्लक्षणस्य ठकोऽपवादः । छन्दस्य इत्यादि । इहार्थयोर्यदण्भ्यां यथासङ्ख्यं न भवत्यस्वरितत्वादिति बोध्यम् ।
Padamanjari¶
अत्र भवव्याख्यानौ द्वावर्थौ, यदणौ प्रत्ययावपि द्वावेव, तथापि यथासंख्यं न भवति;’तस्य व्याख्याने’ इति यदणौ भवतः,’तत्र भवः’ इति चेत्येवं समुच्चयात् । द्व्यचेति ठकि प्राप्त इति । उतरसूत्रे द्व्यज्ग्रहणेन ठकि प्राप्त इत्यर्थः ॥