43072: द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक्¶
Padacheda: द्व्यच्-ऋत्-ब्राह्मण-ऋक्-प्रथम-अध्वर-पुरश्चरण-नाम-आख्यातात् | S | 5 | 1 |
ठक् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ठक् comes in the sense of ‘occurring therein’ or ‘commentary thereon’ after a word of two syllables and a word ending in short ऋ and the words 1. ब्राह्मण 2. ऋक् 3. प्रथम 4. पुरश्चरण 5. नाम 6. आख्यात and 7. नामाख्यात being the names of explainable works.
Vasu English Translation¶
The affix ठक् comes in the sense of ‘occurring therein’ or ‘commentary thereon’ after a word of two syllables and a word ending in short ऋ and the words 1. ब्राह्मण 2. ऋक् 3. प्रथम 4. पुरश्चरण 5. नाम 6. आख्यात and 7. नामाख्यात being the names of explainable works. This debars अण् and ठञ् ॥ I.Dissyllabic:- ऐष्टिकः, पाशुकः ॥ 2. Ending in ऋ :- चातुर्होतृकः, पांचहोतृकः ॥ So also ब्राह्मणिकः, आर्चिकः, प्राथमिकः, आध्वरिकः, पौरश्चरणिकः, नामिकः, आख्यातिकः, नामाख्यातिकः ॥
Bhashya¶
द्व्यजृद्ब्राह्मर्णक्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् (1642) (ठकोऽधिकरणम्) (5494 नामग्रहणवैर्यथ्यनिवारकवार्तिकम्॥ 1 ॥) - नामाख्यातग्रहणं संघातविगृहीतार्थम् - (भाष्यम्) नामाख्यातग्रहणं संघातविगृहीतार्थं द्रष्टव्यम्। नामिकः, आख्यातिकः, नामाख्यातिकः॥
Kashika¶
द्व्यजादिभ्यः प्रातिपदिकेभ्यो व्याख्यातव्यनामभ्यो भवव्याख्यानयोरर्थयोष्ठक् प्रत्ययो भवति। अणादेरपवादः। द्व्यचस्तावत् — ऐष्टिकः। पाशुकः। ऋकारान्तात् — चातुर्होतृकः। पाञ्चहोतृकः। ब्राह्मण — ब्राह्मणिकः। ऋक् — आर्चिकः। प्रथमः — प्राथमिकः। अध्वर — आध्वरिकः। पुरश्चरण — पौरश्चरणिकः। नामाख्यातग्रहणं संघातविगृहीतार्थम्। नामिकः। आख्यातिकः। नामाख्यातिकः॥
Siddhanta Kaumudi¶
द्व्यच् । ऐष्टिकः । पाशुकः । ऋत् । चातुर्होतृकः । ब्राह्मणिकः । आर्चिकः । इत्यादि ॥
Balamanorama¶
द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरण- नामाख्याताट्ठक् - द्व्यजृद्ब्राआहृण । द्व्यच्, ऋत्, ब्राआहृण, ऋक्, प्रथम, अध्वर, पुरश्चरण, नामन्स, आख्यात एभ्यष्ठक्स्यात्तस्य व्याख्याने, तत्र भवे च । शैषिक इति । शेषस्य व्याख्यानस्तत्र भवो वेत्यर्थः । पाशुक इति.पशुयागप्रतिपादकग्रन्थः । पशुः, तस्य व्याख्यानस्तत्र भवो वेत्यर्थः । उकः परत्वाट्ठस्य कः । ऋत इति । उदाह्यियत इत्यर्थः । चातुर्होतृक इति । ‘चित्तिः रुआउक्’ इत्यादयो मन्त्राश्चतुर्होतारस्तैत्तिरीये प्रसिद्धाः । तेषां व्याख्यानस्तत्र भवो वेत्यर्थः । ब्राआहृणिकः, आर्चिक इति । ब्राआहृणानि मन्त्रव्यतिरिक्तवेदभागाः, तेषामृचां वा व्याख्यानः, तत्र भवो वेत्यर्थः । ब्राआहृणिकः, आर्चिक इति । ब्राआहृणानि मन्त्रव्यतिरिक्तवेदभागाः, तेषामृचां वा व्याख्यानः, तत्र भवो वेत्यर्थः । इत्यादीति । प्राथमिकः, आध्वरिकः, पौरश्चरणिकः, नामिकः, आख्यातिकः ।
Tattvabodhini¶
द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरण- नामाख्याताट्ठक् - व्द्यजृत् । अणोऽपवादः । चातुर्होतृक इति ।पृथिवीहोता द्यौरध्वर्यु॑रित्यादिमन्त्रस्य चतुर्होतेति नामधेयम् । इत्यादीति । आदिशब्दात्प्रथमिकः । आध्वरिकः । पौरश्चरणिकः ।नामख्यातग्रहणं सङ्घातविगृहीतार्थ॑मिति वार्तिकम् । तत्र नामशब्दात् व्द्यच्त्वादेव सिद्धे विगृहीतग्रहणमाख्यातार्थमिति ज्ञेयम् । नामिकः । आख्यातिकः । नामाख्यातिकः ।
Padamanjari¶
अणादेरपवाद इति । आदिशब्देन ठञः । तत्र ऋक्च्छब्धे द्व्यक्षु चाणोऽपवादः, पुरश्चरणशब्दोऽपि ल्युडन्तः कृदुतरपदप्रकृतिस्वरेण मध्योदातः । असिप्रत्ययो हि सप्तम्यन्तादुत्पद्यत इति पुरः शब्दः कारकम्,’पुरो’ व्ययम्ऽ इति वा गतिः । तेन तस्मादप्यण एवापवादः । ब्राह्मणादिष्वन्तोदातेषु ठञोऽपवादः, ऋकारान्तेष्वप्यणोऽपवादः । ये तु तत्र बह्वचोऽन्तोदातास्तेषु परत्वादयं ठञं बाधते । नामाख्यातग्रहणं सङ्घातविगृहीतार्थमिति । आख्यातार्थं विगृहीतग्रहणम्, नामशब्दातु द्व्यच्त्वादेव सिद्धम् ॥
Nyaas¶
अणोरपवादः इति। आदिशब्देन ठञः। तत्र य ऋकारान्ता उद्गातृप्रभृतयो बह्वचोऽन्तोदात्तस्तेभ्यष्ठञोऽपवादः। ब्राआहृणप्रथमाध्वरेभ्योऽपि ठञ एव। तेऽपि बर्वचः प्रातिपदिकस्वरेणान्तोदात्ताः। नामाख्यातशब्दादपि समस्तात् तस्यैव। सोऽपि बह्वच्, समासस्वरेणान्तोदात्तश्च। परिशिष्टेभ्योऽणः। पांशुकम्, पाञ्चहोतृकम् इति। इसुसुक्तान्तात् कः (7.3.51) । पञ्चहोतृचतुर्होतृशब्दाविगन्ते द्विगौ (6.2.29) इतिपूर्वपदप्रकृतिस्वरेणाद्युदात्तौ। पूर्वपदं हि न्रः संख्यायाः (फि।सू।2।28) इत्युदात्तम्। पुरश्चरणशब्दोल्युडन्तः कृदुत्तरपदप्रकृतिस्वरेण (6.2.138) मध्योदात्तः। आख्यातशब्दः गतिरनन्तरः (6.2.49) इत्याद्युदात्तः।सङ्गातविगुहीतार्थम् इति। तच्चैकशेषसमासाश्रयणाल्लभ्यत इति वेदितव्यम्॥
Prakriyasarvasvam¶
<karika>द्व्यचः शब्दादृदन्ताच्च ब्राह्मणादेश्च ठग् द्वयोः । ऐष्टिकः पाशुको द्व्यज्भ्यश्चातुर्होत्रुक इत्यृतः ॥ २५० ॥</karika> ब्राह्मणिकः । आर्च्चिकः । प्राथमिकः । आध्वरिकः । पौरश्चरणिकः । नामाख्यातयोस्तु व्यस्तयोः समस्तयोश्च । नामिकः । आख्यातिकः । नामाख्यातिकः ॥
Vartika¶
नामाख्यातग्रहणं संघातविगृहीतार्थम् ।