43071: छन्दसो यदणौ ================== **Padacheda:** छन्दसः | S | 5 | 1 | यद्-अणौ | S | 1 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes यत् and अण् comes in the sense of 'occurring therein' or 'commentary thereon' after the word छन्दस्। Vasu English Translation ------------------------ The affixes यत् and अण् comes in the sense of 'occurring therein' or 'commentary thereon' after the word छन्दस्। This debars ठक् of the following *sutra*. As छन्दस्यः or छान्दसः ॥ Kashika ------- छन्दःशब्दाद् भवव्याख्यानयोरर्थयोर्यदणौ प्रत्ययौ भवतः। द्व्यच इति ठकि प्राप्ते वचनम्। छ॑न्द॒स्यः॑ (तै०सं० १.६.११.४)। छान्दसः (कौ०गृ० १४१.३४)॥ Siddhanta Kaumudi ----------------- छन्दस्यः । छान्दसः ॥ Balamanorama ------------ **छन्दसो यदणौ** - छान्दसो यदणौ ।तस्य व्याख्याने, तत्राभवे चे॑ति शेषः । छन्दस्य छान्दस इति । छन्दसां व्याख्यानः, तत्र भवो वेत्यर्थः । द्व्यज्लक्षणस्य वक्ष्यमाणस्य ठकोऽपवादः । Tattvabodhini ------------- **छन्दसो यदणौ** - छन्दसो । छन्दः — शब्दाद्भवव्याख्यानयोरर्थयोर्यदणौ स्तः । व्द्यज्लक्षणस्य ठकोऽपवादः । छन्दस्य इत्यादि । इहार्थयोर्यदण्भ्यां यथासङ्ख्यं न भवत्यस्वरितत्वादिति बोध्यम् । Padamanjari ----------- अत्र भवव्याख्यानौ द्वावर्थौ, यदणौ प्रत्ययावपि द्वावेव, तथापि यथासंख्यं न भवति;'तस्य व्याख्याने' इति यदणौ भवतः,'तत्र भवः' इति चेत्येवं समुच्चयात् । द्व्यचेति ठकि प्राप्त इति । उतरसूत्रे द्व्यज्ग्रहणेन ठकि प्राप्त इत्यर्थः ॥