43070: पौरोडाशपुरोडाशात् ष्ठन्

Padacheda: पौरोडाश-पुरोडाशात् | S | 5 | 1 |

ष्ठन् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ष्ठन् comes in the sense of ‘occurring therein’ and ‘commentary thereon’ after the words 1. पौरोडाश and 2. पुरोडाश।

Vasu English Translation

The affix ष्ठन् comes in the sense of ‘occurring therein’ and ‘commentary thereon’ after the words 1. पौरोडाश and 2. पुरोडाश। The verses on the purification &c of Purodasa ‘a sacred cake’, are called पौरोडाश, the commentary on such paurodasa mantras will be called पौरोडाशिकः. Its feminine will be पौरोडाशिकी (4.1.41). A book on Purodasa cake is called पुरोडाश; a commentary there on will be पुरोडाशिकः f. पुरोडाशिकी (4.1.41) The ष of the affix indicates that the feminine is formed by ङीष् (4.1.41). The commentary here refers to the ‘mantras’ or verses relating to Purodasa, and not to the sacrifice.

Kashika

पौरोडाशशब्दात् पुरोडाशशब्दात् च भवव्याख्यानयोरर्थयोः ष्ठन् प्रत्ययो भवति। पुरोडाशाः पिष्टपिण्डाः, तेषां संस्कारको मन्त्रः पौरोडाशः, तस्य व्याख्यानस्तत्र भवो वा पौरोडाशिकः। पौरोडाशिकी। पुरोडाशसहचरितो ग्रन्थः पुरोडाशः, तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिकः। पुरोडाशिकी। षकारो ङीषर्थः॥

Siddhanta Kaumudi

पुरोडाशसहचरितो मन्त्रः पुरोडाशः स एव पौरोडाशः । ततष्ठन् । पौरोडाशिकः ॥

Balamanorama

पौरोडाशपुरोडाशात् ष्ठन् - पौरोडाश । ‘उक्तविषये’ इति शेषः । पुरोडाशेति । पुरोडाशशब्दसहितो मन्त्रो लक्षमया पुरोडाश इत्युच्यत इत्यर्थः । स एव पौरोडाश इति । प्रज्ञादित्वात्स्वार्थेऽणिति भावः । पौरोडाशिक इति । पौरोडाशात्ष्ठनि रूपम् । पुरोडाशिक इति । पुरोजाशशब्दात्ष्ठनि रूपम् । षित्त्वान्ङीष् । पौरोडाशिकी — पुरोडाशिकी ।

Tattvabodhini

पौरोडाशपुरोडाशात् ष्ठन् - पौरोडाश । षित्त्वन्ङीष् । पौरोडाशिकी । पुरोडाशिकी । पुरो दाश्यते इतिपुरोडाषः॑ ।दाशृ दाने॑कर्मणि घञि इहैव निपातनाद्दस्य डत्वम् ।

Padamanjari

पुरोडाशाः पिष्टपिण्डा इति ।’दाशृ दाने’ कर्मणि घञ्, पुरो दाश्यन्ते दीयन्त इति पुरोडाशाः, पृषोदरादित्वात्समासः, दकारस्य च डकारः, एतेनैतदाह - आकृतिवचनः पुरोडाशशब्दः, न यूपाहवनीयादिवददृष्टनिमित इति । तेषां संस्कारको मन्त्र इति ।’मखस्य शिरो’ सिऽ इत्येवमादिः । पुरोडाशसहचरितो मन्त्रः पुरोडाश इति । मन्त्र एव हि व्याख्यातव्यो न पुरोडाशः ॥

Nyaas

पुरोडाशस्येदमित्यन्तोदात्तः। तस्माद्बह्वचोऽन्तोदात्ताट्ठञि (4.3.67) प्राप्ते। पुरोडाशस्तु लघावन्ते द्वयोश्च बह्वषो गुरुः (फि।सू।2।42) इति मध्यादात्तः। अस्मादणि प्राप्ते ष्ठन् विधीयते। वकारो ङीषर्थः, नकार आद्युदात्तार्थः। तेषां संस्कारो मन्त्रः पौरोडाश इति। पुरोडाशसहचरितःर इति। सामर्थ्यात् साहचर्याद्वा पुरोडाशा येन मन्त्रण संस्क्रियन्ते पुरोडाशशब्दो वर्तते, न पुरोडाशेषु। कृत एतत्? व्याख्यातव्यनामग्रहणानुवृत्तेः। न हि पुरोडाशा व्याख्यातव्यतया प्रसिद्धतराः॥

Prakriyasarvasvam

पुरोडाशविधिवाक्यं पुरोडाशः । तत्संस्कारमन्त्राः पौरोडाशा इति माधवः । ताभ्यामुक्तार्थद्वये ष्ठन् स्यात् । षो ङीषर्थः । पौरोडाशिकः । पुरोडाशिकः ॥