43069: अध्यायेष्वेवर्षेः

Padacheda: अध्यायेषु | S | 7 | 3 |

एव | S | 0 | 0 |

ऋषेः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix ठञ् comes after the name of an explainable work called after a ऋषि in the senses of ‘occurring therein’ or ‘commentary thereon’ when it refers to an अध्याय only.

Vasu English Translation

The affix ठञ् comes after the name of an explainable work called after a ऋषि in the senses of ‘occurring therein’ or ‘commentary thereon’ when it refers to an अध्याय only. The word ऋषि is the name of प्रवर and those Rishis are only meant whose names are in the Pravara list. The word so formed means always an Adhyaya or Chapter of the work. The phrase व्याख्यातव्यनाम्नः is understood in this sutra, hence the word ऋषि means “a work the author of which is a Rishi”.

Thus वसिष्ठस्य व्याख्यानस्तत्र भवो वा = वासिष्ठिकोऽध्यायः “Vasishthika- a chapter containing commentary on Vashishtha”. वैश्वामित्रिकः ‘a chapter of commentary on Visvamitra’.

Why do we say meaning ‘chapter’? Observe वासिष्ठिकी ऋक् ॥

Kashika

ऋषिशब्दाः प्रवरनामधेयानि, तेभ्य ऋषिशब्देभ्यो भवव्याख्यानयोरर्थयोष्ठञ् प्रत्ययो भवति। अणोऽपवादः। अध्यायेष्वेव प्रत्ययार्थविशेषणेषु। व्याख्यातव्यनाम्न इत्यनुवर्तते, तत्साहचर्यादृषिशब्दैर्ग्रन्थ उच्यते। वसिष्ठस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः। वैश्वामित्रिकः। अध्यायेष्विति किम् ? वासिष्ठी ऋक्॥

Siddhanta Kaumudi

ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वा । वासिष्ठिकोऽध्यायः । अध्यायेषु किम् । वासिष्ठी ऋक् ॥

Balamanorama

अध्यायेष्वेवर्षेः - अध्यायेष्वेवर्षेः । मन्त्रो वसिष्ठ इति । लक्षणयेति भावः । वासिष्ठिकोऽध्याय इति । कश्चिद्ग्रन्थविशेषोऽयम् । वासिष्ठी ऋगिति । ऋचोऽध्यायसमाख्याऽभावान्न ठञिति भावः ।

Tattvabodhini

अध्यायेष्वेवर्षेः - अध्यायेष्वेवर्षेः । एवकारः स्पष्टप्रतिपत्त्यर्थः । वासिषठीति । भवार्थेऽण् ।

Padamanjari

अषिशब्दाः प्रवरनामधेयानीति । होत्राध्वर्युणा च प्रव्रियन्त इति प्रवराः उ भृग्वादयः, तद्यथा भार्गवच्यावनाप्रवानौर्वजामदग्नेति होता, जमदग्निवदुर्ववदप्रवानवच्च्यवनवद्भृगुवदित्यध्वर्युः । एतेन यद्यपि मन्त्रदर्शिष्वृपिशब्दः प्रसिद्धः, तथापि प्रवराद्यायपठितानामे ग्रहणमिति दर्शयति । वसिष्ठस्य व्याख्यान इति । वसिष्ठेन दृष्टो मन्त्र उपचाराद् वसिष्ठ इत्युक्तः । वासिष्ठी ऋगिति भवार्थेऽण्, एवकारः सर्ववाक्यानां सावधारणत्वज्ञापनार्थः ॥

Prakriyasarvasvam

व्याख्येयग्रन्थपरादृषिनाम्न उक्तार्थयोरध्याये वाच्य एव ठञ् स्यात् । वसिष्ठोक्तग्रन्थस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः ॥