43070: पौरोडाशपुरोडाशात् ष्ठन् ============================== **Padacheda:** पौरोडाश-पुरोडाशात् | S | 5 | 1 | ष्ठन् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ष्ठन् comes in the sense of 'occurring therein' and 'commentary thereon' after the words 1. पौरोडाश and 2. पुरोडाश। Vasu English Translation ------------------------ The affix ष्ठन् comes in the sense of 'occurring therein' and 'commentary thereon' after the words 1. पौरोडाश and 2. पुरोडाश। The verses on the purification &c of *Purodasa* 'a sacred cake', are called पौरोडाश, the commentary on such *paurodasa* *mantras* will be called पौरोडाशिकः. Its feminine will be पौरोडाशिकी (4.1.41). A book on *Purodasa* cake is called पुरोडाश; a commentary there on will be पुरोडाशिकः f. पुरोडाशिकी (4.1.41) The ष of the affix indicates that the feminine is formed by ङीष् (4.1.41). The commentary here refers to the '*mantras*' or verses relating to *Purodasa*, and not to the sacrifice. Kashika ------- पौरोडाशशब्दात् पुरोडाशशब्दात् च भवव्याख्यानयोरर्थयोः ष्ठन् प्रत्ययो भवति। पुरोडाशाः पिष्टपिण्डाः, तेषां संस्कारको मन्त्रः पौरोडाशः, तस्य व्याख्यानस्तत्र भवो वा पौरोडाशिकः। पौरोडाशिकी। पुरोडाशसहचरितो ग्रन्थः पुरोडाशः, तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिकः। पुरोडाशिकी। षकारो ङीषर्थः॥ Siddhanta Kaumudi ----------------- पुरोडाशसहचरितो मन्त्रः पुरोडाशः स एव पौरोडाशः । ततष्ठन् । पौरोडाशिकः ॥ Balamanorama ------------ **पौरोडाशपुरोडाशात् ष्ठन्** - पौरोडाश । 'उक्तविषये' इति शेषः । पुरोडाशेति । पुरोडाशशब्दसहितो मन्त्रो लक्षमया पुरोडाश इत्युच्यत इत्यर्थः । स एव पौरोडाश इति । प्रज्ञादित्वात्स्वार्थेऽणिति भावः । पौरोडाशिक इति । पौरोडाशात्ष्ठनि रूपम् । पुरोडाशिक इति । पुरोजाशशब्दात्ष्ठनि रूपम् । षित्त्वान्ङीष् । पौरोडाशिकी — पुरोडाशिकी । Tattvabodhini ------------- **पौरोडाशपुरोडाशात् ष्ठन्** - पौरोडाश । षित्त्वन्ङीष् । पौरोडाशिकी । पुरोडाशिकी । पुरो दाश्यते इतिपुरोडाषः॑ ।दाशृ दाने॑कर्मणि घञि इहैव निपातनाद्दस्य डत्वम् । Padamanjari ----------- पुरोडाशाः पिष्टपिण्डा इति ।'दाशृ दाने' कर्मणि घञ्, पुरो दाश्यन्ते दीयन्त इति पुरोडाशाः, पृषोदरादित्वात्समासः, दकारस्य च डकारः, एतेनैतदाह - आकृतिवचनः पुरोडाशशब्दः, न यूपाहवनीयादिवददृष्टनिमित इति । तेषां संस्कारको मन्त्र इति ।'मखस्य शिरो' सिऽ इत्येवमादिः । पुरोडाशसहचरितो मन्त्रः पुरोडाश इति । मन्त्र एव हि व्याख्यातव्यो न पुरोडाशः ॥ Nyaas ----- पुरोडाशस्येदमित्यन्तोदात्तः। तस्माद्बह्वचोऽन्तोदात्ताट्ठञि (4.3.67) प्राप्ते। पुरोडाशस्तु `लघावन्ते द्वयोश्च बह्वषो गुरुः` (फि।सू।2।42) इति मध्यादात्तः। अस्मादणि प्राप्ते ष्ठन् विधीयते। वकारो ङीषर्थः, नकार आद्युदात्तार्थः। तेषां संस्कारो मन्त्रः पौरोडाश इति। `पुरोडाशसहचरितःर` इति। सामर्थ्यात् साहचर्याद्वा पुरोडाशा येन मन्त्रण संस्क्रियन्ते पुरोडाशशब्दो वर्तते, न पुरोडाशेषु। कृत एतत्? व्याख्यातव्यनामग्रहणानुवृत्तेः। न हि पुरोडाशा व्याख्यातव्यतया प्रसिद्धतराः॥ Prakriyasarvasvam ----------------- पुरोडाशविधिवाक्यं पुरोडाशः । तत्संस्कारमन्त्राः पौरोडाशा इति माधवः । ताभ्यामुक्तार्थद्वये ष्ठन् स्यात् । षो ङीषर्थः । पौरोडाशिकः । पुरोडाशिकः ॥