43069: अध्यायेष्वेवर्षेः ======================== **Padacheda:** अध्यायेषु | S | 7 | 3 | एव | S | 0 | 0 | ऋषेः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ठञ् comes after the name of an explainable work called after a ऋषि in the senses of 'occurring therein' or 'commentary thereon' when it refers to an अध्याय only. Vasu English Translation ------------------------ The affix ठञ् comes after the name of an explainable work called after a ऋषि in the senses of 'occurring therein' or 'commentary thereon' when it refers to an अध्याय only. The word ऋषि is the name of प्रवर and those *Rishis* are only meant whose names are in the *Pravara* list. The word so formed means always an *Adhyaya* or Chapter of the work. The phrase व्याख्यातव्यनाम्नः is understood in this *sutra*, hence the word ऋषि means "a work the author of which is a *Rishi*". Thus वसिष्ठस्य व्याख्यानस्तत्र भवो वा = वासिष्ठिकोऽध्यायः "*Vasishthika*- a chapter containing commentary on *Vashishtha*". वैश्वामित्रिकः 'a chapter of commentary on *Visvamitra*'. Why do we say meaning 'chapter'? Observe वासिष्ठिकी ऋक् ॥ Kashika ------- ऋषिशब्दाः प्रवरनामधेयानि, तेभ्य ऋषिशब्देभ्यो भवव्याख्यानयोरर्थयोष्ठञ् प्रत्ययो भवति। अणोऽपवादः। अध्यायेष्वेव प्रत्ययार्थविशेषणेषु। व्याख्यातव्यनाम्न इत्यनुवर्तते, तत्साहचर्यादृषिशब्दैर्ग्रन्थ उच्यते। वसिष्ठस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः। वैश्वामित्रिकः। अध्यायेष्विति किम् ? वासिष्ठी ऋक्॥ Siddhanta Kaumudi ----------------- ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वा । वासिष्ठिकोऽध्यायः । अध्यायेषु किम् । वासिष्ठी ऋक् ॥ Balamanorama ------------ **अध्यायेष्वेवर्षेः** - अध्यायेष्वेवर्षेः । मन्त्रो वसिष्ठ इति । लक्षणयेति भावः । वासिष्ठिकोऽध्याय इति । कश्चिद्ग्रन्थविशेषोऽयम् । वासिष्ठी ऋगिति । ऋचोऽध्यायसमाख्याऽभावान्न ठञिति भावः । Tattvabodhini ------------- **अध्यायेष्वेवर्षेः** - अध्यायेष्वेवर्षेः । एवकारः स्पष्टप्रतिपत्त्यर्थः । वासिषठीति । भवार्थेऽण् । Padamanjari ----------- अषिशब्दाः प्रवरनामधेयानीति । होत्राध्वर्युणा च प्रव्रियन्त इति प्रवराः उ भृग्वादयः, तद्यथा भार्गवच्यावनाप्रवानौर्वजामदग्नेति होता, जमदग्निवदुर्ववदप्रवानवच्च्यवनवद्भृगुवदित्यध्वर्युः । एतेन यद्यपि मन्त्रदर्शिष्वृपिशब्दः प्रसिद्धः, तथापि प्रवराद्यायपठितानामे ग्रहणमिति दर्शयति । वसिष्ठस्य व्याख्यान इति । वसिष्ठेन दृष्टो मन्त्र उपचाराद् वसिष्ठ इत्युक्तः । वासिष्ठी ऋगिति भवार्थेऽण्, एवकारः सर्ववाक्यानां सावधारणत्वज्ञापनार्थः ॥ Prakriyasarvasvam ----------------- व्याख्येयग्रन्थपरादृषिनाम्न उक्तार्थयोरध्याये वाच्य एव ठञ् स्यात् । वसिष्ठोक्तग्रन्थस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः ॥