43068: क्रतुयज्ञेभ्यश्च¶
Padacheda: क्रतु-यज्ञेभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix ठञ् comes in the sense of ‘occurring’ and ‘a commentary’ after the name of a work to be explained provided that such work relates to a क्रतु or a यज्ञ।
Vasu English Translation¶
The affix ठञ् comes in the sense of ‘occurring’ and ‘a commentary’ after the name of a work to be explained provided that such work relates to a क्रतु or a यज्ञ। This debars अण् ॥ Kratu :- अग्निष्टोमिकः ‘a commentary on a work on Aginshtoma sacrifices? वाजपेयिकः, राजसूयिकः ॥ yajna:- पाकयज्ञिकः, नावयज्ञिकः ॥
This sutra refers to words which are not antodatta. The words ‘vajapeya’ and ‘rajasuya’ are acute in the middle.
The words क्रतु and यज्ञ mean generally the same thing i.e. ‘a sacrifice’, but the separate mention of यज्ञ implies that the rule applies to yajnas other than Soma-yajnas because the word ‘kratu’ is technically applied to Soma-, sacrifices only. Thus पाञ्चौदनिकः, दाशौदनिकः ॥
The sutra is in the plural to prevent the application of the affix to the word-forms ‘kratu’ and ‘yajna’ (1.1.68).
Bhashya¶
क्रतुयज्ञेभ्यश्च (1638) (ठञ्ञोऽधिकरणम्) (पदकृत्यभाष्यम्) क्रतुग्रहणं किमर्थम्? यज्ञेभ्य इतीयत्युच्यमाने य एव संज्ञीभूतका यज्ञास्तत एवोत्पत्तिः स्याद्। आग्निष्टोमिकः, राजसूयिकः, वाजपेयिकः। यत्र वा यज्ञशब्दोऽस्ति -नावयज्ञिकः, पाकयज्ञिकः। इह न स्यात् -पाञ्ञ्चौदनिकः, दाशौदनिकः, शातौदनिकः, साप्तौदनिकः। क्रतुग्रहणे पुनः क्रियमाणे न दोषो भवति॥ अथ यज्ञग्रहणं किमर्थम्? क्रतुभ्य इतीयत्युच्यमाने य एव संज्ञीभूतकाः क्रतवस्तत उत्पत्तिः स्यात्। अग्निष्टोमिकः, राजसूयिकः, वाजपेयिकः। इह न स्यात् -पाञ्ञ्चौदनिकः, शातौदनिकः, साप्तौदनिक इति। यज्ञग्रहणे पुनः क्रियमाणे न दोषो भवति॥
Kashika¶
क्रतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनामभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोष्ठञ् प्रत्ययो भवति। अणोऽपवादः। क्रतुभ्यस्तावत् — अग्निष्टोमस्य व्याख्यानस्तत्र भवः, आग्निष्टोमिकः। वाजपेयिकः। राजसूयिकः। यज्ञेभ्यः — पाकयज्ञिकः। नावयज्ञिकः। अनन्तोदात्तार्थ आरम्भः। क्रतुभ्य इत्येव सिद्धे यज्ञग्रहणमसोमयागेभ्योऽपि यथा स्यात्। पाञ्चौदनिकः। दाशौदनिकः। बहुवचनं स्वरूपविधिनिरासार्थम्॥
Siddhanta Kaumudi¶
सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अग्निष्टोमस्य व्याख्यानस्तत्र भवो वा आग्निष्टोमिकः । वाजपेयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । अन्तोदात्तार्थ आरम्भः ॥
Balamanorama¶
क्रतुयज्ञेभ्यश्च - क्रतुयज्ञेभ्यश्च । सोमेति । सोमलताद्रव्यकयोगेषु क्रतुशब्दो यज्ञशब्दश्च प्रसिद्ध इत्यर्थः । तह्र्रन्तरग्रहणं व्यर्थं, बहुवचनेन स्वरूपग्रहणनिवृत्तेरित्यत आह — तत्रेति । गृह्रन्त इति । ततश्च इह क्रतुशब्देन सोमयागाः, यज्ञशब्देन तदितरयागा विवक्षिता इति भावः । एवंच सोमयागविशेषवाचिभ्यस्तदितरयागविशेषवाचिभ्यश्च उक्तविषये ठछञित्यर्थः । पाकयाज्ञिक इति । औपासनाग्निसाध्याः पार्वणस्थालीपाकादयः — पाकयज्ञाः । तेषां व्याख्यानो ग्रन्थः, तेषु भव इति वार्थः । नावयज्ञिक इति । नूतनद्रव्यक आग्रयणाख्यो यज्ञो नवयज्ञः । ननु पूर्वसूत्रेम सिद्धे किमर्थमिदमित्यत आह — अन्तोदात्तार्थ इति । वाचपेयशब्दो मध्योदात्तस्तैत्तिरीयादौ प्रसिद्धः । यद्यपि अग्निष्टोमशब्दोऽन्तोदात्त एव तैत्तिरीये दृष्टः । नवयज्ञशब्दोऽपि षष्ठीसमासः समासस्वरेणान्तोदात्त एव, तथापि अन्यार्थमिदमन्तोदात्तेष्वपि परत्वात् प्रवर्तत इति न दोषः ।
Tattvabodhini¶
क्रतुयज्ञेभ्यश्च - क्रतुयज्ञेभ्यश्च । अग्निष्टोमस्य व्याख्यान इति । अग्निष्टोमाद्यर्थेषु मन्त्रब्राआह्मणकल्पेषु वर्तमाना अग्निष्टोमादिशब्दा इहोदाहरणं, ग्रन्थनामेव व्याख्येयताया उक्तत्वादित्याहुः । स्तुतिः -स्तोमः । अग्नेः स्तोमोऽस्मिन्निति बहुव्राहिः ।परादिश्च परान्तश्चे॑त्यन्तोदात्तोऽयम् । पीयतेऽस्मिन्निति पेयः ।कृत्यल्युटो बहुल॑मित्यधिकरणे यत् । वाजो नाम यवागूभेदस्तस्य पेयो वाजपेयः । अयं हि कृदत्तरपदप्रकृतिस्वरेण मध्योदात्तः । पेयशब्दस्ययतो नावः॑इत्युदात्तत्वात् । राज्ञा क्षत्रियेण सूयते, राजा सोमः सूयते अत्रेति वा राजसूयः ।राजसूयसूर्ये॑ति क्यप् । तत एव निपातनात्समासः, षष्ठीसमासे वा । अयमप्युत्तरपदप्रकृतिस्वरेण मध्योदात्त एव । धातुस्वरेण सूयशब्दस्याद्युदात्तत् । असोमकेभ्य उदाहरति — पाकेति । अल्पपर्यायः -पाकशब्दः । पाकश्चासौ यज्ञश्चेति कर्मधारयः । स च समासस्वरेणान्तोदात्तः । नवैव्र्रीहिभिर्यजनं नवयज्ञः — — आग्रयणम् ।यजयाचविच्छे॑ति नङ् ।कर्तृकरणे कृते॑ति समासः । कृदुत्तरपदप्रकृतिस्वरेणाऽन्तोदात्तः । अनन्तोदात्तार्थ इति । वाजपेयराजसूयार्थतया अस्मिन्नारब्धे सत्यन्तोदात्तादपि यज्ञाभिधायिनः परत्वादनेनैव भाव्यमित्याग्निश्टोमिक इत्याद्युदाहृतमिति भावः ।
Padamanjari¶
अग्निष्टोमाद्यर्थेषु मन्त्रब्रह्मणकल्पेषु वर्तमाना अग्निष्टोमादिशब्दा इहोदाहरणम् । अनन्तोदातार्थ आरम्भ इति । तत्र राजसूय - वाजपेयशब्दौ कृदुतरपदप्रकृतिस्वरेण मध्योदातौ, राजा सूयते, राज्ञा वेह सूयते, वयप्; तत एव निपातनात्समासः, षष्ठीसमासो वा । पीयतेऽस्मिन्निति पेयः’कृत्यल्युटो बहुलम्’ इत्यधिकरणे यत्; वाजो यवागूभेदः, तस्य पेयः पायो वाजपेय इति । स्तुतिःउस्तोमः, अग्नेस्तोमोऽस्मिन्निति बहुव्रीहिः,’परादिश्च परान्तश्च’ इत्यन्तोदातः । नवैर्व्रीहिभिर्यजनं नवयज्ञःउ आग्रयणम्,’कर्तृकरणे कृता बहुलम्’ इति समासः,’कृदुतरपदप्रकृतिभावेन नङ् एव स्वरो’ वतिष्ठतेऽ इत्यन्तोदातः । अल्प पर्यायः पाकशब्दः, पाकश्चासौ यज्ञश्च पाकयज्ञः, समासस्वरेणान्तोदातः । सत्यन्यार्थ एतस्यारम्भे, अन्तोदातादपि यज्ञाभिधायिनः परत्वादनेनैव ठञ्प्रत्ययो युक्त इत्यन्तोदातानामुपन्यासः । क्रतुभ्य इत्येव सिद्ध इति । क्रतुयज्ञयोः पर्यायत्वादिति भावः । असोमयागेभ्योऽपीति । अन्यथा क्रतुशब्दस्य सोमयागे रूढत्वादन्यत्र न स्यात्, यज्ञग्रहणातु तेभ्योऽपि भवति । एवं केवलयज्ञग्रहणेऽपि स एव दोषो यः केवलकतुग्रहणे, तस्माद् गौणमुख्यपरिग्रहार्थमुभयोरुपादानम् ॥
Nyaas¶
अनन्तोदात्तार्थ आरम्भः इति। यद्येवम्, राजसूयिकम्, वाजपेयिकमित्येतदेवोपदाहरणद्वयं युक्तम्। राजसूयवाजपेयशब्दयोः कृदन्तोत्तरपदयोः प्रकृतिस्वरेण मध्योदात्तत्वादुत्तरपदं चाद्युदात्तमत्र। एकं व्याबन्तत्वात् कृत्स्वरेण, अपरं यतोऽनाचः (6.1.207) इति। समासे च कृते गतिकारकोपपदात् कृत् (6.2.139) इति प्रकृतिभावेनाद्युदात्तमेवनावतिष्ठते; {आग्निष्टोमिकः, नावयज्ञिकः -काशिका} आग्निष्टोमिकं नावयज्ञिकम् इति। एतदुदादहरणद्वयमयुक्तम्, अग्निष्टोमनवयज्ञशब्दाभ्यां प्रत्ययस्वरेणान्तोदात्ताभ्यामनेनाप्राप्तेः? न हि पूर्वेणानेन वा ठञि विशेषः। क्रतुसाहचर्यादत्रोदाहृतम्। शब्दः साहचर्याद्वर्तत इति विज्ञायते॥
Prakriyasarvasvam¶
ठञ् स्यात् । अग्निष्टोमार्थकल्पादीनां व्याख्यानस्तत्रभवो वा आग्निष्टोमिकः । यज्ञात्तु—पाक्यज्ञिकः । क्रतवः सोमयागाः । अन्ये यज्ञाः ॥