43068: क्रतुयज्ञेभ्यश्च ======================= **Padacheda:** क्रतु-यज्ञेभ्यः | S | 5 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ठञ् comes in the sense of 'occurring' and 'a commentary' after the name of a work to be explained provided that such work relates to a क्रतु or a यज्ञ। Vasu English Translation ------------------------ The affix ठञ् comes in the sense of 'occurring' and 'a commentary' after the name of a work to be explained provided that such work relates to a क्रतु or a यज्ञ। This debars अण् ॥ *Kratu* :- अग्निष्टोमिकः 'a commentary on a work on *Aginshtoma* sacrifices? वाजपेयिकः, राजसूयिकः ॥ *yajna*:- पाकयज्ञिकः, नावयज्ञिकः ॥ This *sutra* refers to words which are not *antodatta*. The words '*vajapeya*' and '*rajasuya*' are acute in the middle. The words क्रतु and यज्ञ mean generally the same thing i.e. 'a sacrifice', but the separate mention of यज्ञ implies that the rule applies to *yajnas* other than *Soma*-*yajnas* because the word '*kratu*' is technically applied to *Soma*-, sacrifices only. Thus पाञ्चौदनिकः, दाशौदनिकः ॥ The *sutra* is in the plural to prevent the application of the affix to the word-forms '*kratu*' and '*yajna*' (1.1.68). Bhashya ------- क्रतुयज्ञेभ्यश्च (1638) (ठञ्ञोऽधिकरणम्) (पदकृत्यभाष्यम्) क्रतुग्रहणं किमर्थम्? यज्ञेभ्य इतीयत्युच्यमाने य एव संज्ञीभूतका यज्ञास्तत एवोत्पत्तिः स्याद्। आग्निष्टोमिकः, राजसूयिकः, वाजपेयिकः। यत्र वा यज्ञशब्दोऽस्ति -नावयज्ञिकः, पाकयज्ञिकः। इह न स्यात् -पाञ्ञ्चौदनिकः, दाशौदनिकः, शातौदनिकः, साप्तौदनिकः। क्रतुग्रहणे पुनः क्रियमाणे न दोषो भवति॥ अथ यज्ञग्रहणं किमर्थम्? क्रतुभ्य इतीयत्युच्यमाने य एव संज्ञीभूतकाः क्रतवस्तत उत्पत्तिः स्यात्। अग्निष्टोमिकः, राजसूयिकः, वाजपेयिकः। इह न स्यात् -पाञ्ञ्चौदनिकः, शातौदनिकः, साप्तौदनिक इति। यज्ञग्रहणे पुनः क्रियमाणे न दोषो भवति॥ Kashika ------- क्रतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनामभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोष्ठञ् प्रत्ययो भवति। अणोऽपवादः। क्रतुभ्यस्तावत् — अग्निष्टोमस्य व्याख्यानस्तत्र भवः, आग्निष्टोमिकः। वाजपेयिकः। राजसूयिकः। यज्ञेभ्यः — पाकयज्ञिकः। नावयज्ञिकः। अनन्तोदात्तार्थ आरम्भः। क्रतुभ्य इत्येव सिद्धे यज्ञग्रहणमसोमयागेभ्योऽपि यथा स्यात्। पाञ्चौदनिकः। दाशौदनिकः। बहुवचनं स्वरूपविधिनिरासार्थम्॥ Siddhanta Kaumudi ----------------- सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अग्निष्टोमस्य व्याख्यानस्तत्र भवो वा आग्निष्टोमिकः । वाजपेयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । अन्तोदात्तार्थ आरम्भः ॥ Balamanorama ------------ **क्रतुयज्ञेभ्यश्च** - क्रतुयज्ञेभ्यश्च । सोमेति । सोमलताद्रव्यकयोगेषु क्रतुशब्दो यज्ञशब्दश्च प्रसिद्ध इत्यर्थः । तह्र्रन्तरग्रहणं व्यर्थं, बहुवचनेन स्वरूपग्रहणनिवृत्तेरित्यत आह — तत्रेति । गृह्रन्त इति । ततश्च इह क्रतुशब्देन सोमयागाः, यज्ञशब्देन तदितरयागा विवक्षिता इति भावः । एवंच सोमयागविशेषवाचिभ्यस्तदितरयागविशेषवाचिभ्यश्च उक्तविषये ठछञित्यर्थः । पाकयाज्ञिक इति । औपासनाग्निसाध्याः पार्वणस्थालीपाकादयः — पाकयज्ञाः । तेषां व्याख्यानो ग्रन्थः, तेषु भव इति वार्थः । नावयज्ञिक इति । नूतनद्रव्यक आग्रयणाख्यो यज्ञो नवयज्ञः । ननु पूर्वसूत्रेम सिद्धे किमर्थमिदमित्यत आह — अन्तोदात्तार्थ इति । वाचपेयशब्दो मध्योदात्तस्तैत्तिरीयादौ प्रसिद्धः । यद्यपि अग्निष्टोमशब्दोऽन्तोदात्त एव तैत्तिरीये दृष्टः । नवयज्ञशब्दोऽपि षष्ठीसमासः समासस्वरेणान्तोदात्त एव, तथापि अन्यार्थमिदमन्तोदात्तेष्वपि परत्वात् प्रवर्तत इति न दोषः । Tattvabodhini ------------- **क्रतुयज्ञेभ्यश्च** - क्रतुयज्ञेभ्यश्च । अग्निष्टोमस्य व्याख्यान इति । अग्निष्टोमाद्यर्थेषु मन्त्रब्राआह्मणकल्पेषु वर्तमाना अग्निष्टोमादिशब्दा इहोदाहरणं, ग्रन्थनामेव व्याख्येयताया उक्तत्वादित्याहुः । स्तुतिः -स्तोमः । अग्नेः स्तोमोऽस्मिन्निति बहुव्राहिः ।परादिश्च परान्तश्चे॑त्यन्तोदात्तोऽयम् । पीयतेऽस्मिन्निति पेयः ।कृत्यल्युटो बहुल॑मित्यधिकरणे यत् । वाजो नाम यवागूभेदस्तस्य पेयो वाजपेयः । अयं हि कृदत्तरपदप्रकृतिस्वरेण मध्योदात्तः । पेयशब्दस्ययतो नावः॑इत्युदात्तत्वात् । राज्ञा क्षत्रियेण सूयते, राजा सोमः सूयते अत्रेति वा राजसूयः ।राजसूयसूर्ये॑ति क्यप् । तत एव निपातनात्समासः, षष्ठीसमासे वा । अयमप्युत्तरपदप्रकृतिस्वरेण मध्योदात्त एव । धातुस्वरेण सूयशब्दस्याद्युदात्तत् । असोमकेभ्य उदाहरति — पाकेति । अल्पपर्यायः -पाकशब्दः । पाकश्चासौ यज्ञश्चेति कर्मधारयः । स च समासस्वरेणान्तोदात्तः । नवैव्र्रीहिभिर्यजनं नवयज्ञः — — आग्रयणम् ।यजयाचविच्छे॑ति नङ् ।कर्तृकरणे कृते॑ति समासः । कृदुत्तरपदप्रकृतिस्वरेणाऽन्तोदात्तः । अनन्तोदात्तार्थ इति । वाजपेयराजसूयार्थतया अस्मिन्नारब्धे सत्यन्तोदात्तादपि यज्ञाभिधायिनः परत्वादनेनैव भाव्यमित्याग्निश्टोमिक इत्याद्युदाहृतमिति भावः । Padamanjari ----------- अग्निष्टोमाद्यर्थेषु मन्त्रब्रह्मणकल्पेषु वर्तमाना अग्निष्टोमादिशब्दा इहोदाहरणम् । अनन्तोदातार्थ आरम्भ इति । तत्र राजसूय - वाजपेयशब्दौ कृदुतरपदप्रकृतिस्वरेण मध्योदातौ, राजा सूयते, राज्ञा वेह सूयते, वयप्; तत एव निपातनात्समासः, षष्ठीसमासो वा । पीयतेऽस्मिन्निति पेयः'कृत्यल्युटो बहुलम्' इत्यधिकरणे यत्; वाजो यवागूभेदः, तस्य पेयः पायो वाजपेय इति । स्तुतिःउस्तोमः, अग्नेस्तोमोऽस्मिन्निति बहुव्रीहिः,'परादिश्च परान्तश्च' इत्यन्तोदातः । नवैर्व्रीहिभिर्यजनं नवयज्ञःउ आग्रयणम्,'कर्तृकरणे कृता बहुलम्' इति समासः,'कृदुतरपदप्रकृतिभावेन नङ् एव स्वरो' वतिष्ठतेऽ इत्यन्तोदातः । अल्प पर्यायः पाकशब्दः, पाकश्चासौ यज्ञश्च पाकयज्ञः, समासस्वरेणान्तोदातः । सत्यन्यार्थ एतस्यारम्भे, अन्तोदातादपि यज्ञाभिधायिनः परत्वादनेनैव ठञ्प्रत्ययो युक्त इत्यन्तोदातानामुपन्यासः । क्रतुभ्य इत्येव सिद्ध इति । क्रतुयज्ञयोः पर्यायत्वादिति भावः । असोमयागेभ्योऽपीति । अन्यथा क्रतुशब्दस्य सोमयागे रूढत्वादन्यत्र न स्यात्, यज्ञग्रहणातु तेभ्योऽपि भवति । एवं केवलयज्ञग्रहणेऽपि स एव दोषो यः केवलकतुग्रहणे, तस्माद् गौणमुख्यपरिग्रहार्थमुभयोरुपादानम् ॥ Nyaas ----- `अनन्तोदात्तार्थ आरम्भः` इति। यद्येवम्, राजसूयिकम्, वाजपेयिकमित्येतदेवोपदाहरणद्वयं युक्तम्। राजसूयवाजपेयशब्दयोः कृदन्तोत्तरपदयोः प्रकृतिस्वरेण मध्योदात्तत्वादुत्तरपदं चाद्युदात्तमत्र। एकं व्याबन्तत्वात् कृत्स्वरेण, अपरं `यतोऽनाचः` (6.1.207) इति। समासे च कृते **गतिकारकोपपदात् कृत्** (6.2.139) इति प्रकृतिभावेनाद्युदात्तमेवनावतिष्ठते; `{आग्निष्टोमिकः, नावयज्ञिकः -काशिका} आग्निष्टोमिकं नावयज्ञिकम्` इति। एतदुदादहरणद्वयमयुक्तम्, अग्निष्टोमनवयज्ञशब्दाभ्यां प्रत्ययस्वरेणान्तोदात्ताभ्यामनेनाप्राप्तेः? न हि पूर्वेणानेन वा ठञि विशेषः। क्रतुसाहचर्यादत्रोदाहृतम्। शब्दः साहचर्याद्वर्तत इति विज्ञायते॥ Prakriyasarvasvam ----------------- ठञ् स्यात् । अग्निष्टोमार्थकल्पादीनां व्याख्यानस्तत्रभवो वा आग्निष्टोमिकः । यज्ञात्तु—पाक्यज्ञिकः । क्रतवः सोमयागाः । अन्ये यज्ञाः ॥