43067: बह्वचोऽन्तोदात्ताट्ठञ्

Padacheda: बहु-अचः | S | 5 | 1 |

अन्तोदात्तात् | S | 5 | 1 |

ठञ् | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix ठञ् comes in the sense of ‘staying’ and ‘a commentary’ after a polysyllabic word having उदात्त on the final (the word being the name of a thing to be explained).

Vasu English Translation

The affix ठञ् comes in the sense of ‘staying’ and ‘a commentary’ after a polysyllabic word having उदात्त on the final (the word being the name of a thing to be explained). This debars अण् ॥ Thus षात्वणत्विकम् ‘a commentary of the rules of changes of स and न into ष and ण’ ॥ नातानतिकम् ‘a commentary on (अनत) udatta and anudatta (नत)’ ॥ The radicals षत्वणत्व and नतानत are acutely accented on the final by the rule of a compound having accent on the final (6.1.169)

Why do we say बह्वचः ‘polysyllabic’? Observe सौपम्, तैङम् &c. A word of two syllables will take ठक् (4.3.72). So the counter example must be of words of one syllable.

Why do we say ‘having acute accent on the final’? Observe सांहितम् from संहिता ॥ This word has acute accent on the initial by the rule of Gati-accent (6.2.49)

Kashika

बह्वचो व्याख्यातव्यनाम्नः प्रातिपदिकादन्तोदात्ताद् भवव्याख्यानयोष्ठञ् प्रत्ययो भवति। अणोऽपवादः। षात्वणत्विकम्। नातानतिकम्। समासस्वरेणान्तोदात्ताः प्रकृतयः। बह्वच इति किम् ? द्व्यचष्ठकं (४.३.७२) वक्ष्यति। एकाच् प्रत्युदाह्रियते। सौपम्। तैङम्। कार्तम्। अन्तोदात्तादिति किम्? संहितायाः सांहितम्। संहिताशब्दो हि गतिस्वरेणाद्युदात्तः॥

Siddhanta Kaumudi

षत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा षात्वणत्विकः ॥

Balamanorama

बह्वचोऽन्तोदात्ताट्ठञ् - बह्वचोऽन्तोदात्ताट्ठञ् । अन्तोदात्ताद्बह्वच उक्तविषये ठञ्स्यात् । अणोऽपवादः ।

Tattvabodhini

बह्वचोऽन्तोदात्ताट्ठञ् - बह्वचो । अणोऽपवादः । बह्वचः किम् । व्द्यचष्ठकं वक्ष्यतीत्येकाच्प्रत्युदाहार्यः । सौपम् । तैङम् । अन्तोदात्तात्किम् । संहितायाः संहितम् ।गतिरनन्तरः॑इत्याद्युदात्तोऽयम् । अन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम् । उदात्तादित्युक्तेऽपि वर्णग्रहणे तदन्तग्रहणात्,वर्णादनुदात्ता॑दित्यत्र यथा ।

Padamanjari

अमोऽपवाद इति । वृद्धाच्छ्ंअ तु परत्वाद्वाधते । सामस्तं नाम शास्त्रं तस्य व्याख्यानं सामस्तिकम् । षत्वादिविधायकं शास्त्रं षत्वादिशब्देनोच्यते । नतः उ अनुदातः, अनतः उ उदातः । अन्तोदाताः प्रकृतय इति । उदाहृतयोर्द्वित्वेऽप्येवञ्जातीयापरप्रकृत्यपेक्षं बहुवचनम्, ताश्च कुत्वरुत्वादयः । गतिस्वरेणेति ।’गतिरनन्तरः’ इत्यनेन । उदात इति वर्णग्रहणम्, तेन सिद्धस्तदन्तविधिः, यथा’वरादनुदताद्’ इत्यत्र । तस्मादन्तग्रहणं विस्पष्टार्थम् ॥

Prakriyasarvasvam

षत्वणत्वयोर्व्याख्यानो ग्रन्थः षात्वणत्विकः । तत्र भवं चैवम् ॥