43057: ग्रीवाभ्योऽण् च

Padacheda: ग्रीवाभ्यः | S | 5 | 3 |

अण् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix अण् also (as well as ढञ् ) comes after the word ग्रीवा in the sense of ‘what stays there’.

Vasu English Translation

The affix अण् also (as well as ढञ् ) comes after the word ग्रीवा in the sense of ‘what stays there’. This debars यत् (4.3.55) ग्रीवासु भवं = ग्रवेयम् or ग्रैवम् ॥ The word ग्रीवा means blood-vessels, and as they are many, the word is used in the plural in the sutra.

Kashika

ग्रीवाशब्दादण् प्रत्ययो भवति, चकाराड् ढञ् च, तत्र भव इत्येतस्मिन् विषये। शरीरावयवाद् यतोऽपवादः। ग्रीवासु भवं ग्रैवम् , ग्रैवेयम्। ग्रीवाशब्दो धमनीवचनः, तासां बहुत्वाद् बहुवचनं कृतम्॥

Siddhanta Kaumudi

चात् ढञ् । ग्रैवेयम् । ग्रैवम् ॥

Balamanorama

ग्रीवाभ्योऽण् च - ग्रीवाभ्योऽण् च ।शरीरावयवाच्चे॑ति यतोऽपवादः । ग्रीवाशब्दोऽयं धमनीसङ्गे वर्तते । तत्र उद्भूतावयवभेदसङ्गविवक्षायां बहुवचनान्तात्प्रत्यय इति सूचयितुं बहुवचनम् । तिरोहितावयवभेदविवक्षायां तु एकवचनान्तादप्यण्ढञौ स्त एव ।

Tattvabodhini

ग्रीवाभ्योऽण् च - ग्रीवाभ्योऽण् च ।शरीरावयवाच्चे॑ति यतोऽपवादः । ग्रीवाशब्दो धमनीसङ्घाते वर्तते । तत्र उद्भूतावयवसङ्घातविवक्षया सूत्रे बहुवचनम् । तिरोहितावयवसङ्घातविवक्षायां त्वेकवचनान्तादप्यण्ढञौ स्त एव । ग्रैवेयमित्यादि । ग्रीवासु भवं, ग्रीवायामिति वा विग्रहः ।

Padamanjari

धमनीवचन इति । धमनीसङ्घातवचन इत्यर्थः । स च यदोद्भूतावयवभेदे सङ्घाते वर्तते तदा बहुवचनम्, यदा तु तिरोहितावयवभेदे सङ्घाते वर्तते तदैकवचनान्तः प्रयोगः ॥

Nyaas

बहुवचननिर्देशाद्बहुवचनान्तात् प्रत्ययेन भवितव्यम्, अन्यथा ह्रेकवचेनैव निर्देशं कुर्यादिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह - ग्रीवाशब्दःर इत्यादि। अर्थविशेषाद्बहुवचननिर्देशः कुतः, न तु बहुवचनान्तादेव यथा स्यादिति दर्शयति॥

Prakriyasarvasvam

ग्रीवाशब्दादण् च ढञ् च । ग्रैवं । ग्रैवेयम् ॥

Sutra Prayogas

  • ग्रैवं (रघुवंशम्): ग्रीवाभ्योऽण्च इत्यण्प्रत्ययः।

  • ग्रैवेय (रघुवंशम्): ग्रीवाभ्योऽण्च इति चकाराड्ढतञ्प्रत्ययः।