43057: ग्रीवाभ्योऽण् च ====================== **Padacheda:** ग्रीवाभ्यः | S | 5 | 3 | अण् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अण् also (as well as ढञ् ) comes after the word ग्रीवा in the sense of 'what stays there'. Vasu English Translation ------------------------ The affix अण् also (as well as ढञ् ) comes after the word ग्रीवा in the sense of 'what stays there'. This debars यत् (4.3.55) ग्रीवासु भवं = ग्रवेयम् or ग्रैवम् ॥ The word ग्रीवा means blood-vessels, and as they are many, the word is used in the plural in the *sutra*. Kashika ------- ग्रीवाशब्दादण् प्रत्ययो भवति, चकाराड् ढञ् च, तत्र भव इत्येतस्मिन् विषये। शरीरावयवाद् यतोऽपवादः। ग्रीवासु भवं ग्रैवम् , ग्रैवेयम्। ग्रीवाशब्दो धमनीवचनः, तासां बहुत्वाद् बहुवचनं कृतम्॥ Siddhanta Kaumudi ----------------- चात् ढञ् । ग्रैवेयम् । ग्रैवम् ॥ Balamanorama ------------ **ग्रीवाभ्योऽण् च** - ग्रीवाभ्योऽण् च ।शरीरावयवाच्चे॑ति यतोऽपवादः । ग्रीवाशब्दोऽयं धमनीसङ्गे वर्तते । तत्र उद्भूतावयवभेदसङ्गविवक्षायां बहुवचनान्तात्प्रत्यय इति सूचयितुं बहुवचनम् । तिरोहितावयवभेदविवक्षायां तु एकवचनान्तादप्यण्ढञौ स्त एव । Tattvabodhini ------------- **ग्रीवाभ्योऽण् च** - ग्रीवाभ्योऽण् च ।शरीरावयवाच्चे॑ति यतोऽपवादः । ग्रीवाशब्दो धमनीसङ्घाते वर्तते । तत्र उद्भूतावयवसङ्घातविवक्षया सूत्रे बहुवचनम् । तिरोहितावयवसङ्घातविवक्षायां त्वेकवचनान्तादप्यण्ढञौ स्त एव । ग्रैवेयमित्यादि । ग्रीवासु भवं, ग्रीवायामिति वा विग्रहः । Padamanjari ----------- धमनीवचन इति । धमनीसङ्घातवचन इत्यर्थः । स च यदोद्भूतावयवभेदे सङ्घाते वर्तते तदा बहुवचनम्, यदा तु तिरोहितावयवभेदे सङ्घाते वर्तते तदैकवचनान्तः प्रयोगः ॥ Nyaas ----- बहुवचननिर्देशाद्बहुवचनान्तात् प्रत्ययेन भवितव्यम्, अन्यथा ह्रेकवचेनैव निर्देशं कुर्यादिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह - `ग्रीवाशब्दःर` इत्यादि। अर्थविशेषाद्बहुवचननिर्देशः कुतः, न तु बहुवचनान्तादेव यथा स्यादिति दर्शयति॥ Prakriyasarvasvam ----------------- ग्रीवाशब्दादण् च ढञ् च । ग्रैवं । ग्रैवेयम् ॥ Sutra Prayogas -------------- * **ग्रैवं** (रघुवंशम्): `ग्रीवाभ्योऽण्च` इत्यण्प्रत्ययः। * **ग्रैवेय** (रघुवंशम्): `ग्रीवाभ्योऽण्च` इति चकाराड्ढतञ्प्रत्ययः।