43058: गम्भीराञ्ञ्यः

Padacheda: गम्भीरात् | S | 5 | 1 |

ञ्यः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ञ्य comes in the sense of ‘who stays there’ after the word गम्भीर।

Vasu English Translation

The affix ञ्य comes in the sense of ‘who stays there’ after the word गम्भीर। This debars अण् ॥ गम्भीरे भवं = गाम्भीर्यम् ‘gravity’.

Vart:- So also after बहिः, देव and पंचजन. As बाह्यम्, दैव्यम् and पांचजन्यम् ॥ The final of बहिस् is elided by the vartika under (4.1.85). The word ‘daivya’ could be also formed under another Vartika of the same.

Vart:- The affix nya comes after chaturmasa in the sense of a sacrifice; as चातुर्मास्यानि व्रतानि, चातुर्मास्यो यज्ञः, otherwise चातुर्मासः ॥

Bhashya

गम्भीराञ्ञ्ञ्ञ्यः (1628) (तत्रभवाधिकरणे ञ्ञ्यप्रत्ययः)

Kashika

गम्भीरशब्दाद् ञ्यः प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणोऽपवादः। गम्भीरे भवं गाम्भीर्यम्॥ बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्॥ बाह्यम्। दैव्यम्। पाञ्चजन्यम्॥

Siddhanta Kaumudi

गम्भीरे भवं गाम्भीर्यम् ॥<!पञ्चजनादुपसंख्यानम् !> (वार्तिकम्) ॥ पाञ्चजन्यः ॥

Balamanorama

गम्भीराञ्ञ्यः - गम्भीराञ्ञ्यः । गाम्भीर्यमिति । यञ्विधौ तु स्त्रियांप्राचां ष्फः तद्धितः॑ इति ष्फः स्यात् ।

Tattvabodhini

गम्भीराञ्ञ्यः - गम्भीराञ्ञ्यः । पञ्तजनादुपसङ्ख्यानम् । पाञ्चजन्यम् ।

Padamanjari

बदिर्देअवपञ्चजनेभ्यश्चेति वक्तव्यमिति ।’प्राग्दीव्यतः’ इत्यत्रोक्तम् -‘देवस्य यञञौ, बहिषष्टिलोपश्च’ इति । तच्चावश्यं वक्तव्यम् - अर्थान्तरेष्वपि यथा स्यादिति । तस्यैव प्रपञ्चार्थम्, इह तु बहिर्देअवयोर्ग्रहणम् ॥

Nyaas

बहिर्देव इत्यादि। बहुर्देवपञ्चजनेभ्यश्च ञ्यो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - चकारोऽत्र वर्तते, तेन बहिरादिभ्योऽपि ञ्यो भविष्यतीति॥

Prakriyasarvasvam

गम्भीरे भवं गाम्भीर्यम् । ‘पञ्चजनाच्च वाच्यम्’ (वा०) । तस्मिन्नसुरे भवः पाञ्चजन्यः शङ्खः । ‘चतुर्मासाद् यज्ञे ण्यौ वाच्यः’ (वा०) । चतुर्मासे भवश्चातुर्मास्यो यज्ञः । ‘संज्ञायामण् वाच्यः’ (वा०) । चातुर्मासीति तिस्रः पौर्णमास्य उच्यन्ते ॥

Vartika

बहिर्देवपञ्चजनेभ्यश्च ।