43056: दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्

Padacheda: दृति-कुक्षि-कलशि-वस्ति-अस्ति-अहेः | S | 5 | 1 |

ढञ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ढञ् comes in the sense of ‘what stays there’ after the words 1. दृति 2. कुक्षि 3. कलशि 4. वस्ति 5. अस्ति and 6. अहि।

Vasu English Translation

The affix ढञ् comes in the sense of ‘what stays there’ after the words 1. दृति 2. कुक्षि 3. कलशि 4. वस्ति 5. अस्ति and 6. अहि। Thus दार्तेयम् ‘what stays in a leathern bag’, कौक्षेयम्, कालशेयम्, वास्तेयम्, आस्तेयम् and आहेयम् ॥ आहेयम् is the name of a poison. The word अस्ति is a noun and not a verb here. Its use as a Noun is to be seen in phrases like अस्तिक्षीरा गौः, अस्तिमान् = धनवान् ॥

Kashika

दृत्यादिभ्यः प्रातिपदिकेभ्यो ढञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। दृतौ भवं दार्तेयम्। कौक्षेयम्। कालशेयम्। वास्तेयम्। आस्तेयम्। आहेयमजरं विषम्। अस्तिशब्दः प्रातिपदिकम्, न तिङन्तः॥

Siddhanta Kaumudi

दार्तेयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम् । बास्तेयम् । आस्तेयम् । आहेयम् ॥

Balamanorama

दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् - दृतिकुक्षि । भव इत्यर्थे दृति, कुक्षि, कलशि, वस्ति, अस्ति, अहि — इत्येभ्यः । ‘सप्तम्यन्तेभ्यः’ इति शेषः । दार्तेयमिति । दृतौ भवमित्यर्थः । ढञ्, एयः, आदिवृद्धिः, रपरत्वम् । दृतिश्चर्मभस्त्रिका । कौक्षेयमिति । दूमादित्वाद्वुञि प्राप्ते ठञ् । कलिशिर्घटः ।कलशिर्मथनपात्र॑मित्यमरव्याख्यातारः ।वस्तिर्नाभेरधो द्वयो॑रित्यमरः । तत्र भवो बास्तेयः । अस्तीति विभक्तिप्रतिरूपककमव्ययम् सत्तायां घने चेति न्यासकारो हरदत्तश्च । तत्र भव आस्तेयः । अहिः-सर्पः, तत्रभवः-आहेयः ।

Tattvabodhini

दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् - दृतिकुक्षि । दृतिश्चर्मकारः, शरीरावयवविशेषश्च । कुक्षिशब्दो धूमादिस्ततोधूमादिभ्यश्चे॑ति वुञि प्राप्तेऽनेन ढञ् । कलशिः — मन्थापात्रं ।॒कलशिमुदधिगुर्वी बल्लवा लोडयन्ति॑इति माघः ।बस्तिर्नाभेरधो द्वयोः॑इत्यमरः । तत्र भवं वास्तेयम् ।अस्ती॑ति तिङन्तप्रतिरूपको निपातः । स च तिङन्तेन समानार्थो भिन्नर्थश्च । आद्यो यथा -अस्तिक्षीरा गौः । द्वितीयो यथा, — अस्तिमान् । धनवानित्यर्थः । तदिहाऽविशेषादुभयोरपि ग्रहणमास्थेयमिति हरदत्तः । अहौ भवमाहेयम् ।॒त्रिष्वाहेयं विषास्थ्यादी॑त्यमरः ।

Padamanjari

दृतिश्चर्मविकारः, शरीरावयवश्च । कुक्षिशब्दो धूमादिः, वस्तिर्नाभेरधः शरीरावयवः । आहेयम् विषादि । अस्तिशब्दः प्रातिपदिकमिति । विभक्तिप्रतिरूपं निपातसंज्ञकम्, तच्च तिङ्न्तेन समानार्थम् - अस्तिक्षीरा गौरिति, धनवचनं च अस्तिमानिति ॥

Nyaas

दृतिकुक्षिभ्यां शरीरावयत्वाद्यति प्राप्ते;कुक्षिशब्दो धूमादष्वपि पठते, तस्मात् धूमादिभ्यश्च (4.2.127) इति वुञि प्राप्ते; शेषेभ्यस्त्वणि ढञि विधीयते।अस्तिशब्दस्तिङन्तो मा विज्ञायीत्यत आह - अस्तिशब्दः इत्यादि। विभक्तिस्वरप्रतिरूपकाश्चेति निपाता भवन्ति इति निपातसंज्ञकं तिङन्तसदृशं प्रातिपदिकमेतत्, न तिङन्तः। एतच्च तिङन्तेन समानार्थम्, यथा - अस्तिक्षीरा ब्राआहृणीति। भिन्नार्थश्च यथा धने वर्तते, यथा - अस्तिमानिति। धनवानिति गम्यते। तदिह विशेषस्यानभिधानादुभयस्यापि ग्रहणम्॥

Prakriyasarvasvam

दृतौ भवं दार्तेयम् । कौक्षेयम् । ‘कलशिर्मन्थनपात्रमिदन्तः’ इति स्वामी । तत्र भवं कालशेयं तक्रम् । वास्तेयम् । ‘अस्तीति धनार्थमव्ययम्’ इति रामः । आस्तेयो मदः । आहेयम् ॥

Sutra Prayogas

  • कौक्षेयमुद्यम्य (भट्टिकाव्यम्): कुक्षि इत्यादिना ढन्।