43047: देयमृणे¶
Padacheda: देयम् | S | 1 | 1 |
ऋणे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
After a प्रातिपदिक (Nominal Stem) being in the Locative -7th case in construction denoting time, an affix comes in the sense of ‘being then due’; provided that the thing due be ‘debt’.
Vasu English Translation¶
After a प्रातिपदिक (Nominal Stem) being in the Locative -7th case in construction denoting time, an affix comes in the sense of ‘being then due’; provided that the thing due be ‘debt’. Thus मासे देयमृणं = मासिकं ‘a debt due in a month’. आर्द्धमासिकम्, सांवत्सरिकम् ॥ Why do we say ऋणे ‘it being a debt’. Observe मासेदेया भिक्षा where no affix is added.
Kashika¶
तत्रेत्येव, कालादिति च। सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकाद् देयमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद् देयमृणं चेत् तद् भवति। मासे देयमृणं मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। ऋण इति किम् ? मासे देया भिक्षा॥
Siddhanta Kaumudi¶
कालादित्येव । मासे देयमृणं मासिकम् ॥
Balamanorama¶
देयमृणे - देयमृणे । कालादित्येवेति । तत्रेत्यप्यनुवर्तते । वुञिति निवृत्तम् । सप्तम्यन्तात्कालवाचिनो देयमित्यर्थे यताविहितं प्रत्ययाः स्युः । तस्मिन्देयद्रव्ये ऋणे सतीत्यर्थः । मासिकमिति ।कालट्ठञ् ।
Tattvabodhini¶
देयमृणे - देयमृणे । ऋणे किम् । मासे देया भिक्षा ।
Prakriyasarvasvam¶
कालात् तत्र देयमित्यर्थे ऋणे वाच्येऽणादिः । मासिकमृणम् ।