43048: कलाप्यश्वत्थयवबुसाद्वुन्¶
Padacheda: कलापि-अश्वत्थ-यव-बुसात् | S | 5 | 1 |
वुन् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix वुञ् comes in the sense of ‘debt then due’ after the words 1. कलापिन् 2. अश्वत्थ and 3. यवबुस् , denoting time and being in the Locative -7th case.
Vasu English Translation¶
The affix वुञ् comes in the sense of ‘debt then due’ after the words 1. कलापिन् 2. अश्वत्थ and 3. यवबुस् , denoting time and being in the Locative -7th case. The words कलापी &c are words which indirectly denote time. Thus the time in which the peacocks mate and make noise is called कलापी ॥ The time in which the asvatha tree fructifies is called अश्वत्थः ॥ The time in which barley is thrashed out is called यवबुस ‘barley-chaff’? Thus कलापिनिकाले देयमृणं = कलापकम् ‘a debt to be paid when the peacocks make noise (i. e. mating or rainy season) tails.’ अश्वत्थकम् and यवबुसकम् ॥
Bhashya¶
कलाप्यश्वत्थयवबुसाद्वुन् (1618) (देयमृणाधिकरणे वुन्प्रत्ययः) (सूत्रार्थोपपादकभाष्यम्) अयुक्तोऽयं निर्देशः। कालादिति वर्तते, न च कलापी नाम कालोऽस्ति॥ नैष दोषः। साहचर्यात्ताच्छब्द्यं भविष्यति। कलापिसहचरितः कालः कलापी काल इति॥
Kashika¶
कालादित्येव। कलापिन् अश्वत्थ यवबुस इत्येतेभ्यः कालवाचिभ्यः सप्तमीसमर्थेभ्यो देयमृणमित्येतस्मिन्नर्थे वुन् प्रत्ययो भवति। कलाप्यादयः शब्दाः साहचर्यात् काले वर्तन्ते। यस्मिन् काले मयूराः कलापिनो भवन्ति, स कलापी। यस्मिन्नश्वत्थाः फलन्ति सोऽश्वत्थः। यस्मिन् यवबुसं संपद्यते स यवबुसशब्देनोच्यते। कलापिनि काले देयमृणम्, कलापकम्। अश्वत्थकम्। यवबुसकम्॥
Siddhanta Kaumudi¶
यस्मिन् काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी तत्र देयमृणं कालापकम् । अस्वत्थस्य फलमस्वत्थस्तद्युक्तः कालोप्यश्वत्थः । यस्मिन् काले अश्वत्थाः फलन्ति तत्र देयमश्वत्थकम् । यस्मिन् यवबुसमुत्पद्यते तत्र देयं यवबुसकम् ॥
Balamanorama¶
कलाप्यश्वत्थयवबुसाद्वुन् - कलाप्यआत्थ । कलापिन्, अआत्थ, यवबुस — एभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देयमृणमित्यर्थे वुन्स्यादित्यर्थः । कलापकमिति । वुन् । अकादेशः । ‘नस्तद्धिते’ इति टिलोपः । अआत्थ इति । विकारप्रत्ययस्य फले लुगिति भावः । अआत्थशब्दस्य प्लक्षादित्वे तु ततःप्लक्षादिभ्योऽ॑णिति फले अणो विधानसामर्थ्याल्लुगभावे अआत्थशब्दः फले लाक्षणिक इति भावः ।
Tattvabodhini¶
कलाप्यश्वत्थयवबुसाद्वुन् - कलाप्य । अआत्थ इति ।फले लुक् । इह पुंलिङ्गनिर्देशो यद्यप्ययुक्तस्तथापि फले अआत्थशब्द औपचारिक इत्याशयेन पुंलिङ्गप्रयोग इत्याहुः ।
Padamanjari¶
मयूरादिषु प्रसिद्धानां कलाप्यादीनां शब्दानां काले वृत्तिर्न सम्भवति, तत्कथम्’कालविशेषविचिभ्यः’ इत्युक्तम् ? अत आह - कलाप्यादयः शब्दा इति । अश्वत्थेन वृक्षेण कालस्य सम्बन्धोऽव्यबिचारादविशेषणमिति’फले लुक्’ इति लुगन्तोऽश्वत्थशब्द इत्याह - यस्मिन्नश्वत्थाः फलन्तीति । अपकृष्टे यवो यवबुसं जात्यन्तरं वा यवादिवत्, यवानामेव वा बुसं यवबुसम् ॥
Nyaas¶
कथं पुनः कलापादयः शब्दाः काले वर्तन्ते, यावता मयूरादिषु तेषां वृत्तिः प्रसिद्धेत्यत आह - कालाप्यादयः शब्दाः इत्यादि। एवमेव विषयं स्पष्टीकरोति - यस्मिन्काले इत्यादि। अआत्थशब्दोऽत्र वृक्षविशेषे रूढः। तेन सर्व एव कालः सम्बध्यत इति तद्द्वारेण कालविशेषो न संज्ञायते। तस्मादआत्थफलसहचारिणि कालेऽआत्थशब्दो वर्तत इति दर्शयितुमाह - यस्मान्नआत्थाः फलन्ति इत्यादि। अआत्थशब्दो यद्यपि वृक्षे वर्तते, तथापि फले वर्तते एव॥
Prakriyasarvasvam¶
यदा मयूराः पिच्छवन्तः स्युः स कालो लक्षणया कलापी । तत्र देयमृणं, कलापकम् । एवमश्वत्थफलवति काले देयमृणम्, अश्वत्थकम् । यवबुसोत्पत्तिकाले देयमृणं यवबुसकम् ॥