43046: ग्रीष्मवसन्तादन्यतरस्याम्

Padacheda: ग्रीष्म-वसन्तात् | S | 5 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix वुञ् comes optionally after the words 1. ग्रीष्म and 2. वसन्त in the sense of ‘sown’.

Vasu English Translation

The affix वुञ् comes optionally after the words 1. ग्रीष्म and 2. वसन्त in the sense of ‘sown’. This debars अण् (4.3.16). Thus ग्रैष्मम् or ग्रैष्मकम् सस्यम् ‘the crop sown in summer’. वासन्तम् or वासन्तकम् ॥

Kashika

ग्रीष्मवसन्तशब्दाभ्यामन्यतरस्यां वुञ् प्रत्ययो भवत्युप्तेऽर्थे। ऋत्वणोऽपवादः। ग्रैष्मकम्, ग्रैष्मं सस्यम्। वासन्तकम्, वासन्तम्॥

Siddhanta Kaumudi

पक्षे ऋत्वण् । ग्रैष्मकम् । ग्रैष्मम् । वासन्तकम् । वासन्तम् ॥

Balamanorama

ग्रीष्मवसन्तादन्यतरस्याम् - ग्राष्मवसन्तात् । ग्रीष्माद्वसन्ताच्च सप्तम्यन्तादुप्ते वुञ्वेत्यर्थः ।

Prakriyasarvasvam

आभ्यामुप्ते वा वुञ् । ग्रैष्मकाः ग्रैष्मा वा शालयः । वासन्तका वासन्ता वा ।