43045: आश्वयुज्या वुञ्¶
Padacheda: आश्वयुज्याः | S | 5 | 1 |
वुञ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix वुञ् comes in the sense of ‘sown’ after the word आश्वयुजी।
Vasu English Translation¶
The affix वुञ् comes in the sense of ‘sown’ after the word आश्वयुजी। This debars ठञ् ॥ Thus आश्वयुज्या मुप्ताः = आश्वयुजका माषाः ‘the pulse sown in Asvayuji.’ It is the name of the full-moon in the Asterism of Asvini. Asvayuj and* *Asvini_ are the same. Some texts read अश्वनी instead of अश्विनी ॥
Kashika¶
आश्वयुजीशब्दाद् वुञ् प्रत्ययो भवत्युप्तेऽर्थे। ठञोऽपवादः। आश्वयुज्यामुप्ता आश्वयुजका माषाः। अश्विनीभ्यां युक्ता पौर्णमासी, आश्वयुजी। अश्विनीपर्यायोऽश्वयुक्शब्दः॥
Siddhanta Kaumudi¶
ठञोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजका माषाः ॥
Balamanorama¶
आश्वयुज्या वुञ् - आआयुज्या वुञ् । तत्रोप्य इत्येव । सप्तम्यन्तादाआयुजीशब्दादुप्तेऽर्थे वुञ्स्यादित्यर्थः । ठञोऽपवाद इति ।कालाट्ठ॑ञिति विहितस्येत्यर्थः । आआयुजका इति । अआयुग्भ्यां युक्ता पौर्णमासी आआयुजी, तत्रोप्ता इत्यर्थः ।
Tattvabodhini¶
आश्वयुज्या वुञ् - व्यपेक्षायामिति ।इदं सर्पिष्कुण्डिकाया॑इत्यत्रेत्यर्थः । अत्रसर्पि॑रित्यसमस्तं पदमिति बोध्यम् । समासे तुनित्यं समासे॑ इत्यनेन सिद्धे समासाऽभावमेव ज्ञापयितुमिदमिति सपिर्विशेषणमुक्तम् । नित्यार्थश्चेति । अयं भावः-असमासे व्यपेक्षाविरहेऽत्यन्ताप्राप्तौ नित्यतया षत्वार्थः पाठं, व्यपेक्षायां त्वसमासेइसुसोः॑ इति विकल्पेन प्राप्तौ नित्यार्थ इति ।
Padamanjari¶
वुञो ञकारः स्वरार्थः, उतरत्र वृद्ध्यर्थश्च, अश्वयुग्भ्यां युक्तेति पाठः, अश्वयुजोद्वित्वात्’नमो’ श्विभ्यामश्वयुग्भ्याम्ऽ इति दर्शनात् । अश्विनीपर्याय इति पाठः ।’तारा अश्वयुगश्विनी’ इत्यमरसिहः । अश्वनीपर्यायैति प्रसिद्धः पाठः, तत्राशुपूर्वादनेरौणादिक इन्प्रत्ययः, पृषोदरादित्वादादेर्ह्रस्वः ॥
Nyaas¶
ठञोऽपवादः इति। कालाटठ्ञ् (4.3.11) प्राप्तस्य। ननु च कालाट्ठञ् विहितः। न चाआयुजीशब्दः कालवाची, ततः कुतष्ठञ्? इत्याशङ्क्य कालवाचित्वमाआयुजीशब्दस्य प्रतिपादयितुमाह - अइआनीभ्यां युक्ता इत्यादि॥
Prakriyasarvasvam¶
आश्वयुज्यां पौर्णमास्यामुप्ता, आश्वयुजका मुद्गाः ॥