43044: उप्ते च

Padacheda: उप्ते | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

An affix comes after a word denoting ‘time’ being in the Locative -7th case in construction meaning ‘sown therein’.

Vasu English Translation

An affix comes after a word denoting ‘time’ being in the Locative -7th case in construction meaning ‘sown therein’. Thus हेमन्ते उप्यन्ते = हैमन्ता यवाः ‘the barley sown in autumn.’ ग्रैष्मा व्रीहयः ॥

The separation of this sutra from the last, is for the sake of the subsequent sutra in which the anuvritti of उप्त only goes, which could not have been the case had this word been included in the last sutra.

Kashika

तत्रेत्येव, कालादिति च। सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकादुप्तेऽर्थे यथा विहितं प्रत्ययो भवति। हेमन्त उप्यन्ते हैमन्ता यवाः। गै्रष्मा व्रीहयः। योगविभाग उत्तरार्थः॥

Siddhanta Kaumudi

हेमन्ते उप्यन्ते हैमन्ता यवाः ॥

Tattvabodhini

उप्ते च - उप्ते च ।काला॑दित्येव । योगविङाग उत्तरार्थः । उप्यन्त इति । सूत्रे भूतकालोऽतन्त्रमिति भावः ।

Padamanjari

सूत्रे भूतकालस्याविवक्षां दर्सयति । हेमन्ते उप्यन्ते इति । योगविभाग उतरार्थ इति । उतरयोगयोरुक्त एव प्रत्ययो यथा स्यात्, साध्वादिषु मा भूत् ॥

Nyaas

योगविभाग उत्तरार्थः इति। उत्तरत्र वुञ् उप्त एव यथा स्यात्; साध्वादिषु मा भूत्॥

Prakriyasarvasvam

कालात् तत्रोप्तमित्यर्थेऽणादिः । हेमन्ते उप्ता हैमना यवाः ॥