43045: आश्वयुज्या वुञ् ====================== **Padacheda:** आश्वयुज्याः | S | 5 | 1 | वुञ् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix वुञ् comes in the sense of 'sown' after the word आश्वयुजी। Vasu English Translation ------------------------ The affix वुञ् comes in the sense of 'sown' after the word आश्वयुजी। This debars ठञ् ॥ Thus आश्वयुज्या मुप्ताः = आश्वयुजका माषाः 'the pulse sown in *Asvayuji*.' It is the name of the full-moon in the Asterism of *Asvini*. *Asvayuj* and* *Asvini_ are the same. Some texts read अश्वनी instead of अश्विनी ॥ Kashika ------- आश्वयुजीशब्दाद् वुञ् प्रत्ययो भवत्युप्तेऽर्थे। ठञोऽपवादः। आश्वयुज्यामुप्ता आश्वयुजका माषाः। अश्विनीभ्यां युक्ता पौर्णमासी, आश्वयुजी। अश्विनीपर्यायोऽश्वयुक्शब्दः॥ Siddhanta Kaumudi ----------------- ठञोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजका माषाः ॥ Balamanorama ------------ **आश्वयुज्या वुञ्** - आआयुज्या वुञ् । तत्रोप्य इत्येव । सप्तम्यन्तादाआयुजीशब्दादुप्तेऽर्थे वुञ्स्यादित्यर्थः । ठञोऽपवाद इति ।कालाट्ठ॑ञिति विहितस्येत्यर्थः । आआयुजका इति । अआयुग्भ्यां युक्ता पौर्णमासी आआयुजी, तत्रोप्ता इत्यर्थः । Tattvabodhini ------------- **आश्वयुज्या वुञ्** - व्यपेक्षायामिति ।इदं सर्पिष्कुण्डिकाया॑इत्यत्रेत्यर्थः । अत्रसर्पि॑रित्यसमस्तं पदमिति बोध्यम् । समासे तुनित्यं समासे॑ इत्यनेन सिद्धे समासाऽभावमेव ज्ञापयितुमिदमिति सपिर्विशेषणमुक्तम् । नित्यार्थश्चेति । अयं भावः-असमासे व्यपेक्षाविरहेऽत्यन्ताप्राप्तौ नित्यतया षत्वार्थः पाठं, व्यपेक्षायां त्वसमासेइसुसोः॑ इति विकल्पेन प्राप्तौ नित्यार्थ इति । Padamanjari ----------- वुञो ञकारः स्वरार्थः, उतरत्र वृद्ध्यर्थश्च, अश्वयुग्भ्यां युक्तेति पाठः, अश्वयुजोद्वित्वात्'नमो' श्विभ्यामश्वयुग्भ्याम्ऽ इति दर्शनात् । अश्विनीपर्याय इति पाठः ।'तारा अश्वयुगश्विनी' इत्यमरसिहः । अश्वनीपर्यायैति प्रसिद्धः पाठः, तत्राशुपूर्वादनेरौणादिक इन्प्रत्ययः, पृषोदरादित्वादादेर्ह्रस्वः ॥ Nyaas ----- `ठञोऽपवादः` इति। `कालाटठ्ञ्` (4.3.11) प्राप्तस्य। ननु च कालाट्ठञ् विहितः। न चाआयुजीशब्दः कालवाची, ततः कुतष्ठञ्? इत्याशङ्क्य कालवाचित्वमाआयुजीशब्दस्य प्रतिपादयितुमाह - `अइआनीभ्यां युक्ता` इत्यादि॥ Prakriyasarvasvam ----------------- आश्वयुज्यां पौर्णमास्यामुप्ता, आश्वयुजका मुद्गाः ॥