43038: कृतलब्धक्रीतकुशलाः¶
Padacheda: कृत-लब्ध-क्रीत-कुशलाः | S | 1 | 3 |
Sutrartha¶
Vasu English Summary¶
An affix (one of those already taught) comes after a word in the Locative -7th case, in the sense of ‘done there’, ‘obtained there’, ‘bought there’ and ‘dexterous therein’.
Vasu English Translation¶
An affix (one of those already taught) comes after a word in the Locative -7th case, in the sense of ‘done there’, ‘obtained there’, ‘bought there’ and ‘dexterous therein’. Thus स्रौघ्नः may mean “done in, or bought in, or obtained in, or skillful in Srughna”. So also the words माथुरः, राष्ट्रियः ॥
Kashika¶
तत्रेत्येव। सप्तमीसमर्थात् कृतादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। स्रुघ्ने कृतो वा लब्धो वा क्रीतो वा कुशलो वा स्रौघ्नः। माथुरः। राष्ट्रियः। ननु च यद् यत्र कृतं जातमपि तत् तत्र भवति, यच्च यत्र क्रीतं लब्धमपि तत् तत्रैव भवति, किमर्थं भेदेनोपादानं क्रियते? शब्दार्थस्य भिन्नत्वाद् वस्तुमात्रेण क्रीतं लब्धं भवति, शब्दार्थस्तु भिद्यत एव॥
Siddhanta Kaumudi¶
तत्रेत्येव । स्रुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः ॥
Padamanjari¶
यद्यत्र कृतं जातमपि ततत्र भवतीति । यद्यपि जातं सर्वं कृतं न भवति, स्वयं जातस्यापि भावात् ; कृतं तु सर्वं जातं भवति, न ह्यजननस्वभावंक्रियते, यथा -व्योमेति भावः । यच्च क्रीत लब्धमपि ततत्र भवतीति । अत्रापि लब्धं सर्वं क्रीतं न भवति ; दानादिनापि लाभसम्भावात् । क्रीतं तु लब्धमेव ; क्रयस्यापि लाभहेतुत्वादित्यर्थः । तत्किमर्थं भेदेनोपादानं क्रियत इति । जातलब्धाभ्यामेव गतमिति प्रश्नः । शब्दार्थस्याभिन्नत्वादिति । परव्यापारोपहितं रूपं कृतमित्युच्यते, तद्रहितं तु जातमिति; तथा मूल्यप्रदानरूपो यः स्वीकर्तुर्व्यापारस्तदुपहितं रूपं क्रीतामत्युच्यते, तद्रहितं तु लब्धमिति । तत्र यथा - विक्लिन्न ओदनः, पक्व ओदन इति शब्दार्थाभेदः, तथात्रापीत्यर्थः । एतदेव स्पष्टयति - वस्तुमात्रेणेति । वस्तुत इत्यर्थः । एतदुक्तं भवति - क्रीतं वस्तुतो लब्धं भवतीत्येतावत्, शब्देन तु रूपान्तरमभिधीयते । एवं कृतमपि वस्तृतो जातं भवति, शब्देन तु रूपान्तरमभिधीयत इति द्रष्टव्यम् । उपसंहरति - शब्दार्थस्तुभिद्यत एवेति । तत्राक्रियमाणे कृक्रीतयोरुपादाने यथा - क्वायं घटः कृतः, क्रीतो वा इति पृष्टे स्रुघ्ने जातो लब्ध इति चोतरं नं प्रयुज्यते; तथा तद्धितोऽपि न स्यात्। तस्मात्कृतक्रीतयोस्तद्धितेनाभिधानाय भेदेनोपादानमिति ॥
Nyaas¶
ननु च इत्यादि। जन्मवद्वस्तु जातशब्दस्यार्थः, कृतस्यापि जन्मास्त्येव, तस्माद्यद्यत्र कृतं जातमपि तत्तत्र भवति। यच्च क्रीतम् इत्यादि। प्राप्तं लब्धमुच्यते। क्रीतं प्राप्तमपपि तद्भवत्येव, तस्मात् क्रीतं लब्धमपि भवति। शब्दस्यार्थस्याभिन्नत्वात् इति।स्वजन्मन्यनुभूतकर्त्तृभावो जातशब्दस्यार्थः। जातशब्दस्यैव विशेषोपलक्षितपरव्यापारो स्वजन्मनिष्पत्तौ कृतशब्दस्यार्थः। प्राप्तिसामान्यं लब्धशब्दस्यार्थः। प्राप्तिविशेषो यस्य मूलहेतुका प्राप्तिः। स क्रीतशब्दस्यार्थः। न च सामान्यविशेषयोरेकार्थता युक्ता। मा भूत्पर्यायप्रसङ्ग इति भिद्यते शब्दार्थः। वस्तुमात्रेण इति। क्रीतलब्धयोर्यदाधारभूतं व्सतुमात्रं तस्याभिन्नरूपत्वात्क्रीतं लब्धं भवति। मात्रग्रहणं शब्दार्थव्यवच्छेदार्थम्। अत एवाह - शब्दार्थस्तु भिद्यत एव (इति)। न हि येन रूपेण क्रीतशब्देन तत्प्रत्याय्यते तेनैव लब्धशब्देन। एवं जातकृतशब्दयोर्वस्तुत्वेनाभिन्नत्वम्। शब्दार्थद्वारेण तु भिन्नार्थत्वमेव। अन्येनैव हि रूपेण जातशब्देन तद्वस्तु प्रत्याय्यते, अन्येन कृतशब्देन॥
Prakriyasarvasvam¶
तत्र कृत इत्याद्यर्थेऽणादिः स्यात् । मथुरायां कृतं क्रीतं लब्धं वा, माथुरम् । खड्गे कुशलः, खाड्गः । साङ्गीतः । यौधः । एवं राष्ट्रे कृतं राष्ट्रियमित्यादि ॥