43037: नक्षत्रेभ्यो बहुलम्

Padacheda: नक्षत्रेभ्यः | S | 5 | 3 |

बहुलम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

There is diversely लुक् elision of the affix denoting ‘born therein’ after an asterism.

Vasu English Translation

There is diversely लुक् elision of the affix denoting ‘born therein’ after an asterism. Thus रोहिणः or रौहिणः (4.3.16) मृगशिरा or मार्गशीर्षः (4.3.16).

Kashika

नक्षत्रेभ्य उत्तरस्य जातार्थे प्रत्ययस्य बहुलं लुग् भवति। रोहिणः, रौहिणः। मृगशिराः, मार्गशीर्षः॥

Siddhanta Kaumudi

जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः । रौहिणः ॥

Balamanorama

नक्षत्रेभ्यो बहुलम् - नक्षत्रेभ्यो बहुलं । रोहिण इति । रोहिण्यां जात इत्यर्थः । नक्षत्राऽणो लुकि आदिवृद्धिनिवृत्तौलुक्तद्धितलुकी॑ति स्त्रीप्रत्ययनिवृत्तिः । नच तथा सति तकारस्य नकारोऽपि निवर्तेतेति वाच्यं, न हि रोहितशब्दोऽयं वर्णविशेषवाचको येनवर्णादनुदात्ता॑दिति ङीपो निवृत्तौ तकारोऽपि निवर्तेत । किंतु रोहिणीशब्दोऽयमब्युत्पन्नो नक्षत्रविशेषे रूढः । ‘रोहिणी नक्षत्रे’ इति गौरादि पाठान्ङीष् । अत एवरोहिणी नक्षत्रं प्रजापतिर्देवते॑त्यादौ अन्तोदात्तत्वं श्रूयमाणं न विरुध्यते । अन्यथावर्णानां तणतिनितान्ताना॑मित्याद्युत्तत्वं स्यादित्यलम् ।

Nyaas

`रोहिणः`इत्यादौ नक्षत्राणः पक्षे लुक्। `मृगशिराः`इति। अत्वसन्तस्य चाधातोः (6.4.14) इति दीर्घः।`मार्गशीर्षः`इति। ये च तद्धिते (6.1.61) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाच्छिरसः शीर्षभावः। अथ बहुलग्रहणं किमर्थम्? नपूर्वसूत्रादेव वाग्रहणमनुवर्तिष्यते? इदं प्रयोजनम् - न क्वचिदन्यदेव यथा स्यात्, तेन फल्गुन्यषाढाभ्यां टानौ सिद्धौ भवतः। श्रविष्ठाषाढाभ्याञ्छणपीति॥

Prakriyasarvasvam

<karika>नक्षत्रेभ्यः परस्य जातप्रत्ययस्य बहुलं लुक् स्यात् । मार्गशीर्षज्यैष्ठचैत्रमाघरैवतरोहिणः । अलुकोऽथापभरणश्रावणौ वा परेषु लुक् ॥ २४२ ॥</karika> <karika>इति श्रोतमत्तं वृत्तौ तूक्तो मृगशिरा अपि । आर्द्रायुक्तो बुनादिर्यः स तथैव हि सर्वदा ॥ २४३ ॥</karika>