43039: प्रायभवः

Padacheda: प्राय-भवः | S | 1 | 1 |

Sutrartha


Vasu English Summary

After a word being in construction in the Locative -7th case, an affix (one of those ordained already) comes in the sense of ‘generally found therein’.

Vasu English Translation

After a word being in construction in the Locative -7th case, an affix (one of those ordained already) comes in the sense of ‘generally found therein’. The word प्रायः means something less than all i. e. abundant. Thus स्रौघ्नः ‘what is abundant or mostly to be found in Srughna’, = स्रुघ्ने प्रायेण बाहुल्येन भवति. So also माथुरः, राष्ट्रियः &c.

This sutra may appear to be superfluous as being covered by the more comprehensive sutra तत्रभवः (4.3.53). If प्रायभवः be explained as अनित्यभवः i. e. what sometimes is to be found and sometimes not, still it will make little difference.

Bhashya

प्रायभवः (1609) (प्रायभवार्थाधिकरणम्) (5470 सूत्रप्रत्याख्याने वार्तिकम्॥ 1 ॥) - प्रायभवग्रहणमनर्थकं तत्र भवेन कृतत्वात् - (भाष्यम्) प्रायभवग्रहणमनर्थकम्। किं कारणम्? तत्र भवेन कृतत्वात्। यो हि राष्ट्रे प्रायेण भवति तत्र भवोऽसौ भवति। तत्र तत्र भवः (4.3.53) इत्येव सिद्धम्। न सिध्यति। अनित्यभवः प्रायभवः। नित्यभवस्तत्र भवः॥ (5471 प्रत्याख्यानोपष्टम्भकं वार्तिकम्॥ 2 ॥) - अनित्य भवः प्रायभव इति चेन्मुक्तसंशयेन तुल्यम् - (भाष्यम्) यद्भवान् मुक्तसंशयं तत्र भव उदाहरणं न्याय्यं मन्यते -स्रौघ्नौ देवदत्त इति, तेनैतत्तुल्यम्। सोऽपि ह्यवश्यमुदकदेशादीन्यभिनिष्क्रामति। अथैतद्भवान् प्रायभवे उदाहरणं न्याय्यं मन्यते, तत्र भवे किमुदाहरणम्? यत्तत्र नित्यं भवति-स्रौघ्नाः प्रासादाः, स्रौघ्नाः प्राकारा इति। एवं तर्हि तत्र भव इति प्रकृत्य जिह्रामूलाङ्गुलेश्छो विधीयते। स यथा तस्मिन् दृष्टापचारे -अङ्गुलीयम्। इति भवति, एवं प्रायभवेऽपि भविष्यति॥ (सूत्रप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् -प्रायभव इति प्रकृत्य उपजानूपकर्णोपनीवेष्ठकं वक्ष्यति स प्रायभव एव यथा स्यात्, तत्र भवे मा भूत्। उपजानुभवं गडि्वति॥ (सूत्रप्रयोजननान्यथासिद्धिप्रदर्शकं भाष्यम्) अथेदानीं तत्र भव इति प्रकृत्य शरीरावयवाद्यद्विधीयते सोऽत्र कस्मान्न भवति? अनभिधानात्। यथैव तर्ह्यनभिधानाद्यन्न भवति, एवं ठगपि न भविष्यति॥

Kashika

तत्रेत्येव। सप्तमीसमर्थाद् ङ्याप्प्रातिपदिकात् प्रायभव इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रायशब्दः साकल्यस्य किंचिन्न्यूनतामाह। स्रुघ्ने प्रायेण बाहुल्येन भवति स्रौघ्नः। माथुरः। राष्ट्रियः। प्रायभवग्रहणमनर्थकम्, तत्रभवेन कृतार्थत्वात्। अनित्यभवः प्रायभव इति चेद्, मुक्तसंशयेन तुल्यम्॥

Siddhanta Kaumudi

तत्रेत्येव । स्रुघ्ने प्रायेण बाहुल्येन भवति स्रौघ्नः ॥

Laghu Siddhanta Kaumudi

तत्रेत्येव। स्रुग्घ्ने प्रायेण बाहुल्येन भवति स्रौग्घ्नः॥

Balamanorama

प्रायभवः - प्रायभवः । तत्रेत्येवेति । प्रायभव इत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः । प्रायशब्दस्य व्याख्यानम् — बाहुल्येनेति । तत्र भव इत्येव सिद्धत्वात्प्रत्याख्यातमिदं भाष्ये ।

Tattvabodhini

प्रायभवः - प्राय । कादाचित्कभवनाश्रयः — प्रायभवः । तेनतत्र भवः॑इत्यनेन न गतार्थतेत्याहुः । भाष्ये तु प्रत्याख्यातमेतत्,प्रायभवग्रहणमन्र्थकं तत्र भवेन कृतत्वा॑दिति ।

Padamanjari

प्रायेण भवः,’कर्तृकरणे कृता बहुलम्’ इति समासः । तत्र भवेन कृतत्वादिति । यत्प्रायभव इत्यस्य साध्यम्, तस्य’तत्र भवः’ इत्यनेनैव साधितत्वादित्यर्थः । यो हि राष्ट्रे प्रायेण भवति तत्रैवासो भवतीति’तत्र भवः’ इत्येव सिद्धम् । शङ्कते - अनित्यभवः प्रायभव इति चेदिति । यस्तत्र कदाचिद्भवति कदाचिन्न स प्रायभवः, यस्य तु नियत आधाराधेयभावः स’तत्र भवः’ इति पृथगुपादानसामर्थ्याद्भेद आश्रीयत इति यद्यौच्येतेत्यर्थः । निराकरोति - मुक्तसंशयेन तुल्यमिति । यं भवान्मुक्तसंशयं न्याय्यं तत्रभव उदाहरणं मन्यते - स्रौघ्नो देवदत इति, तेनैव तुल्यम्, सोऽपि हि कदाचितस्मादुदक्देशादभिनिष्क्रामति । तत्र चेद्यौक्ता तत्र भवता, इहापि युक्ता दृश्यताम् । अथैतदपि प्रायभवस्योदाहरणम् - स्रौघ्नो देवदत इति । तत्रभवनस्य किमुदाहरणम् ? तत्र नित्यभवः स्रौघ्नः प्राकार इति । यद्येवम्,’तत्र भवः’ इति प्रकृत्य जिह्वामूलाङ्गुलेश्छाए विधीयते स तस्मिन्दृष्टापचारे न स्यात्, दृश्यते च - वानरोऽहं महाभागे दूतो रामस्य धर्मतः । रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥ इति । तस्मातत्रभवे सामान्ये प्रायभवस्य विशेषस्यान्तर्भावादनर्थकं प्रायग्रहणम् ? इदं तर्हि प्रयोजनम् - ठुपजानूपकर्णोपनीवेष्ठक्ऽ प्रायभवे यथा स्यान्नित्यभवे मा भूत् - उपजानु भवं गड्विति । अथेदानीं जानुसमीपस्थशरीरावययववाचिन उपजानुशब्दातत्र भव इति प्रकृत्य’शरीरावयवाद्यत्’ इति यत्कस्मान्न भवति ? अनभिधानात् । ठगपि तर्ह्यनबिधानादेव न भविष्यति ? तदेवं स्थितम् - एतत्प्रायग्रहणमनर्थकम्, तत्र भवेन कृतत्वादिति ॥

Nyaas

प्रायभवग्रहणमनर्थकम् इति। वैचित्र्यादन्यस्यार्थस्याभावादनर्थमित्युच्यते। वैचित्र्येण तु सार्थकमेव। कस्मात् पुनरर्थकमिति? तत्र भवेन कृतार्थत्वात् इति। यत् प्रायभवः`इत्यस्य साध्यम्, तस्य **तत्र भवः** (4.3.53) इत्यनेनैव साधितत्वादितिभावः। यो हि राज्ये प्रायेण भवति तत्रासौ भवत्येव। ततश्च तत्र भवे तस्यान्तर्भावात् **तत्र भवः** (4.3.53) इत्यनेनैव कृतं सम्पादनम्रिति किं प्रायभवग्रहणेन? `अनित्यभवः इत्यादिना परस्योत्तरमाशङ्कते।स्यादेतत् - अनित्यभवः प्रायभवो नित्यभवस्तत्र भव इति, तस्मात् तत्र भवेन प्रायभव्सयासंग्रहान्न सिध्यति? इत्याशङ्क्याह - मुक्तसंशयेन तुल्यम् इति। मुक्तस्त्यक्तः संशयो येन तत् मुक्तसंशयम्।न्याय्यस्तत्र भवोऽयमिति यो निश्चितस्तेन तुल्यं भवति। तथा हि - रुआघ्ने भवो देवदत्तः रुआऔघ्न इत्युच्यते, न चासौ रुआउघ्ने सदा भवति, अवश्यं हि कदाचिदुदग्देसादीनपक्रामति, अथ च तत्रभवप्रत्ययो भवति। यदि च नित्यभवस्तत्र भवः? जिह्वामूले भवो वर्णः जिह्वामूलीय इत्यत्र तत्र भवःर (4.3.53) इत्यधिकारे जिह्वामूलाङ्गुलेश्छः` (4।3।क62) इति च्छो न स्यात्, न हि वर्णो नित्यं जिह्वामूले भवति। तस्मात् प्रायभव कककककककककस्य तत्रभवान्तर्भवात् ततो न ण्यतिरिच्यत इत्नर्थकं प्रयभवग्रहणम्॥

Prakriyasarvasvam

तत्र प्रायभव इत्यर्थेऽणादिः स्यात् । मथुरायां प्रायेण भवतीति माथुरः कृष्णः । अनित्यभवः प्रायभवः नित्यभवस्तत्रभव इति भेदः ॥