43038: कृतलब्धक्रीतकुशलाः ========================= **Padacheda:** कृत-लब्ध-क्रीत-कुशलाः | S | 1 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- An affix (one of those already taught) comes after a word in the Locative -7th case, in the sense of 'done there', 'obtained there', 'bought there' and 'dexterous therein'. Vasu English Translation ------------------------ An affix (one of those already taught) comes after a word in the Locative -7th case, in the sense of 'done there', 'obtained there', 'bought there' and 'dexterous therein'. Thus स्रौघ्नः may mean "done in, or bought in, or obtained in, or skillful in *Srughna*". So also the words माथुरः, राष्ट्रियः ॥ Kashika ------- तत्रेत्येव। सप्तमीसमर्थात् कृतादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। स्रुघ्ने कृतो वा लब्धो वा क्रीतो वा कुशलो वा स्रौघ्नः। माथुरः। राष्ट्रियः। ननु च यद् यत्र कृतं जातमपि तत् तत्र भवति, यच्च यत्र क्रीतं लब्धमपि तत् तत्रैव भवति, किमर्थं भेदेनोपादानं क्रियते? शब्दार्थस्य भिन्नत्वाद् वस्तुमात्रेण क्रीतं लब्धं भवति, शब्दार्थस्तु भिद्यत एव॥ Siddhanta Kaumudi ----------------- तत्रेत्येव । स्रुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः ॥ Padamanjari ----------- यद्यत्र कृतं जातमपि ततत्र भवतीति । यद्यपि जातं सर्वं कृतं न भवति, स्वयं जातस्यापि भावात् ; कृतं तु सर्वं जातं भवति, न ह्यजननस्वभावंक्रियते, यथा -व्योमेति भावः । यच्च क्रीत लब्धमपि ततत्र भवतीति । अत्रापि लब्धं सर्वं क्रीतं न भवति ; दानादिनापि लाभसम्भावात् । क्रीतं तु लब्धमेव ; क्रयस्यापि लाभहेतुत्वादित्यर्थः । तत्किमर्थं भेदेनोपादानं क्रियत इति । जातलब्धाभ्यामेव गतमिति प्रश्नः । शब्दार्थस्याभिन्नत्वादिति । परव्यापारोपहितं रूपं कृतमित्युच्यते, तद्रहितं तु जातमिति; तथा मूल्यप्रदानरूपो यः स्वीकर्तुर्व्यापारस्तदुपहितं रूपं क्रीतामत्युच्यते, तद्रहितं तु लब्धमिति । तत्र यथा - विक्लिन्न ओदनः, पक्व ओदन इति शब्दार्थाभेदः, तथात्रापीत्यर्थः । एतदेव स्पष्टयति - वस्तुमात्रेणेति । वस्तुत इत्यर्थः । एतदुक्तं भवति - क्रीतं वस्तुतो लब्धं भवतीत्येतावत्, शब्देन तु रूपान्तरमभिधीयते । एवं कृतमपि वस्तृतो जातं भवति, शब्देन तु रूपान्तरमभिधीयत इति द्रष्टव्यम् । उपसंहरति - शब्दार्थस्तुभिद्यत एवेति । तत्राक्रियमाणे कृक्रीतयोरुपादाने यथा - क्वायं घटः कृतः, क्रीतो वा इति पृष्टे स्रुघ्ने जातो लब्ध इति चोतरं नं प्रयुज्यते; तथा तद्धितोऽपि न स्यात्। तस्मात्कृतक्रीतयोस्तद्धितेनाभिधानाय भेदेनोपादानमिति ॥ Nyaas ----- `ननु च` इत्यादि। जन्मवद्वस्तु जातशब्दस्यार्थः, कृतस्यापि जन्मास्त्येव, तस्माद्यद्यत्र कृतं जातमपि तत्तत्र भवति। `यच्च क्रीतम्` इत्यादि। प्राप्तं लब्धमुच्यते। क्रीतं प्राप्तमपपि तद्भवत्येव, तस्मात् क्रीतं लब्धमपि भवति। `शब्दस्यार्थस्याभिन्नत्वात्` इति।स्वजन्मन्यनुभूतकर्त्तृभावो जातशब्दस्यार्थः। जातशब्दस्यैव विशेषोपलक्षितपरव्यापारो स्वजन्मनिष्पत्तौ कृतशब्दस्यार्थः। प्राप्तिसामान्यं लब्धशब्दस्यार्थः। प्राप्तिविशेषो यस्य मूलहेतुका प्राप्तिः। स क्रीतशब्दस्यार्थः। न च सामान्यविशेषयोरेकार्थता युक्ता। मा भूत्पर्यायप्रसङ्ग इति भिद्यते शब्दार्थः। `वस्तुमात्रेण` इति। क्रीतलब्धयोर्यदाधारभूतं व्सतुमात्रं तस्याभिन्नरूपत्वात्क्रीतं लब्धं भवति। मात्रग्रहणं शब्दार्थव्यवच्छेदार्थम्। अत एवाह - `शब्दार्थस्तु भिद्यत एव` (इति)। न हि येन रूपेण क्रीतशब्देन तत्प्रत्याय्यते तेनैव लब्धशब्देन। एवं जातकृतशब्दयोर्वस्तुत्वेनाभिन्नत्वम्। शब्दार्थद्वारेण तु भिन्नार्थत्वमेव। अन्येनैव हि रूपेण जातशब्देन तद्वस्तु प्रत्याय्यते, अन्येन कृतशब्देन॥ Prakriyasarvasvam ----------------- तत्र कृत इत्याद्यर्थेऽणादिः स्यात् । मथुरायां कृतं क्रीतं लब्धं वा, माथुरम् । खड्गे कुशलः, खाड्गः । साङ्गीतः । यौधः । एवं राष्ट्रे कृतं राष्ट्रियमित्यादि ॥