43036: वत्सशालाभिजिदश्वयुक्छतभिषजो वा¶
Padacheda: वत्सशाला-अभिजित्-अश्वयुक्-शतभिषजः | S | 5 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
There is optionally लुक् elision of the affix denoting ‘born therein’ after the words 1. वत्सशाला 2. अभिजित् 3. अश्वयुक् and 4. शतभित्।
Vasu English Translation¶
There is optionally लुक् elision of the affix denoting ‘born therein’ after the words 1. वत्सशाला 2. अभिजित् 3. अश्वयुक् and 4. शतभित्। As वत्सशालायां जातः = वत्सशालः or वात्सशालः, अभिजित् or आभिजितः, अश्वयुक् or आश्वयुजः, शतभिक् or शातभिषजः ॥ The two words वत्सशाल and वत्सशाला are both to be taken. These are all diversities of बहुल as used in the next sutra.
Kashika¶
वत्सशालादिभ्यः परस्य जातार्थे प्रत्ययस्य लुग् वा भवति। वत्सशालायां जातो वत्सशालः, वात्सशालः। अभिजित्। आभिजितः। अश्वयुक्, आश्वयुजः। शतभिषक्, शातभिषजः। बहुलग्रहणस्यायं प्रपञ्चः॥
Siddhanta Kaumudi¶
एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशालः । वात्सशालः इत्यादि ।<!जातार्थे प्रतिप्रसूतोऽण्वा डिद्वक्तव्यः !> (वार्तिकम्) ॥ शातभिषः । शातभिषजः । शतभिषक् ॥
Balamanorama¶
वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा - वत्सशालाभिजित् । एभ्य इति । वत्सशाला, अभिजित्, अआयुज्, शतभिषज् इत्येभ्य इत्यर्थः ।परस्ये॑ति शेषः । इत्यादीति अभिजिति जात आभिजितः, अभिजित् । अआयुजोर्जातः-आआयुजः, अआयुक् । शतभिषजि जातः-शातभिषजः , शतभिषक् । जातार्थे इति ।कालाट्ठञि॑ति ठञा निवर्तित औत्सर्गिकोऽण् सन्धिवेलादिसूत्रेण पुनरुत्थितो डिद्वा वक्तव्य इत्यर्थः ।दृष्टं सामे॑ति सूत्र भाष्ये इदं वार्तिकं दृष्टम् । शातभिष इति । अणि ङित्त्वपक्षे टिलोपः ।
Tattvabodhini¶
वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा - वत्सशालाभि । वत्सशाले जात इति । वत्सशालायामित्यपि बोध्यम् । इत्यादीति । आदिशब्दादभिजित् — आभिजितः, अआयुक् — आआयुजः । प्रतिप्रसूत इति । कालाट्ठञा निवर्तमानो य औत्सर्गिकोऽण्सन्धिवेलादि॑सूत्रेण पुनरभ्यनुज्ञात इत्यर्थः ।
Padamanjari¶
वत्सशालेति । ह्रस्वान्तस्य दीर्घान्तस्य वा ग्रहणम् । बहुलग्रहणस्यैवायं प्रपञ्चेति । अश्वयुक्शतभिपक्शब्दावभिप्रेत्यैतदुक्तम् ; अन्ययोरनक्षत्रवाचित्वात् । अभिजिदिति । यद्यपि नक्षत्रमप्यस्ति - ठभिजिन्नाम नक्षत्रपुमपरिष्टादषाढानामितिऽ, मुहूर्तमप्यस्ति ॥
Nyaas¶
वत्सशालशब्दो नपुंसकलिङ्गो गृह्रते। कुत एतस्व्यप्तेव्र्यायात;नपुंसकलिङ्गस्य हि ग्रहणे लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि लुग्न सिध्यति; न तु स्त्रीलिङ्गस्य ग्रहणे नपुंसकात्। बहुलग्रहणस्यायं प्रपञ्चः इति। वत्सशालशब्दो यद्यपि नक्षत्रवचनो न भवति, तथापि बहुलवचनात् ततोऽपि लुग्भविष्यतीत्यभिप्रायः॥
Prakriyasarvasvam¶
एभ्योऽणो वा लुक् । वत्सशालः । वात्सशालः । अभिजित् । आभिजितः । अश्वयुक् । आश्वयुजः । शतभिषक् । शातभिषजः । ‘अत्राणो वा डित्वं वाच्यम् ।’ शातभिषः ॥