43037: नक्षत्रेभ्यो बहुलम् ========================== **Padacheda:** नक्षत्रेभ्यः | S | 5 | 3 | बहुलम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- There is diversely लुक् elision of the affix denoting 'born therein' after an asterism. Vasu English Translation ------------------------ There is diversely लुक् elision of the affix denoting 'born therein' after an asterism. Thus रोहिणः or रौहिणः (4.3.16) मृगशिरा or मार्गशीर्षः (4.3.16). Kashika ------- नक्षत्रेभ्य उत्तरस्य जातार्थे प्रत्ययस्य बहुलं लुग् भवति। रोहिणः, रौहिणः। मृगशिराः, मार्गशीर्षः॥ Siddhanta Kaumudi ----------------- जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः । रौहिणः ॥ Balamanorama ------------ **नक्षत्रेभ्यो बहुलम्** - नक्षत्रेभ्यो बहुलं । रोहिण इति । रोहिण्यां जात इत्यर्थः । नक्षत्राऽणो लुकि आदिवृद्धिनिवृत्तौलुक्तद्धितलुकी॑ति स्त्रीप्रत्ययनिवृत्तिः । नच तथा सति तकारस्य नकारोऽपि निवर्तेतेति वाच्यं, न हि रोहितशब्दोऽयं वर्णविशेषवाचको येनवर्णादनुदात्ता॑दिति ङीपो निवृत्तौ तकारोऽपि निवर्तेत । किंतु रोहिणीशब्दोऽयमब्युत्पन्नो नक्षत्रविशेषे रूढः । 'रोहिणी नक्षत्रे' इति गौरादि पाठान्ङीष् । अत एवरोहिणी नक्षत्रं प्रजापतिर्देवते॑त्यादौ अन्तोदात्तत्वं श्रूयमाणं न विरुध्यते । अन्यथावर्णानां तणतिनितान्ताना॑मित्याद्युत्तत्वं स्यादित्यलम् । Nyaas ----- `रोहिणः`इत्यादौ नक्षत्राणः पक्षे लुक्। `मृगशिराः`इति। **अत्वसन्तस्य चाधातोः** (6.4.14) इति दीर्घः।`मार्गशीर्षः`इति। **ये च तद्धिते** (6.1.61) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाच्छिरसः शीर्षभावः। अथ बहुलग्रहणं किमर्थम्? नपूर्वसूत्रादेव वाग्रहणमनुवर्तिष्यते? इदं प्रयोजनम् - न क्वचिदन्यदेव यथा स्यात्, तेन फल्गुन्यषाढाभ्यां टानौ सिद्धौ भवतः। श्रविष्ठाषाढाभ्याञ्छणपीति॥ Prakriyasarvasvam ----------------- नक्षत्रेभ्यः परस्य जातप्रत्ययस्य बहुलं लुक् स्यात् । मार्गशीर्षज्यैष्ठचैत्रमाघरैवतरोहिणः । अलुकोऽथापभरणश्रावणौ वा परेषु लुक् ॥ २४२ ॥ इति श्रोतमत्तं वृत्तौ तूक्तो मृगशिरा अपि । आर्द्रायुक्तो बुनादिर्यः स तथैव हि सर्वदा ॥ २४३ ॥