43015: श्वसस्तुट् च =================== **Padacheda:** श्वसः | S | 5 | 1 | तुट् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ठञ् comes optionally comes in the remaining senses after the word श्वस् and it takes the augment तुट्। Vasu English Translation ------------------------ The affix ठञ् comes optionally comes in the remaining senses after the word श्वस् and it takes the augment तुट्। The word श्वस् takes the affix त्यप् by *sutra* (4.2.10). This *sutra* ordains ठञ् ॥ When free from the scope of these rules, it takes *tyu* and *tyul* affixes also by (4.3.23). Thus श्वस् + तुट् + ठञ् = शौवस् + त् + इक (7.3.3) = शौवस्तिकः "belonging to to-morrow or ephemeral". Otherwise श्वस्त्यः and श्वस्तनः ॥ Bhashya ------- श्वसस्तुट् च (1585) (ठञ्ञोऽधिकरणम्) (5451 आगमस्य टित्वकरणे आक्षेपवार्तिकम्॥ 1 ॥) - श्वसस्तुठ्यादेशानुपपत्तिरनादित्वात् - (भाष्यम्) श्वसस्तुटि कृते आदेशानुपपत्तिः। किं कारणम्? अनादित्वात्। तुटि कृतेऽनादित्वादादेशो न प्राप्नोति॥ (तुडागमस्य पूर्वान्तत्वबोधकं भाष्यम्) एवं तर्हि पूर्वान्तः करिष्यते॥ (5452 पूर्वान्तत्वे दोषवार्तिकम्॥ 2 ॥) - पूर्वान्ते कप्रतिषेधः - (भाष्यम्) यदि पूर्वान्तः, कादेशस्य प्रतिषेधो वक्तव्यः। शौवस्तिकम्। तान्तादिति कादेशः प्राप्नोति। (परादित्वाभ्युपगभाष्यम्) अस्तु तर्हि परादिः। ननु चोक्तं श्वसस्तुठ्यादेशानुपपत्तिरनादित्वादिति॥ (5453 परादित्वाभ्युपगतदोषनिराकरणवार्तिकम्॥ 3 ॥) - सिद्धं त्वादिष्टस्य तुड्वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? तुडादिष्टस्येति वक्तव्यम्॥ (5454 सिद्धान्तवार्तिकम्॥ 4 ॥) - संनियोगाद्वा - (भाष्यम्) अथ वा चेन संनियोगः करिष्यते। तुट् च। किं च? यच्चान्यत्प्राप्नोति। किं चान्यत्प्राप्नोति? आदेशः॥ Kashika ------- विभाषेत्येव। श्वः शब्दाद् विभाषा ठञ् प्रत्ययो भवति, तस्य च तुडागमो भवति। त्यप् प्रत्ययोऽप्यतो विहित **ऐषमोह्यः श्वसोऽन्यतरस्याम्** (४.२.१०५) इति। एताभ्यां मुक्ते ट्युट्युलावपि भवतः। शौवस्तिकः, श्वस्त्यः, श्वस्तनः॥ Siddhanta Kaumudi ----------------- श्वस् शब्दाट्ठञ् वा स्यात्तस्य तुडागमश्च ॥ Balamanorama ------------ **श्वसस्तुट् च** - आसस्तुट् च । तस्येति । प्रत्ययस्येत्यर्थः । तुटि टकार इत् । उकार उच्चारणार्थः । Tattvabodhini ------------- **श्वसस्तुट् च** - आसस्तुट् च । विभाषेत्यनुवर्तनादाह — ठञ्वास्यादिति ।ऐषमोह्रः॑इत्यादिना त्यबपि विकल्पेन विहितः । आभ्यां मुक्ते ठ्युटउलावपि स्त एव । Padamanjari ----------- तस्य चेति । ठञः, न तु श्वः शब्दस्य । कुत एतत् ? ठञो विधेयत्वेन प्राधान्यात् । स च तुडागम इकादेशे कृते भवतीति वेदितव्यम् । ननु चान्तरङ्गत्वादिकादेशात्प्राक् ठञस्तुट् प्राप्नोति, इकादेशस्त्वङ्गधिकारे विधानादसङ्गसंज्ञायामभिनिर्वृतायां पश्चाद् भवन्बहिरङ्गः, तुटि च कृते प्रत्ययादेष्ठस्येकादेशविधानाद्यथा कर्मठ इत्यत्र न भवति एवमत्रापि न स्यात्, यदि पुनरयं तुक् पूर्वान्तः क्रियते; नैवं शक्यम्, ठिसुसुक्तान्तात्कःऽ इति कादेशः स्यात्, तस्मादस्तु परादिरेव । कथमिकादेशः ? ज्ञापकात्सिद्धम्, यदयं वुञ्च्छणाअदिषु ठचश्चित्करणं करोति, तज्ज्ञापयति - अन्तरङ्गेभ्योऽपि पूर्वमिकादेश एव भवतीति । यदि न स्यात्, प्रत्ययसंज्ञासन्नियोगशिष्टे प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदातत्वं स्यात् । ट।लुट।लुलावपि भवतीति ।'सायंचिरम्' इत्यादिना श्वः शब्दोऽव्ययम्, कालवाची चेति कृत्वा । शौवस्तिकमिति । द्वारादित्वाद् वृद्धिप्रतिषेधः, ऐजागमश्च ॥ Nyaas ----- तस्य {तस्य चेतीति मूलपाठः;पदमञ्जरीश्च।} वेति। ठञः। कुत एतत्? तस्य विधीयमानतया प्राधान्यात्, प्रधाने च कार्यसम्प्रत्ययात्। स च तुडागम इकादेशे कृते भवतीति वेदितव्यम्। ननु सन्नियोगशिष्टत्वात् तुटस्तेनैव तावद्भवितव्यम्, पश्चादङ्गसंज्ञायामभिनिर्वृत्तायामिकादेशेन? नैतदस्ति; उपेदशावस्थायामेव हीकादेशे कृते न भवितव्यम्, ज्ञापकात्। यदयं **वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः** (4.2.80) इति प्रत्ययस्वरार्थमनुबन्धं चकारं करोति। प्रत्ययसंज्ञायाः सन्नियोगाद्धि प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदात्तत्वम्, किञ्चित्करणेन? तस्माच्चित्करणाद्विज्ञायते - सन्नियोगशिष्टेभ्योऽपि पूर्वमिकादेशो भवति। तेन ठग्ग्रहणान्यङ्गसंज्ञाभूतानीकमेव बोधयन्तीति तुडपि तस्यैव भविष्यतीति विज्ञायते। `एताभ्याम्` इत्यादि। आःशब्दोऽयमव्ययं कालवाची। तेन यदा ठञ्त्यपौ न भवतः,तदा `सायञ्चिरम्` (4.3.23) इत्यादिना टउटउलौ अपि भवतः॥ Prakriyasarvasvam ----------------- श्वश्शब्दाद् वा ठञ् । ठस्येके कृते तुडागमश्च । श्वस् तिक, द्वारादित्वादैच । शौवस्तिकम् । वेत्युक्तेः, श्वस्तनम् ॥ Sutra Prayogas -------------- * **शौवस्तिकत्वं** (भट्टिकाव्यम्): `श्वसस्तुट् च` इति ठन् तुडागमश्च।