43004: अर्धाद्यत् ================= **Padacheda:** अर्धात् | S | 5 | 1 | यत् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix यत् comes after the word अर्द्ध in the remaining senses. Vasu English Translation ------------------------ The affix यत् comes after the word अर्द्ध in the remaining senses. This debars अण् ॥ Thus अर्द्ध्यम् 'belonging to half.' Vart:- When it has a prior term the affix ठञ् is used. As बालेयार्द्धिकम्, (बल्यर्थंवस्तु = बालेयं)॥ गौतमार्द्धिकम् ॥ Bhashya ------- 1574 अर्धाद्यत् (यतोऽधिकरणम्) (5449 विधिवार्तिकम्॥ 1 ॥) - अर्धाद्यद्विधाने सपूर्वाट्ठञ्ञ् - (भाष्यम्) अर्धाद्यद्विधाने सपूर्वाट्ठञ्ञ् वक्तव्यः। बालेयार्धिकः। गौतमार्धिकः॥ (5450 विधिवार्तिकम्॥ 2 ॥) - दिक्पूर्वपदाद्यच्च - (भाष्यम्) दिक्पूर्वपदाद्यच्च ठञ्ञ्च वक्तव्यः। पूर्वार्ध्यः, पौर्वार्धिकः; दक्षिणार्ध्यः, दाक्षिणार्धिकः, उत्तरार्ध्यः, औत्तरार्धिकः॥ (वार्तिकाक्षेपभाष्यम्) किमर्थमिदमुच्यते, यथान्यास एव दिक्पूर्वपदादर्धादुभयमुच्यते। इदमद्यापूर्वं क्रियते -अर्धाद्यद्विधाने सपूर्वाट्ठञ्ञिति॥ (समाधानभाष्यम्) तद् द्वेष्यं विजानीयात् -सर्वमेव विकल्पत इति। तदाचार्यः सुहृदभूत्वाऽन्वाचष्टे दिक्पूर्वपदादर्धाद्यथान्यासमेव भवतीति॥ Kashika ------- अर्धशब्दाद् यत् प्रत्ययो भवति शैषिकः। अणोऽपवादः। अर्ध्यम्॥ सपूर्वपदाट् ठञ् वक्तव्यः॥ बालेयार्धिकम्। गौतमार्धिकम्॥ Siddhanta Kaumudi ----------------- अर्ध्यः ॥ Balamanorama ------------ **अर्धाद्यत्** - अर्धात् । अध्र्य इति । अर्धे जातादिरित्यर्थः ।सपूर्वपदाट्ठञ् वाच्यः॑ इति वार्तिकं भाष्ये स्थितम् । बालेयार्धिकः । Padamanjari ----------- बल्यर्थं वस्तु बालेयम्, तस्यार्धमुएकदेशः, तत्र भवं बालेयार्द्धिकम् ॥ Prakriyasarvasvam ----------------- अर्धे भवमर्ध्यम् । (वा० ४-३-३) राज्यार्धिकम् ॥ Sutra Prayogas -------------- * **परार्ध्यात्** (किरातार्जुनीयम्): `अर्धाद्यत्` इति यत्प्रत्ययः।