42131: मद्रवृज्योः कन्¶
Padacheda: मद्र-वृज्योः | S | 6 | 2 |
कन् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix कन् comes in the remaining senses after the words 1. मद्र and 2. वृजि।
Vasu English Translation¶
The affix कन् comes in the remaining senses after the words 1. मद्र and 2. वृजि। This debars वुञ्, though the words denote inhabited countries. Thus म꣡द्रकः ‘born in Madra’, वृ꣡जिकः ॥
Kashika¶
मद्रवृजिशब्दाभ्यां कन् प्रत्ययो भवति शैषिकः। जनपदवुञोऽपवादः। मद्रेषु जातो मद्रकः। वृजिकः॥
Siddhanta Kaumudi¶
जनपदवुञोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः ॥
Balamanorama¶
मद्रवृज्योः कन् - मद्रवृज्योः कन् । मद्रो वृजिश्च जनपदविशेषः । जगपदवुञोऽपवादः ।
Padamanjari¶
मद्रशब्दः’स्फायितञ्चि’ इति रक्प्रत्ययान्तः,’वृजी वर्जने’ ठिगुपधात्किःऽ इति किप्रत्ययान्तो वृजिशब्दः । जनपदवुञोऽपवाद इति । ठवृद्धादपिऽ इति ॥
Nyaas¶
`जनपदवुञोऽपवादः`इति। अवृद्धादपि बहुवचनविषयात् (4.2.125) इत्यादिप्राप्तस्य। मद्रवृज्योः कन्निति ञ्यन्तस्य परनिपातः द्वन्द्वे घि (2.2.32) इत्यस्य विधेरनित्यत्वज्ञापनार्थम्। तेन धूमाग्नी इत्येवमादि सिद्धं भवति॥
Prakriyasarvasvam¶
मद्रेषु जातादिर्मद्रकः वृजिकः ॥