42131: मद्रवृज्योः कन् ====================== **Padacheda:** मद्र-वृज्योः | S | 6 | 2 | कन् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix कन् comes in the remaining senses after the words 1. मद्र and 2. वृजि। Vasu English Translation ------------------------ The affix कन् comes in the remaining senses after the words 1. मद्र and 2. वृजि। This debars वुञ्, though the words denote inhabited countries. Thus म꣡द्रकः 'born in *Madra*', वृ꣡जिकः ॥ Kashika ------- मद्रवृजिशब्दाभ्यां कन् प्रत्ययो भवति शैषिकः। जनपदवुञोऽपवादः। मद्रेषु जातो मद्रकः। वृजिकः॥ Siddhanta Kaumudi ----------------- जनपदवुञोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः ॥ Balamanorama ------------ **मद्रवृज्योः कन्** - मद्रवृज्योः कन् । मद्रो वृजिश्च जनपदविशेषः । जगपदवुञोऽपवादः । Padamanjari ----------- मद्रशब्दः'स्फायितञ्चि' इति रक्प्रत्ययान्तः,'वृजी वर्जने' ठिगुपधात्किःऽ इति किप्रत्ययान्तो वृजिशब्दः । जनपदवुञोऽपवाद इति । ठवृद्धादपिऽ इति ॥ Nyaas ----- `जनपदवुञोऽपवादः`इति। **अवृद्धादपि बहुवचनविषयात्** (4.2.125) इत्यादिप्राप्तस्य। मद्रवृज्योः कन्निति ञ्यन्तस्य परनिपातः **द्वन्द्वे घि** (2.2.32) इत्यस्य विधेरनित्यत्वज्ञापनार्थम्। तेन धूमाग्नी इत्येवमादि सिद्धं भवति॥ Prakriyasarvasvam ----------------- मद्रेषु जातादिर्मद्रकः वृजिकः ॥