42130: विभाषा कुरुयुगन्धराभ्याम्¶
Padacheda: विभाषा | S | 1 | 1 |
कुरु-युगन्धराभ्याम् | S | 5 | 2 |
Sutrartha¶
Vasu English Summary¶
The affix वुञ् comes optionally in the remaining senses after the words 1. कुरु and 2. युगन्धर।
Vasu English Translation¶
The affix वुञ् comes optionally in the remaining senses after the words 1. कुरु and 2. युगन्धर। Thus कौरवकः or कौरवः꣡, यौगन्धरकः or गौगन्धरः꣡ ॥ These words denote जनपद or inhabited countries, and therefore by sutra (4.2.125) they would always, have taken the affix वुञ्. The present sutra makes the application of वुञ् optional and not obligatory. The word कुरु occurs in the list of कच्छादि class (4.2.133). By virtue of its being so classified, it will take अण् also. And when it means man or something found in men, it will take necessarily, not optionally, the affix वुञ् by virtue of sutra (4.2.134). As कौरवको मनुष्यः, कौरवकमस्य हसितम् ॥ This aphorism therefore, teaches option regarding कुरु with these restrictions, while it teaches option absolutely with regard to the word युगन्धरः ॥
Bhashya¶
विभाषा कुरुयुगन्धराभ्याम् (1551) (5437 विप्रतिषेधवार्तिकम्॥ 1 ॥) - कुरुयुगन्धरेभ्यो वावचनान्मनुष्यतत्स्थयोर्वुञ्ञ्विधानम् - (भाष्यम्) कुरुयुगन्धरेभ्यो वावचनात् मनुष्यतत्स्थयोर्वुञ्ञ् (4.2.134) इत्येतद्भवति विप्रतिषेधेन। कुरुयुगन्धरेभ्यो वा वचनस्यावकाशः -कौरवः, कौरवकः; यौगन्धरः, योगन्धरकः। मनुष्यतत्स्थयोर्वुञ्ञ् भवतीत्यस्यावकाशः -अन्ये कच्छादयः -काच्छको मनुष्यः, काच्छकमस्येक्षितम्, हसितम्, जल्पितम्, स्मितम्। इहोभयं प्राप्नोति, कौरवको मनुष्यः, कौरवकमस्येक्षितम्, हसितम्, जल्पितम्, स्मितम्। वुञ्ञ् भवति विप्रतिषेधेन॥ (कुरुशब्दस्य विप्रतिषेधानर्थक्ये भाष्यम्) नैष युक्तो विप्रतिषेधः। न हि कुरुशब्दस्यान्ये कच्छादयोऽवकाशः। कुरुशब्दस्य यः कच्छादिषु पाठः सोऽनवकाशः॥ न खल्वपि कुरुशब्दो विभाषां प्रयोजयति। अनेन वुञ्ञ्, कच्छादिपाठादण्भविष्यति। सैषा युगन्धरार्था विभाषा॥
Kashika¶
कुरु युगन्धर इत्येताभ्यां विभाषा वुञ् प्रत्ययो भवति शैषिकः। कौरवकः,कौरवः। यौगन्धरकः, यौगन्धरः। जनपदशब्दावेतौ, ताभ्याम् **अवृद्धादपि०**(४.२.१२५)इति नित्ये वुञि प्राप्ते विकल्प उच्यते। कुरुशब्दः कच्छादिषु(४.२.१३३) अपि पठ्यते, तत्र वचनादणपि भविष्यति। सैषा युगन्धरार्था विभाषा। **मनुष्यतत्स्थयोः०**(४.२.१३४)तु कुरुशब्दाद् नित्य एव वुञ् प्रत्ययो भवति। कौरवको मनुष्यः, कौरवकमस्य हसितमिति॥
Siddhanta Kaumudi¶
वुञ् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः ॥
Balamanorama¶
विभाषा कुरुयुगन्धराभ्याम् - विभाषा कुरु । कुरुयुगन्धरौ जनपदौ । अवृद्धाभ्यामपि ताभ्याम्अवृद्धादपी॑ति नित्यं प्राप्ते विकल्पः ।
Tattvabodhini¶
विभाषा कुरुयुगन्धराभ्याम् - विभाषा कुरु । कुरुशब्दः कच्छादिषु पठते, तत्सामर्थ्यात्पक्षेऽण्सिद्ध इति परिशेषाद्विभाषाग्रहणं युगन्धरार्थमेव ।अवृद्धादपी॑ति नित्यप्राप्तो वुञनेन विकल्प्यते । मनुष्यतत्स्थयोस्तु परत्वान्नित्य एव वुञ् । कौरवको मनुष्यः । कौरवकमस्य हसितम् । एतदर्थमेवास्य कच्छादौ पाठः । अन्यथा अनयैव विभाषया वुञणोः सिद्धौ किं तेनेति भावः ।
Padamanjari¶
कुरुशब्दः कच्छादिषु पठ।ल्ते इति कथं तर्हि कुरुशब्दाद् वुञः प्राप्तिरुक्ता, ताभ्यामवृद्धादपीति नित्यं वुञि प्राप्त इति ? आद्यप्राप्त्यभिप्रायेण तदुक्तम्, न पुनर्योऽनेन विकल्पेन बाध्यते तदभिप्रायेण । येऽपि पठन्ति -वुञि सिद्ध इति, प्राप्त इत्यर्थः । यथा सिद्धे सत्यारम्भो नियमार्थ इति कुरुशब्दार्थं विभाषाग्रहणं न कर्तव्यमिति प्रतिपादयिष्यन्नाह - कुरुशब्दः कच्छादिषु पठ।ल्तीति । ततः किमित्यत्राह - तत्रेति । किमर्तं तर्हि विभाषाग्रहणमित्याह -सैषेति । ननु युगन्धरशब्दादपि ठवृद्धादपिऽ इति नित्ये वुञि सिद्धेऽन्तरेणापि विभाषाग्रहणं पुनर्वचनाद्विकल्पो विज्ञास्यते ? नैवं शक्यम् ; विपर्ययोऽपि स्यात् । युगन्धरशब्दान्नित्यो वुञ्, ठवृद्धादपिऽ इत्यनेन तु विभाषित इति पुनरारम्भो ह्यएवमप्युपपद्यते । मनुष्यतत्स्थयोस्त्विति । एतच्च कच्छादिषु पाठसामर्थ्याल्लभ्यते, अन्यथाऽनयैव विभाषया वुञणोः सिद्धत्वातत्रास्य पाठोऽनर्थकः स्यात् ॥
Nyaas¶
सैषा युगन्थरार्था विभाषा इति।न कुरुशब्दार्था। तत्र कच्छादिपाठाद्विनापि विभाषाग्रहणेनाणा भवितव्यम्। ननु युगन्धरशब्दादप्यणि अवृद्धादपि बहुवचनविषयात् (4.2.125) इति नित्यएव वुञि प्राप्ते वचननित्यार्थं भविष्यति, नित्ये हि वुञि पुनरारम्भोऽनर्थक- स्यात्, तस्माद्युगन्धरार्थाऽपि विभाषा न प्रसज्येत? नैतत् पुनरारम्भो विपर्ययेणापि शक्यते समर्थयितुम्। जनपदलक्षणो (4.2.123) यो वुञ् स विभाषा,अयं तु नित्य इति।अस्मात्तु युगन्धरार्थं विभाषाग्रहणं कर्तव्यम्। मनुष्यतत्स्थयोस्तु कुरुशब्दान्नित्य एव वुढ्भवति, कच्छादिषु पाठसामर्थ्यात्। अन्यथानयैव विभाषया वुञणोः सिद्धत्वात् कच्चादिपाठोऽर्थकः स्यात्; अनवकाशत्वात्॥
Prakriyasarvasvam¶
आभ्यां वा वुञ् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः ॥