42132: कोपधादण्

Padacheda: क-उपधात् | S | 5 | 1 |

अण् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix अण् comes in the remaining senses after a word denoting a place and having the letter क as its penultimate.

Vasu English Translation

The affix अण् comes in the remaining senses after a word denoting a place and having the letter क as its penultimate. This debars वुञ् in the case of words which denote जनपद or inhabited countries. Of course the words which do not denote जनपद, will have taken अण् even without this rule. Thus आर्षिकः “born in ऋषिकाः” So also माहिषिकः ॥

The affix अण् will apply even when the word ends in उ, and would have otherwise taken ठञ् by (4.2.119). Thus ऐक्ष्वाकः “born in इक्ष्वाकु” ॥ The word देशे is understood in this sutra.

Kashika

देश इत्येव। ककारोपधात् प्रातिपदिकादण् प्रत्ययो भवति शैषिकः। जनपदवुञोऽपवादः। अन्यत्र जनपदं मुक्त्वा पूर्वेण(४.२.११०) एव कोपधादणि सिद्धम्। ऋषिकेषु जातः, आर्षिकः। माहिषिकः। अण्ग्रहणमुवर्णान्तादपि यथा स्यात्। इक्ष्वाकुषु जात ऐक्ष्वाकः॥

Siddhanta Kaumudi

माहिषिकः ॥

Balamanorama

कोपधादण् - कोपधादण् । माहिषिक इति । महिषिको नाम जनपदः, तत्र भव इत्यर्थः ।प्रस्थोत्तरपदे॑त्यादिना सिद्धे जनपदवुञ्बाधनार्थमिदम् ।

Padamanjari

किं पुनरदेशवाचिनोऽयं नेष्यते यतो देशग्रहणमनुवर्तते ? इत्यत आह - अन्यत्रेति । पूर्वेण, प्रस्थोतरपदादिसूत्रेण, एवं चोतरार्थं देशानुवृत्तिः न त्वदेशनिवृत्यर्था । नन्वदेशवाचिनः प्राग्दीव्यतीय एवाण् सिद्धः, प्रस्थोतरपदादिसूत्रं तु उदीच्यग्रामलक्षणाञो बाधनार्थम्, तत्किमुच्यते - अन्यत्र पूर्वेणैवेति, सत्यम् ; सति त्वेवमर्थे तस्यारम्भे प्रतिपदविधानातेनैव सर्वत्राण्विधिर्युक्तः, अथाण्ग्रहणं किमर्थम्, न कोपधाद्यथाविहितमित्येवोच्येत, आरम्भसामर्थ्याद्धियो विहितो न च प्राप्नोति स एव भविष्यति ? इत्यत आह - अण्ग्रहणमिति । इक्ष्वाकुशब्दाद् ठोर्देअशे ठञ्ऽ प्राप्तः, तस्मिन् जनपदवुञाबाधिते यद्यण्ग्रहणं नक्रियते पुनर्वचनाद् वुञेव स्याद्, अण्ग्रहणे त्वणेव भवति । ऐक्ष्वाक इति । दाण्डिनायनादिसूत्रेण टिलोपः, एवं चाण्ग्रहणादेवायमोर्देअशे ठञो बाधको न परत्वात् ॥

Nyaas

जनपदवुञोऽपवादः इति। पूर्वत्प्रप्तस्य। किं पुनर्देशादन्यत्र वर्तमानो नेष्यते, यो देशे वर्तते? इत्याह - अन्यत्रेत्यादि पूर्वेण इति।प्रस्थोत्तरपदात् (4.2.109) इति सूत्रेण।अथाण्ग्रहणं किमर्थम्, न कोपधाद्यथाविहितमेवोच्येत, यथाविहितमुच्यमानेऽणपवादो वुञ् स्यादिति चेत्? न; वुञ्विधाने हि वचनमनर्थकं स्यात्,तेन विना वुञः सिद्धत्वात्। तस्माद्वचनसामर्थ्याद्विहितोऽणेव प्राप्नोति। अन्येन बाधित्वा अत एवाण् अतएवाण् भविष्यतीति। स हि प्राग्दीव्यतोऽण् (4.1.83) इति विहितो बाधितश्च वुञैवेत्यत आह - अण्ग्रहणम् इत्यादि। इक्ष्वाकुषु जातः`इति। इक्ष्वाकुशब्दादोर्देशे ठञ् (4.2.118) प्राप्तः, तस्मिन् जनपदवुञा बाधिते यदीहाज्ग्रहणं न क्रियते तदा पुनर्वचनाद्वुञेव भवति, अण्ग्रहणादणेव भवति। `ऐक्ष्वाकः इति। दाण्डिनायनहास्तिनायन (6.4.174) इत्यादाविक्ष्वाकुशब्दस्योकारस्य लोपो निपातितः॥

Prakriyasarvasvam

कोपधाद् देशादणेव । ऋषकेषु जात आर्षकः । ऐक्ष्वाकः । ‘अवृद्धादपी’ (४-२-१२९)ति वुञि ओर्देशे ठञि च प्राप्तेऽण् ॥