42119: ओर्देशे ठञ्

Padacheda: ओः | S | 5 | 1 |

देशे | S | 7 | 1 |

ठञ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affixes ठञ् comes in the remaining senses after a प्रातिपदिक (Nominal Stem) denoting a locality and ending in उ।

Vasu English Translation

The affixes ठञ् comes in the remaining senses after a प्रातिपदिक (Nominal Stem) denoting a locality and ending in उ। The phrase ‘वृद्धात्’ does not govern this sutra. For had it been understood in this aphorism, there would have been no necessity of repeating it in the next.

Thus तैषादकर्षुकः, शाबरजम्बुकः ॥ Why do we say देशे ‘denoting a country’? Observe पाटवाः ‘the pupils of पटु’ formed by अण् ॥

In the previous sutras, the anuvritti of ठञ् and ञिठ् both were current; hence the repetition of ठञ् in this sutra, because we could not take the anuvritti of ठञ् from the last sutra without drawing the anuvritti of ञिठ् ॥

Kashika

वृद्धादिति नानुवर्तते, उत्तरसूत्रे पुनर्वृद्धग्रहणात्। उवर्णान्ताद् देशवाचिनः प्रातिपदिकाट् ठञ् प्रत्ययो भवति शैषिकः। नैषादकर्षुकः। शाबरजम्बुकः। देश इति किम्? पटोश्छाात्राः पाटवाः। ठञ्ञिठयोः प्रकरणे ठञः केवलस्यानुवृत्तिर्न लभ्यत इति ठञ्ग्रहणं कृतम्॥

Siddhanta Kaumudi

उवर्णान्ताद्देशवाचिनष्ठञ् । निषादकर्षूः । नैषादकर्षकः । केऽणः (SK834) इति ह्रस्वः । देशे किम् । पटोश्छात्राः पाटवाः । ञिठं व्यावर्तयितुं ठञ् ग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकार्षुकः ॥

Balamanorama

ओर्देशे ठञ् - ओर्देशे ठञ् । निषादकर्षूरिति । ‘कश्चिद्ग्राम’ इति शेषः । नैषादकर्षुक इति । उगन्तात्परत्वात्कादेशः ।

Padamanjari

नैषादकर्षुकः, शाबरजम्बुक इति । निषादकर्षू-शबरजम्बूशब्दाभ्यां ठञ्, ठिसुसुक्तान्तात्कःऽ,’के’ णःऽ इति ह्रस्वः ॥

Nyaas

नैषादकर्षुकः। शावरजम्बुकः इति। निषादकर्षूवरजम्बूशब्दाभ्यां ठञ्, इसुसुक्तान्तात् कः (7.3.51) , केऽणः (7.4.13) इति ह्रस्वः। ननु च ठञ् प्रकृत एव, स एवेहानुकृष्यते, तत्क ठञ्ग्रहणेन? इत्यत आह - ठञ्ञिठयोः इति। यथैव हि ठञ् प्रकृतः, एवं ञिठोऽपि। तत्र द्वयोरपि प्रकरणे ठञ् चानुवर्तिष्यते, नेतर इत्येतन्न लभ्यते। तस्मात् ञिठस्य निवृत्तये पुनष्ठञ्ग्रहणं कृतम्। ननु चास्वरितत्वादेव ञिठो नानुवर्तिष्यते? सत्यमेतत्; तदेवास्वरितत्वं ज्ञापयितुं ञिठस्य ठञ्ग्रहणं कृतम्। तच्चास्वरितत्वमाख्यायते मन्दबुद्धीनामनुग्रहाय॥

Prakriyasarvasvam

उवर्णान्ताद् देशात् ठञ् । उगन्तात् कः । ‘केऽणः’ । शम्बरजम्ब्वो भवं शाम्बरजम्बुकम् ॥